श्रीः
अध्यायः 052
युधिष्ठिराश्वासनाय व्यासेन तम् प्रति अकम्पनोपाख्यानकथनोपक्रमः ॥ 1 ॥
सञ्जय उवाच 001
एवं विलपमाने तु कुन्तीपुत्रे युधिष्ठिरे । 001a
कृष्णद्वैपायनस्तत्र आजगाम महानृषिः ॥ 001c
अथ दृष्ट्वा महात्मानं पाण्डुपुत्रो युधिष्ठिरः । 002a
युक्तासनो दीनमनाः पूजां चक्रे महात्मनः ॥ 002c
अर्चयित्वा यथान्यायमुपविष्टं युधिष्ठिरः । 003a
अब्रवीच्छोकसन्तप्तो भ्रातुः पुत्रवधेन च ॥ 003c
अधर्मयुक्तैर्बहुभिः परिवार्य महारथैः । 004a
युध्यमानो महेष्वासैः सौभद्रो निहतो रणे ॥ 004c
बालश्च बालबुद्धिश्च वीरश्च परवीरहा । 005a
अनुपायेन सङ्ग्रामे युध्यमानो विनाशितः ॥ 005c
मया प्रोक्तः स सङ्ग्रामे द्वारं सञ्जनयस्व नः । 006a
प्रविष्टेऽभ्यन्तरे तस्मिन्सैन्धवेन निवारिताः ॥ 006c
ननु नाम समं युद्धमेष्टव्यं युद्धजीविभिः । 007a
इदं चैवासमं युद्धमीदृशं यत्कृतं परैः ॥ 007c
तेनास्मि भृशसन्तप्तः शोकबाष्पसमाकुलः । 008a
शमं नैवाधिगच्छामि चिन्तयानः पुनः पुनः ॥ 008c
सञ्जय उवाच 009
तं तथा विलपन्तं वै शोकव्याकुलमानसम् । 009a
उवाच सान्त्वयन्व्यासो युधिष्ठिरमिदं वचः ॥ 009c
व्यास उवाच 010
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद । 010a
व्यसनेषु न मुह्यन्ति त्वादृशा भरतर्षभ ॥ 010c
स्वर्गमेष गतः शूरः शत्रून्हत्वा बहून्रणे । 011a
अबालसदृशं कर्म कृत्वा वै पुरुषोत्तमः ॥ 011c
अनतिक्रमणीयो वै विधिरेष युधिष्ठिर । 012a
देवदानवगन्धर्वान्मृत्युर्हरति भारत ॥ 012c
युधिष्ठिर उवाच 013
इमे वै पृथिवीपालाः शेरते पृथिवीतले । 013a
निहताः पृतनामध्ये मृतसञ्ज्ञा महाबलाः ॥ 013c
नागायुतबलाश्चान्ये वायुवेगबलास्तथा । 014a
त एते निहताः सङ्ख्ये तुल्यरूपा नरैर्नराः ॥ 014c
नैषां पश्यामि हन्तारं प्राणिनां संयुगे क्वचित् । 015a
विक्रमेणोपसम्पन्नास्तपोबलसमन्विताः ॥ 015c
जेतव्यमिति चान्योन्यं येषां नित्यं हृदि स्थितम् । 016a
अथ चेमे हताः प्राज्ञाः शेरते विगतायुषः ॥ 016c
मृता इति च शब्दोयं वर्तते च ततोऽर्थवत् । 017a
इमे मृता महीपालाः प्रायशो भीमविक्रमाः ॥ 017c
निश्चेष्टा निरभीमानाः शूराः शत्रुवशङ्गताः । 018a
राजपुत्राश्च संरब्धा वैश्वानरमुखं गताः ॥ 018c
अत्र मे संशयः प्राप्तः कुतः सञ्ज्ञा मृता इति । 019a
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिमाः प्रजाः । 019c
हरत्यमरसङ्काश तन्मे ब्रूहि पितामह ॥ 019e
सञ्जय उवाच 020
तं तथा परिपृच्छन्तं कुन्तीपुत्रं युधिष्ठिरम् । 020a
आश्वासनमिदं वाक्यमुवाच भगवानृषिः ॥ 020c
व्यास उवाच 021
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 021a
अकम्पनस्य कथितं नारदेन पुरा नृप ॥ 021c
स चापि राजा राजेन्द्र पुत्रव्यसनमुत्तमम् । 022a
अप्रसह्यतमं लोके प्राप्तवानिति नः श्रुतम् ॥ 022c
तदहं सम्प्रवक्ष्यामि मृत्योः प्रभवमुत्तमम् । 023a
ततस्त्वं मोक्ष्यसे दुःखात्स्नेहबन्धनसंश्रयात् ॥ 023c
समस्तपापराशिघ्नं शृणु कीर्तयतो मम । 024a
धन्यमाख्यानमायुष्यं शोकघ्नं पुष्टिवर्धनम् ॥ 024c
पवित्रमरिसङ्घघ्नं मङ्गलानां च मङ्गलम् । 025a
यथैव वेदाध्ययनमुपाख्यानमिदं तथा ॥ 025c
श्रवणीयं महाराज प्रातर्नित्यं नृपोत्तमैः । 026a
पुत्रानायुष्मतो राज्यमीहमानैः श्रियं तथा ॥ 026c
पुरा कृतयुगे तात आसीद्राजा ह्यकम्पनः । 027a
स शत्रुवशमापन्नो मध्ये सङ्ग्राममूर्धनि । 027c
'योधयामास बलवान्बद्धश्चासीदकम्पनः ॥' 027e
तस्य पुत्रो हरिर्नाम नारायणसमो बले । 028a
श्रीमान्कृतास्त्रो मेधावी युधि शक्रोपमो बली ॥ 028c
'स दृष्ट्वा पितरं युद्धे तदवस्थं महाद्युतिः । 029a
अचिन्तयित्वा मरणं शत्रुमध्यं ततोऽविशत् ॥ 029c
स शत्रुभिः परिवृतो बहुधा रणमूर्धनि । 030a
योधयामास तान्सर्वान्सर्वास्त्रकुशलो बली ॥ 030c
वर्षन्बाणसहस्राणि शत्रुष्वमितविक्रमः । 031a
पदातिरथनागाश्वान्प्रममाथ महाबलः ॥ 031c
स शरैराचितश्चक्रैर्गदाभिर्मुसलैरपि । 032a
मृद्नन्रथसहस्राणि पदातीन्वाजिवारणान् ॥ 032c
परानीकं विभिद्याजौ मोक्षयित्वा च तं नृपम् । 033a
पुनरेवाकरोद्युद्धं शत्रुमध्यगतो बली ॥ 033c
ततस्ते रथिनः सर्वे समेत्य पुनराहवे । 034a
जघ्नुस्तं परिवार्यैकं तोमरैरिव कुञ्जरम् ॥' 034c
स कर्म दुष्करं कृत्वा सङ्ग्रामे शत्रुतापनः । 035a
शत्रुभिर्निहतः सङ्ख्ये पृतानायां युधिष्ठिर ॥ 035c
द्विषद्भिर्निहतं दृष्ट्वा प्रियं पुत्रमकम्पनः । 036a
अमर्षजनितक्रोध आहवात्सहसाऽऽगतः ॥ 036c
स राजा प्रेतकृत्यानि तस्य कृत्वा शुचान्वितः । 037a
शोचन्नहनि रात्रौ च नालभत्सुखमात्मनः ॥ 037c
तस्य शोकं विदित्वा तु पुत्रव्यसनसम्भवम् । 038a
आजगामाथ देवर्षिर्नारदोऽस्य समीपतः ॥ 038c
स तु राजा महाभागो दृष्ट्वा देवर्षिसत्तमम् । 039a
पूजयित्वा यथान्यायं कथामकथयत्तदा ॥ 039c
तस्य सर्वं समाचष्ट यथावृत्तं युधिष्ठिर । 040a
शत्रुभिर्विजयं सङ्ख्ये पुत्रस्य च वधं तथा ॥ 040c
अकम्पन उवाच 041
मम पुत्रो महावीर्य इन्द्रविष्णुसमद्युतिः । 041a
शत्रुभिर्बहुभिः सङ्ख्ये पराक्रम्य हतो बली ॥ 041c
शृणु मे प्राणिनां चापि मृत्युः प्रभवते किल । 042a
क एष मृत्युर्भगवन्किंवीर्यबलपौरुषः । 042c
एतदिच्छामि तत्त्वेन श्रोतुं मतिमतां वर ॥ 042e
व्यास उवाच 043
तस्य तद्वचनं श्रुत्वा नारदो वरदः प्रभुः । 043a
आख्यानमिदमाचष्ट पुत्रशोकापहं महत् ॥ 043c
नारद उवाच 044
शृणु राजन्महाबाहो आख्यानं बहुविस्तरम् । 044a
यथावृत्तं श्रुतं चैव मयाऽपि वसुधाधिप ॥ 044c
प्रजाः सृष्ट्वा तदा ब्रह्मा आदिसर्गे पितामहः । 045a
असंहृतं महातेजा दृष्ट्वा जगदिदं प्रभुः ॥ 045c
तस्य चिन्ता समुत्पन्ना संहारं प्रति पार्थिव । 046a
चिन्तयन्न ह्यसौ वेद संहारं वसुधाधिप ॥ 046c
तस्य रोषान्महाराज मुखेभ्योऽग्निरजायत । 047a
तेन सर्वा दिशो व्याप्ताः सान्तर्देशा दिधक्षता ॥ 047c
ततो दिवं भुवं चैव ज्वालामालासमाकुलम् । 048a
चराचरं जगत्सर्वं ददाह भगवान्प्रभुः ॥ 048c
ततो हतानि भूतानि चराणि स्थावराणि च । 049a
महता क्रोधवेगेन त्रासयन्निव वीर्यवान् || 049c
ततो रुद्रो जटी स्थाणुर्निशाचरपतिर्हरः । 050a
जगाम शरणं देवं ब्रह्माणं परमेष्ठिनम् ॥ 050c
तस्मिन्नापतिते स्थाणौ प्रजानां हितकाम्यया । 051a
अब्रवीत्परमो देवो ज्वलन्निव महामुनिः ॥ 051c
किं कर्म कामं कामार्ह कामाज्जातोऽसि पुत्रक । 052a
करिष्यामि प्रियं सर्वं ब्रूहि स्थाणो यदिच्छसि ॥ ॥ 052c
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि द्विपञ्चाशत्तमोऽध्यायः ॥ 52 ॥
5-52-6 द्वारं सञ्जनयस्वेति मया उक्त इति सम्बन्धः । निवारिताः तमनुप्रविशन्त इति शेषः ॥ 5-52-19 कस्य मृत्युः क इति शेषः ॥ 5-52-47 खेभ्य इति पाठे श्रोत्रादिच्छिद्रेभ्यः ॥ 5-52-52 द्विपञ्चाशत्तमोऽध्यायः ॥