श्रीः
अध्यायः 060
नारदेन सृञ्जयम् प्रति भगीरथचरित्रकथनम् ॥ 1 ॥
नारद उवाच 001
भगीरथं च राजानं मृतं सृञ्जय शुश्रुम । 001a
'परित्राणाय पूर्वेषां येन गङ्गाऽवतारिता ॥ 001c
यस्येन्द्रो बाहुवीर्येण प्रीतो राज्ञो महात्मनः । 002a
सोऽश्वमेधशतैरीजे समाप्तवरदक्षिणैः ॥ 002c
हविर्मन्त्रान्नसम्पन्नैर्देवानामादधौ मुदम् ।' 003a
येन भागीरथी गङ्गा चयनैः काञ्चनैश्चिता ॥ 003c
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः । 004a
राज्ञश्च राजपुत्रांश्च ब्राह्मणेभ्यो ह्यमन्यत ॥ 004c
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः । 005a
रथेरथे शतं नागाः सर्वे वै हेममालिनः ॥ 005c
सहस्रमश्वाश्चैकैकं गजानां पृष्ठतोऽन्वयुः । 006a
अश्वेअश्वे शतं गावो गवां पश्चादजाविकम् ॥ 006c
तेनाक्रान्ता जनौघेन दक्षिणा भूयसीर्ददत् । 007a
उपह्वरेऽतिव्यथिता तस्याङ्के निषसाद ह ॥ 007c
तथा भागीरथी गङ्गा ह्यूर्ध्वगा ह्यभवत्पुरा । 008a
दुहितृत्वं गता राज्ञः पुत्रत्वमगमत्तदा ॥ 008c
तां तु गाथां जगुः प्रीता गन्धर्वाः सूर्यवर्चसः । 009a
पितृदेवमनुष्याणां शृण्वतां वल्गुवादिनः ॥ 009c
भगीरथं यजमानमैक्ष्वाकुं भूरिदक्षिणम् । 010a
गङ्गा समुद्रगा देवी वव्रे पितरमीश्वरम् ॥ 010c
तस्य सेन्द्रैः सुरगणैर्देवैर्यज्ञः स्वलङ्कृतः । 011a
सम्यक्परिगृहीतश्च शान्तविघ्नो निरामयः ॥ 011c
यो य इच्छेत विप्रो वै यत्रयत्रात्मनः प्रियम् । 012a
भगीरथस्तदा प्रीतस्तत्रतत्राददद्वशी ॥ 012c
नादेयं ब्राह्मणस्यासीद्यस्य यत्स्यात्प्रियं धनम् । 013a
सोऽपि विप्रप्रसादेन ब्रह्मलोकं गतो नृपः ॥ 013c
येन यातौ मखमुखौ दिशाशाविह पादपाः । 014a
तेनावस्थातुमिच्छन्ति तं गत्वा राजमीश्वरम् ॥ 014c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 015a
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 015c
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 015e
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये षष्टितमोऽध्यायः ॥ 60 ॥
5-60-3 चयनैः काञ्चनैश्चिता स्वर्णेष्टकमयैः क्रत्वर्थस्यण्डिलैर्व्याप्ता चयनैरिष्टकासोपानैर्वा कूलद्वये उद्गमात्सङ्गमपर्यन्तं निचितेति वार्थः ॥ 5-60-4 राज्ञश्च राजपुत्रांश्चातिक्रम्येति शेषः । ब्राह्मणेभ्यः अमन्यत दत्तवान् ॥ 5-60-7 येन हेतुना उपह्वरे समीपे भूयसीर्दक्षिणा ददत् राजा आस्ते तेन हेतुना गङ्गा जनौघभारेण आक्रान्ता वेत्रयष्टिवत्तीरप्रदेशे नतिं प्राप्ता सती अतिव्यथिताऽतस्तस्याङ्के निषसादह । दक्षिणाभारेण तीरप्रदेशेऽवनते प्रवाहाम्बु राज्ञोऽङ्कपर्यन्तमागतमित्यर्थः ॥ 5-60-8 पुत्रत्वं नरकात्त्राणकर्तृत्वम् ॥ 5-60-12 वशी योगी योगप्रभावात् । यो यत्र देशे यत् इच्छेत्स तत्र प्राप्नुयादित्यर्थः ॥ 5-60-14 येऽनुयाता अभिमुखा दिशमद्यापि पादपाः । आनतास्तस्थुरिच्छन्तस्तमन्वागन्तुमीश्वरम् इति क. पाठः । अनेत्रास्तस्थुः इति क. ङ. पाठः ॥षष्टितमोऽध्यायः ॥