श्रीः अध्यायः 062 नारदेन सृञ्जयम् प्रति मान्धातृचरिताभिधानम् ॥ 1 ॥ नारद उवाच 001
मान्धातारं यौवनाश्वं मृतं सृञ्जय शुश्रुम । 001a
यं देवावश्विनौ गर्भे पितुः पार्श्वे चकर्षतुः ॥ 001c
मृगयां विचरन्राजा तृषितः क्लान्तवाहनः । 002a
धूमं दृष्ट्वाऽगमत्सत्रं पृषदाज्यमवाप सः ॥ 002c
तं दृष्ट्वा युवनाश्वस्य जठरे रविसन्निभम् । 003a
गर्भं निरूहतुर्देवावश्विनौ भिषजां वरौ ॥ 003c
तं दृष्ट्वा पितुरुत्सङ्गे शयानं देववर्चसम् । 004a
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ॥ 004c
मामेवायं धयत्वङ्ग इति ह स्माह वासवः । 005a
ततोङ्गुलिभ्यो हीन्द्रस्य प्रादुरासीत्पयोऽमृतम् ॥ 005c
मां धास्यतीति कारुण्याद्यदिन्द्रो ह्यन्वकम्पयत् । 006a
तस्मात्तु मान्धातेत्येवं नाम तस्याद्भुतं कृतम् ॥ 006c
ततस्तु धारां पयसो घृतस्य च महात्मनः । 007a
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ॥ 007c
अपिबत्पाणिमिन्द्रस्य स चाप्यह्नाऽभ्यवर्धत । 008a
सोऽभवद्द्वादशसमो द्वादशाहेन वीर्यवान् ॥ 008c
इमां च पृथिवीं कृत्स्नामेकाह्ना स व्यजीजयत् । 009a
धर्मात्मा धृतिमान्वीरः सत्यसन्धो जितेन्द्रियः ॥ 009c
जनमेजयं सुधन्वानं गयं पूरुं बृहद्रथम् । 010a
असितं च नृगं चैव मान्धाता मानवोऽजयत् ॥ 010c
उदेति च यतः सूर्यो यत्र च प्रतितिष्ठति । 011a
तत्सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ 011c
सोऽश्वमेधशतैरिष्ट्वा राजसूयशतेन च । 012a
अददद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशाम्पते ॥ 012c
हैरण्यान्योजनोत्सेधानायताञ्शतयोजनम् । 013a
बहुप्रकारान्सुस्वादून्भक्ष्यभोज्यान्नपर्वतान् ॥ 013c
अतिरिक्तं ब्राह्मणेभ्यो भुञ्जानो हीयते जनः ॥ 014ac
भक्ष्यान्नपाननिचयाः शुशुभुस्त्वन्नपर्वताः । 015a
घृतह्रदाः सूपपङ्का दधिफेना गुडोदकाः ॥ 015c
रुरुधुः पर्वतान्नद्यो मधुक्षीरवहाः शुभाः । 016a
देवासुरा नरा यक्षा गन्धर्वोरगपक्षिणः ॥ 016c
विप्रास्तत्रागताश्चासन्वेदवेदाङ्गपारगाः । 017a
ब्राह्मणा ऋषयश्चापि नासंस्तत्राविपश्चितः ॥ 017c
समुद्रान्तां वसुमतीं वसुपूर्णां तु सर्वतः । 018a
स तां ब्राह्मणसात्कृत्वा जगाम स्वान्गृहान्प्रति ॥ 018c
'राजाऽपि विविधैरिष्ट्वा यज्ञैर्विविधदक्षिणैः ।' 019a
गतः पुण्यकृतां लोकान्व्याप्य स्वयशसा दिशः ॥ 019c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 020a
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 020c
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 020e

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये द्विषष्टितमोऽध्यायः ॥ 62 ॥

5-62-6 तस्मान्मान्धातरित्येवम् इति क.पाठः ॥ 5-62-8 द्वादशसमो द्वादशवार्षिकः । शय इति पाठे द्वादशहस्तः । व्यजीजयद्विजितवान् ॥ 5-62-13 रोहितान् लोहितभूप्रदेशान्पद्मरागखनिमतो वा मत्स्यान्देशविशेषान् । हैरण्यान् स्वर्णाकरयुक्तान् । जनोत्सेधान् जनेषु उत्सेध उच्छ्रायो येषां तान् । मत्स्यदेशोत्पन्ने हि नद्यावद्यापि परम्परया पूर्वापरौ समुद्रौ गच्छत इति तेषामुच्छ्रितत्वं प्रसिद्धम् । रोहितानश्वान् इति क. ङ. पाठः ॥ 5-62-14 अतिरिक्तमवशिष्टं भुञ्जानो जन एव हीयते तत्वन्नमित्यर्थः ॥ 5-62-62 द्विषष्टितमोऽध्यायः ॥