श्रीः अध्यायः 056 नारदेन सृञ्जयम् प्रति सुहोत्रचरित्रकीर्तनम् ॥ 1 ॥ नारद उवाच 001
सुहोत्रं नाम राजानं मृतं सृञ्जय शुश्रुम । 001a
एकवीरमशक्यं तममरैरभिवीक्षितुम् ॥ 001c
यः प्राप्य राज्यं धर्मेण ऋत्विङ्मन्त्रिपुरोहितान् । 002a
सम्मान्य चात्मनः श्रेयः पृष्ट्वा तेषां मते स्थितः ॥ 002c
प्रजानां पालनं धर्मो दानमिज्या द्विषज्जयः । 003a
एतत्सुहोत्रो विज्ञाय धर्म्यमैच्छद्धनागमम् ॥ 003c
धर्मेणाराधयन्देवान्बाणैः शत्रूञ्जयंस्तथा । 004a
सर्वाण्यपि च भूतानि स्वगुणैरन्वरञ्जयत् ॥ 004c
यो भुक्त्वेमां वसुमतीं म्लेच्छाटविकवर्जिताम् । 005a
यस्मै ववर्ष पर्जन्यो हिरण्यं परिवत्सरान् ॥ 005c
हैरण्यास्तत्र वाहिन्यः स्वैरिण्यो व्यवहन्पुरा । 006a
ग्राहान्कर्कटकांश्चैव मत्स्यांश्च विविधान्बहून् ॥ 006c
कामान्वर्षति पर्जन्यो रूप्याणि विविधानि च । 007a
सौवर्णान्यप्रमेयाणि वाप्यश्च क्रोशसम्मिताः ॥ 007c
सहस्रं वामनान्कुब्जान्नक्रान्मकरकच्छपान् । 008a
सौवर्णान्विहितान्दृष्ट्वा ततोऽस्मयत वै तदा ॥ 008c
तत्सुवर्णमपर्यन्तं राजर्षिः कुरुजाङ्गले । 009a
ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत ॥ 009c
सोऽश्वमेधसहस्रेण राजसूयशतेन च । 010a
पुण्यैः क्षत्रिययज्ञैश्च प्रभूतवरदक्षिणैः ॥ 010c
काम्यनैमित्तिकाजस्रैरिष्ट्वेष्टां गतिमाप्तवान् । 011a
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ॥ 011c
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 012a
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 012c

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये षट्पञ्चाशत्तमोऽध्यायः ॥ 56 ॥

5-56-6 हैरण्या हिरण्मयाः ग्राहादयोऽपि । वाहिन्यो नद्यः । स्वैरिण्यः सर्वजनोपभोग्याः ॥ 5-56-56 षट्पञ्चाशत्तमोऽध्यायः ॥