श्रीः अध्यायः 061 नारदेन सृञ्जयम् प्रति दिलीपप्रभाववर्णनम् ॥ 1 ॥ नारद उवाच 001
दिलीपं चापि राजेन्द्र मृतं सृञ्जय शुश्रुम । 001a
यस्य यज्ञशतेष्वासन्प्रयुतायुतशो द्विजाः ॥ 001c
तन्त्रज्ञानार्थसम्पन्ना यज्वानः पुत्रपौत्रिणः । 002a
'स्वच्छन्दाः पुण्यगन्धाश्च सुभक्षा हेममालिनः । 002c
यस्य कर्माणि भूरीणि कथयन्ति मनीषिणः ॥' 002e
य इमां वसुसम्पूर्णां वसुधां वसुधाधिपः । 003a
ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत ॥ 003c
'राजानो वितते यज्ञे उपहारानुपाहरन् ।' 004a
दिलीपस्य तु यज्ञेषु कृतः पन्था हिरण्मयः । 004c
तं धर्म इव कुर्वाणाः सेन्द्रा देवाः समागमन् ॥ 004e
सहस्रं यत्र मातङ्गा अगच्छन्पर्वतोपमाः । 005a
सौवर्णं चाभवत्सर्वं सदः परमभास्वरम् ॥ 005c
रसानां चाभवन्कुल्या भक्ष्याणां चापि पर्वताः । 006a
सहस्रव्यामा नृपते यूपाश्चासन्हिरण्मयाः ॥ 006c
चषालप्रचषालौ च यस्य यूपे हिरण्मयौ । 007a
नृत्यन्त्यप्सरसो यत्र षट्सहस्राणि सप्त च ॥ 007c
यत्र वीणां वादयति प्रीत्या विश्वावसुः स्वयम् । 008a
सर्वभूतान्यमन्यन्त मम वादयतीति तम् ॥ 008c
रागखाण्डवभोज्यैश्च मत्ताः पतिषु शेरते ॥ 009ac
तदेतदद्भुतं मन्ये अन्यैर्न सदृशं नृपैः । 010a
यदप्सु युध्यमानस्य चक्रे न परिपेततुः ॥ 010c
राजानं दृढधन्वानं दिलीपं सत्यवादिनम् । 011a
येऽपश्यन्भूरिदक्षिण्यं तेऽपि स्वर्गजितो नराः ॥ 011c
पञ्च शब्दा न जीर्यन्ति दिलीपस्य निवेशने । 012a
स्वाध्यायघोषो ज्याघोषः पिबताश्नीत खादत ॥ 012c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 013a
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 013c
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 013e

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये एकषष्टितमोऽध्यायः ॥ 61 ॥

5-61-2 तन्त्रं क्रिया ॥ 5-61-4 पन्था हिरण्मयः । हिरण्मय्यः स्रुचो भवन्तीति विधिमार्गस्तत आरभ्य प्रवृत्त इत्यर्थः ॥ 5-61-9 रागखाण्डवं गुडोदनम् । पर्पटिकेति वैदर्भाः । यद्योषा हेमसञ्छन्ना मत्ताः पथिषु शेरते इति ङ. ड. पाठः । पथि सुशेरते इति क. पाठः । रागखाण्डवभोज्यैश्च मत्ताः पथिषु शेरते इति घ.पाठः ॥ 5-61-10 अप्सु न परिपेततुः न ममज्जतुः । यस्याप्ययुध्यमानस्य चक्रे न परिमर्दनम् इति क. पाठः ॥ 5-61-61 एकषष्टितमोऽध्यायः ॥