श्रीः
अध्यायः 055
व्यासेन युधिष्ठिरम् प्रति षोडशराजकीयाख्यानकथनप्रारम्भः ॥ 1 ॥ नारदेन सृञ्जयम् प्रति मरुत्तराजचरितकथनम् ॥ 2 ॥
सञ्जय उवाच 001
श्रुत्वा मृत्युसमुत्पत्तिं कर्माण्यनुपमानि च । 001a
धर्मराजः पुनर्वाक्यं प्रसाद्यैनमथाब्रवीत् ॥ 001c
युधिष्ठिर उवाच 002
गुरवः पुण्यकर्माणः शक्रप्रतिमविक्रमाः । 002a
पूर्वं राजर्षयो ब्रह्मन्कियन्तो मृत्युना हताः ॥ 002c
भूय एव तु मां तथ्यैर्वचोभिरभिबृंहय । 003a
राजर्षीणां पुराणानां समाश्वासय कर्मभिः ॥ 003c
कियन्त्यो दक्षिणा दत्ताः काश्च दत्ता महात्मभिः । 004a
राजर्षिभिः पुण्यकृद्भिस्तद्भवान्प्रब्रवीतु मे ॥ 004c
'व्यास उवाच 005
अन्येपि यज्वनां लोका अन्ये चापि तपस्विनाम् । 005a
क्षमावतां च त्रींल्लोकाञ्शूरा गच्छन्ति भारत ॥ 005c
क्षत्रियस्य तुं सङ्ग्रामे शत्रून्हत्वा हतस्य वा । 006a
फलमत्यन्तमित्याहुर्धर्मशास्त्रविदो जनाः ॥ 006c
वेदविद्याव्रतस्नाता यज्वानः पुत्रिणश्च ये । 007a
तेभ्यः परार्थ्या यज्वानो यज्वभ्यश्च तनुत्यजः ॥ 007c
स वीरो यज्वनो नित्यं क्षत्रियानार्जुनिर्गतः । 008a
लोकान्पुण्यतमानिष्टानिति विद्धि विशाम्पते ॥ 008c
सर्वेषां नृपसिंहानां शृणु यज्ञान्नृपोत्तम । 009a
तानतिक्रम्य गच्छन्ति स्वर्गकामास्तनुत्यजः ॥ 009c
युधिष्ठिर उवाच 010
सर्वेषां यज्वनां यज्ञं श्रोतुमिच्छामि सुव्रत । 010a
दक्षिणाश्चानुरूपेभ्यो दत्ता राजर्षिसत्तमैः ॥' 010c
व्यास उवाच 011
शैब्यस्य नृपतेः पुत्रः सृञ्जयो नाम नामतः । 011a
सखायौ तस्य चैवोभौ ऋषी पर्वतनारदौ ॥ 011c
तौ कदाचिद्गृहं तस्य प्रविष्टौ तद्दिदृक्षया । 012a
विधिवच्चार्चितौ तेन प्रीतौ तत्रोषतुः सुखम् ॥ 012c
तं कदाचित्सुखासीनं ताभ्यां सह शुचिस्मिता । 013a
दुहिताऽभ्यागमत्कन्या सृञ्जयं वरवर्णिनी ॥ 013c
तयाऽभिवादितः कन्यामभ्यनन्दद्यथाविधि । 014a
तत्सलिङ्गाभिराशीर्भिरिष्टाभिरभितः स्थिताम् ॥ 014c
तां निरीक्ष्याब्रवीद्वाक्यं पर्वतः प्रहसन्निव । 015a
कस्येयं चञ्चलापाङ्गी सर्वलक्षणसम्मता ॥ 015c
उषा स्विद्भाः स्विदर्कस्य ज्वलनस्य शिखापि वा । 016a
श्रीर्ह्रिः कीर्तिर्धृतिः पुष्टिः सिद्धिश्चन्द्रमसः प्रभा ॥ 016c
सञ्जय उवाच 017
एवं ब्रुवाणं देवर्षिं नृपतिः सृञ्जयोऽब्रवीत् । 017a
ममेयं भगवन्कन्या वर्या वरमभीप्सति ॥ 017c
नारदस्त्वब्रवीदेनं देहि मह्यमिमां नृप । 018a
भार्यार्थं सुमहच्छ्रेयः प्राप्तुं चेदिच्छसे नृप ॥ 018c
ददानीत्येव संहृष्टः सृञ्जयः प्राह नारदम् । 019a
व्यास उवाच 019
'एवमुक्ते नृपतिना क्रोधपर्याकुलेक्षणः ।' 019a
पर्वतस्तु सुसङ्क्रुद्धो नारदं वाक्यमब्रवीत् ॥ 019c
पूर्वं ममैव मनसा विद्धि भार्यां वृतामृषे । 020a
यस्मादपाचरस्तस्मात्स्वर्गं न गच्छसि ॥ 020c
एवमुक्तो नारदस्तं प्रत्युवाचोत्तरं वचः । 021a
मनोवाग्बुद्धिसम्भाषा सत्यं तोयमथाग्नयः ॥ 021c
पाणिग्रहणमन्त्राश्च प्रथितं दारलक्षणम् । 022a
न त्वेषां निश्चिता निष्ठा त्वया सा मनसा स्मृता ॥ 022c
'एवं विद्वांस्तु मां यस्मादनुव्याहृतवानसि ।' 023a
तस्मात्त्वमपि न स्वर्गं गमिष्यसि मया विना । 023c
अन्योन्यमेवं शप्त्वा वै तस्थतुस्तत्र तौ तदा ॥ 023e
अथ सोऽपि नृपो विप्रान्पानाच्छादनभोजनैः । 024a
पुत्रकामः परं शक्त्या यत्नाच्चोपाचरच्छुचिः ॥ 024c
तस्य प्रसन्ना विप्रेन्द्राः कदाचित्पुत्रदर्शिनः । 025a
तपःस्वाध्यायनिरता वेदवेदाङ्गपारगाः ॥ 025c
सहिता नारदं प्राहुर्देह्यस्मै पुत्रमीप्सितम् । 026a
तथेत्युक्त्वा द्विजैरुक्तः सृञ्जयं नारदोऽब्रवीत् ॥ 026c
तुभ्यं प्रसन्ना राजर्षे पुत्रमीप्सन्ति ब्राह्मणाः । 027a
वरं वृणीष्व भद्रं ते यादृशं पुत्रमीप्सितम् ॥ 027c
तथोक्तः प्राञ्जली राजा पुत्रं वव्रे गुणान्वितम् । 028a
यशस्विनं कीर्तिमन्तं तेजस्विनमरिन्दमम् ॥ 028c
यस्य मूत्रं पुरीषं च क्लेदः स्वेदश्च काञ्चनम् । 029a
'सर्वं भवेत्प्रसादाद्वै तादृशं तनयं वृणे ॥ 029c
व्यास उवाच 030
तथा भविष्यतीत्युक्ते जज्ञे तस्येप्सितः सुतः । 030a
काञ्चनस्याकरः श्रीमान्प्रसादाद्वै सुकाङ्क्षितः ॥ 030c
रुदितस्य च नेत्राभ्यामपतत्तस्य नेत्रजम् । 031a
मूत्रं पुरीषं स्वेदश्च सर्वं भवति काञ्चनम् ।' 031c
सुवर्णष्ठीविरित्येव तस्य नामाभवत्कृतम् ॥ 031e
तस्मिन्वरप्रदानेन वर्धयत्यमितं धनम् । 032a
कारयामास नृपतिः सौवर्णं सर्वमीप्सितम् ॥ 032c
गृहप्राकारदुर्गाणि ब्राह्मणावसथान्यपि । 033a
शय्यासनानि यानानि स्थालीपिठरभाजनम् ॥ 033c
तस्य राज्ञोऽपि यद्वेश्म बाह्याश्चोपस्कराश्च ये । 034a
सर्वं तत्काञ्चनमयं कालेन परिवर्धितम् ॥ 034c
अथ दस्युगणाः श्रुत्वा दृष्ट्वा चैनं तथाविधम् । 035a
सम्भूय तस्य नृपतेः समारब्धाश्चिकीर्षितुम् ॥ 035c
केचित्तत्राब्रुवन्राज्ञः पुत्रं गृह्णीम वै स्वयम् । 036a
सोऽस्याकरः काञ्चनस्य तस्य यत्नं चरामहे ॥ 036c
ततस्ते दस्यवो लुब्धाः प्रविश्य नृपतेर्गृहम् । 037a
राजपुत्रं तथाऽऽजह्रुः सुवर्णष्ठीविनं बलात् ॥ 037c
गृह्यैनमनुपायज्ञा नीत्वाऽरण्यमचेतसः । 038a
हत्वा विशस्य चापश्यल्ँलुब्धा वसु न किञ्चन ॥ 038c
तस्य प्राणैर्विमुक्तस्य नष्टं तत्काञ्चनं वरम् । 039a
दस्यवश्च तदाऽन्योन्यं जघ्नुर्मूर्खा विचेतसः ॥ 039c
हत्वा परस्परं नष्टाः कुमारं चाद्भुतं भुवि । 040a
असम्भाव्यं गता घोरं नरकं दुष्टकारिणः ॥ 040c
तं दृष्ट्वा निहतं पुत्रं वरदत्तं महातपाः । 041a
विललाप सुदुःखार्तो बहुधा करुणं नृपः ॥ 041c
विलपन्तं निशम्याथ पुत्रशोकहतं नृपम् । 042a
प्रत्यदृश्यत देवर्षिर्नारदस्तस्य सन्निधौ ॥ 042c
उवाच चैनं दुःखार्तं विलपन्तमचेतसम् । 043a
सृञ्जयं नारदो यद्यत्तन्निबोध युधिष्ठिर ॥ 043c
नारद उवाच 044
'त्यज शोकं महाराज वैक्लव्यं त्यज बुद्धिमन् । 044a
न मृतः शोचतो जीवेन्मुह्यतो वा नराधिप ॥ 044c
त्यज शोकं नृपश्रेष्ठ न शोचन्ति भवद्विधाः । 045a
वीरो भवान्महाराज ज्ञानवृद्धोऽपि मे मतः ।' 045c
कामानामवितृप्तस्त्वं सृञ्जयेह मरिष्यसि ॥ 045e
यस्य चैते वयं गेहे उषिता ब्रह्मवादिनः । 046a
आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम ॥ 046c
संवर्तो याजयामास स्पर्धया वै बृहस्पतेः । 047a
यस्मै राजर्षये प्रादाद्धनं स भगवान्प्रभुः । 047c
हैमं हिमवतः पादं यियक्षोर्विविधैः सवैः ॥ 047e
यस्य सेन्द्रामरगणा बृहस्पतिपुरोगमाः । 048a
देवा विश्वसृजः सर्वे यजनान्ते समासते । 048c
यज्ञवाटस्य सौवर्णाः सर्वे चासन्परिच्छदाः ॥ 048e
यस्य सर्वं तदा ह्यन्नं मनोभिप्रायगं शुचि । 049a
कामतो बुभुजुर्विप्राः सर्वे चान्नार्थिनो द्विजाः । 049c
पयो दधि घृतं क्षौद्रं भक्ष्यं भोज्यं च शोभनम् ॥ 049e
यस्य यज्ञेषु सर्वेषु वासांस्याभरणानि च । 050a
ईप्सितान्युपतिष्ठन्ते प्रहृष्टान्वेदपारगान् ॥ 050c
मरुतः परिवेष्टारो मरुत्तस्याभवन्गृहे । 051a
आविक्षितस्य राजर्षेर्विश्वेदेवाः सभासदः ॥ 051c
यस्य वीर्यवतो राज्ञः सुवृष्ट्या सस्यसम्पदः । 052a
हविर्भिस्तर्पिता येन सम्यक्क्लृप्तैर्दिवौकसः ॥ 052c
ऋषीणां च पितॄणां च देवानां सुखजीविनाम् । 053a
ब्रह्मचर्यश्रुतिमुखैः सर्वैर्दानैश्च सर्वदा ॥ 053c
शयनासनपानानि स्वर्णराशीश्च दुस्त्यजाः । 054a
तत्सर्वममितं वित्तं दत्तं विप्रेभ्य इच्छया ॥ 054c
सोनुध्यातस्तु शक्रेण प्रजाः कृत्वा निरामयाः । 055a
श्रद्दधानो जिताल्ँलोकान्गतः पुण्यदुहोऽक्षयान् ॥ 055c
सप्रजः सनृपामात्यः सदारापत्यबान्धवः । 056a
यौवनेन सहस्राब्दं मरुत्तो राज्यमन्वशात् ॥ 056c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 057a
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 057c
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 057e
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55 ॥
5-55-14 तत्सलिङ्गाभिस्तस्यानुरूपाभिः । अभितः पार्श्वतः ॥ 5-55-22 नत्वेषा निश्चिता निष्ठा मैत्री सप्तपदी सताम् इति ङ. पाठः । निष्ठा सप्तमदी सताम् इति घ. पाठः । सप्तपदी स्मृता इति झ. पाठः ॥ 5-55-23 शप्त्वावै तत्र वत्सरमूषतुः इति क.पाठः ॥ 5-55-25 पुत्रमीप्सवः इति घ. ङ. झ. पाठः ॥ 5-55-26 द्विजैरुक्तो नारदस्तथेत्युक्त्वा सृञ्जयमब्रवीदित्यन्वयः ॥ 5-55-29 क्लेदः श्लेष्मादिः ॥ 5-55-31 सुवर्णष्ठीविरित्यनेन गण्डूषादिकमपि काञ्चनं भवतीति सूचितम् ॥ 5-55-35 चिकीर्षितुमपकारं कर्तुम् । कॄहिंसायामित्यस्य रूपम् ॥ 5-55-47 सवैः यज्ञैः ॥ 5-55-57 चतुर्भद्रतरः धर्मज्ञानवैराग्यैश्वर्याणि चत्वारि भद्राणि । धर्मार्थकामबलानीत्यन्ये तुभ्यं तव । अयज्वानमदक्षिण्यं पुत्रम् अभिलक्ष्य मानुतप्यथाः हे श्वैत्य श्वित्यपुत्र इति उदाहरन्नारदः सृञ्जयं प्रतीति व्यासवाक्यम् । अदाक्षिण्यम् इति झ.पाठः ॥ 5-55-55 पञ्चपञ्चाशत्तमोऽध्यायः ॥