श्रीः
अध्यायः 053
ब्रह्मरुद्रसंवादः ॥ 1 ॥ ब्रह्मणा प्रजासंहाराय मृत्युदेवीसर्जनम् ॥ 2 ॥
स्थाणुरुवाच 001
प्रजासर्गनिमित्तं हि कृतो यत्नस्त्वया विभो । 001a
त्वया सृष्टाश्च वृद्धाश्च भूतग्रामाः पृथग्विधाः ॥ 001c
तास्तवेह पुनः क्रोधात्प्रजा नश्यन्ति सर्वशः । 002a
ता दृष्ट्वा मम कारुण्यं प्रसीद भगवन्प्रभो ॥ 002c
ब्रह्मोवाच 003
संहर्तुं न च मे काम एतदेवं भवेदिति । 003a
पृथिव्या हितकामं तु ततो मां मन्युराविशत् ॥ 003c
इयं सन्ना तदा देवी भारार्ता समचूचुदत् । 004a
संहारार्थं महादेव भारेणाभिहता सती ॥ 004c
ततोऽहं नाधिगच्छामि बुद्ध्या बहु विचारयन् । 005a
संहारमप्रमेयस्य ततो मां मन्युराविशत् ॥ 005c
रुद्र उवाच 006
संहारार्थं प्रसीदस्व मारुषो वसुधाधिप । 006a
मा प्रजाः स्थावराश्चैव जङ्गमाश्च व्यनीनशः ॥ 006c
तव प्रसादाद्भगवन्निदं वर्तेत्त्रिधा जगत् । 007a
अनागतमतीतं च यच्च सम्प्रति वर्तते ॥ 007c
भगवन्क्रोधसन्दीप्तः क्रोधादग्निमवासृजत् । 008a
स दहत्यश्मकूटानि द्रुमांश्च सरितस्तथा ॥ 008c
पल्वलानि च सर्वाणि सर्वे चैव तृणोलपाः । 009a
स्थावरं जङ्गमं चैव निःशेषं कुरुते जगत् ॥ 009c
तदेतद्भस्मसाद्भूतं जगत्स्थावरजङ्गमम् । 010a
प्रसीद भगवन्स त्वं रोषो न स्याद्वरो मम ॥ 010c
सर्वे हि सृष्टा नश्यन्ति तव देव कथञ्चन । 011a
तस्मान्निवर्ततां तेजस्त्वय्येवेदं प्रलीयताम् ॥ 011c
उपायमन्यं सम्पश्य प्रजानां हितकाम्यया । 012a
यथेमे प्राणिनः सर्वे निर्वर्तेरंस्तथा कुरु ॥ 012c
अभावं नेह गच्छेयुरुत्सन्नजननाः प्रजाः । 013a
भवता हि नियुक्तोऽहं प्रजानां पालने विभो । 013c
दया ते न समुत्पन्ना प्रजासु विबुधेश्वर ॥ 013e
मा विनश्येज्जगन्नाथ जगत्स्थावरजङ्गमम् । 014a
प्रसादाभिमुखं देवं तस्मादेवं ब्रवीम्यहम् ॥ 014c
नारद उवाच 015
श्रुत्वा हि वचनं देवः प्रजानां हितकारणे । 015a
तेजः सन्धारयामास पुनरेवान्तरात्मनि ॥ 015c
ततोऽग्निमुपसंहृत्य भगवाल्ँलोकसत्कृतः । 016a
प्रवृत्तं च निवृत्तं च कल्पयामास वै प्रभुः ॥ 016c
उपसंहरतस्तस्य तमग्निं रोषजं तथा । 017a
प्रादुर्बभूव विश्वेभ्यो गोभ्यो नारी महात्मनः ॥ 017c
कृष्णरक्ता तथा पिङ्गा रक्तजिह्वास्यलोचना । 018a
कुण्डलाभ्यां च राजेन्द्र तप्ताभ्यां तप्तभूषणा ॥ 018c
सा निःसृत्य तथा खेभ्यो दक्षिणां दिशमाश्रिता । 019a
स्मयमाना च साऽवेक्ष्य देवौ विश्वेश्वरावुभौ ॥ 019c
'तां तु तत्र तदा देवीं ब्रह्मा लोकपितामहः । 020a
उक्तवान्मधुरं वाक्यं सान्त्वयित्वा पुनः पुनः ।' 020c
मृत्यो इति महीपाल जहि चेमाः प्रजा इति ॥ 020e
त्वं हि संहारबुद्ध्याऽथ प्रादुर्भूता रुषो मम । 021a
तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः ॥ 021c
अविशेषेण चैव त्वं प्रजाः संहर भामिनि । 022a
मम त्वं हि नियोगेन ततः श्रेयो ह्यवाप्स्यसि ॥ 022c
नारद उवाच 023
एवमुक्ता तु सा तेन मृत्युः कमललोचना । 023a
प्रारुदद्भृशसंविग्ना प्रापतन्नश्रुबिन्दवः ॥ 023c
पाणिभ्यां प्रतिजग्राह तान्यश्रूणि पितामहः । 024a
सर्वभूतहितार्थाय तां चाप्यनुनयत्तदा ॥ ॥ 024c
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रिपञ्चाशत्तमोऽध्यायः ॥ 53 ॥
5-53-2 कारुण्यं जातमिति शेषः ॥ 5-53-5 अप्रमेयस्यानन्तस्य जगत इति शेषः । अहिंस्यस्येतिवार्थः ॥ 5-53-6 संहारार्थं मारुषः रोषं माकार्षीः किन्तु प्रसीदस्व ॥ 5-53-10 तव रोषो न स्यादिति मम मह्यं वरोऽस्त्विति योजना ॥ 5-53-13 उत्सन्नजननाः प्रक्षीणसन्तानाः ॥ 5-53-16 प्रवृत्तं कर्म सृष्टिहेतुम् । निवृत्तं कर्म मोक्षहेतुम् ॥ 5-53-17 गोभ्य इन्द्रियच्छिद्रेभ्यः ॥ 5-53-19 देवौ ब्रह्मरुद्रौ ॥ 5-53-20 मरणं मृत्प्राणवियोगस्तमन्यस्येच्छतीति मृत्युरित्मर्थः । इति आहेति शेषः ॥ 5-53-21 रुषो रोषात् ॥ 5-53-53 त्रिपञ्चाशत्तमोऽध्यायः ॥