श्रीः अध्यायः 057 नारदेन सृञ्जयम् प्रति अङ्गराजगुणवर्णनम् ॥ 1 ॥ नारद उवाच 001
अङ्गं च पौरवं वीरं मृतं सृञ्जय शुश्रुम । 001a
सहस्रं यः सहस्राणां श्वेतानश्वानवासृजत् ॥ 001c
तस्याश्वमेधे राजर्षेर्देशाद्देशात्समीयुषाम् । 002a
शिक्षाक्षरविधिज्ञानां नासीत्सङ्ख्या विपश्चिताम् ॥ 002c
वेदविद्याव्रतस्नाता वदान्याः प्रियदर्शनाः । 003a
सुभिक्षाच्छादनगृहाः सुशय्यासनभोजनाः ॥ 003c
नटनर्तकगन्धर्वैः पूर्णकैर्वर्धमानकैः । 004a
नित्योद्योगैश्च क्रीडद्भिस्तत्र स्म परिहर्षिताः ॥ 004c
यज्ञे यज्ञे यथाकालं दक्षिणाः सोऽत्यकालयत् । 005a
द्विपान्दशसहस्राख्यानदात्काञ्चनसंवृतान् ॥ 005c
सध्वजान्सपताकांश्च रथान्हेममयांस्तथा | 006a
यः सहस्रं सहस्राणि कन्या हेमविभूषिताः ॥ 006c
धूर्युजाश्वगजारूढाः सगृहक्षेत्रगोशताः । 007a
शतं शतसहस्राणि स्वर्णमालानथर्षभान् ॥ 007c
गवां सहस्रानुचरान्दक्षिणामत्यकालयत् । 008a
हेमशृङ्ग्यो रौप्यखुराः सवत्साः कांस्यदोहनाः ॥ 008c
दासीदासखरोष्ट्रांश्च प्रादादाजाविकं बहु । 009a
रत्नानां विविधानां च विविधांश्चान्नपर्वतान् ॥ 009c
तस्मिन्संवितते यज्ञे दक्षिणामत्यकालयत् । 010a
तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः ॥ 010c
'अङ्गस्य यजमानस्य अपि विष्णुपदे वयम् । 011a
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । 011c
देवमानुषगन्धर्वांश्चात्यरोचन्त दक्षिणाः ॥' 011e
अङ्गस्य यजमानस्य स्वधर्माधिगताः शुभाः । 012a
गुणोत्तरास्तु क्रतवस्तस्यासन्सार्वकामिकाः ॥ 012c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 013a
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 013c
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 013e

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये सप्तपञ्चाशत्तमोऽध्यायः ॥ 57 ॥

5-57-2 राजर्षेः सर्वे देवाः समाययुः इति ढ. पाठः ॥ 5-57-4 पूर्णकैः स्वर्णचूडैः । वर्धमानकैः आरार्तिकहस्तैः ॥ 5-57-7 धूर्युजा रथाः ॥ 5-57-57 सप्तपञ्चाशत्तमोऽध्यायः ॥