श्रीः
अध्यायः 050
युद्धभूमिवर्णनम् ॥ 1 ॥
सञ्जय उवाच 001
वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः । 001a
निवेशायाभ्युपायामः सायाह्ने रुधिरोक्षिताः ॥ 001c
निरीक्षमाणास्तु वयं परे चायोधनं शनैः । 002a
अपयाता महाराज ग्लानिं प्राप्ता विचेतसः ॥ 002c
ततो निशाया दिवसस्य चाशिवः शिवारुतैः सन्धिरवर्तताद्भुतः । 003a
कुशेशयापीडनिभे दिवाकरे विलम्बमानेऽस्तमुपेत्य पर्वतम् ॥ 003c
वरासिशक्त्यृष्टिवरूथचर्मणां विभूषणानां च समाक्षिपन्प्रभाः । 004a
दिवं च भूमिं च समानयन्निव प्रियां तनुं भानुरुपैति पावकम् ॥ 004c
महाभ्रकूटाचलशृङ्गसन्निभैर्गजैरनेकैरिव वज्रपातितैः । 005a
सवैजयन्त्यङ्कुशवर्मयन्तृभिर्निपातितैर्नष्टगतिश्चिता क्षितिः ॥ 005c
हतेश्वरैश्चूर्णितचक्रकूबरैर्हताश्वसूतैर्विपताककेतुभिः । 006a
महारथैर्भूः शुशुभे विचूर्णितैः पुरैरिवामित्रहतैर्नराधिप ॥ 006c
रथाश्वबृन्दैः सहसादिभिर्हतैः प्रविद्धभाण्डाभरणैः पृथग्विधैः । 007a
निरस्तजिह्वादशनान्त्रलोचनैर्धरा बभौ घोरविरूपदर्शना ॥ 007c
प्रविद्धवर्माभणाम्बरायुधा विपन्नहस्त्यश्वरथानुगा नराः । 008a
महार्हशय्यास्तरणोचितास्तदा क्षितावनाथा इव शेरते हताः ॥ 008c
अतीव हृष्टाः श्वशृगालवायसा बकाः सुपर्णाश्च वृकास्तरक्षवः । 009a
वयांस्यसृक्पान्यथ रक्षसां गणाः पिशाचसङ्घाश्च सुदारुणा रणे ॥ 009c
त्वचो विनिर्भिद्य पिबन्वसामसृक्तथैव मज्जाः पिशितानि चाश्नुवन् । 010a
वपां विलुम्पन्ति हसन्ति गान्ति च प्रकर्षमाणाः कुणपान्यनेकशः ॥ 010c
शरीरसङ्घाटवहा ह्यसृग्जला रथोडुपा कुञ्जरशैलसङ्कटा । 011a
मनुष्यशीर्षोपलमांसकर्दमा प्रविद्धनानाविधशस्त्रमालिनी ॥ 011c
भयावहा वैतरणीव दुस्तरा प्रवर्तिता योधवरैस्तदा नदी । 012a
उवाह मध्येन रणाजिरे भृशं भयावहा दीनमृतप्रवाहिनी ॥ 012c
पिबन्ति च स्नान्ति च यत्र दुर्दृशाः पिशाचसङ्घास्तु नदन्ति भैरवाः । 013a
सुनन्दिताः प्रणभृतां क्षयङ्कराः समानभक्षाः श्वसृगालपक्षिणः ॥ 013c
तथा तदायोधनमुग्रदर्शनं निशामुखे पितृपतिराष्ट्रवर्धनम् । 014a
निरीक्षमाणः शनकैर्जहुर्नराः समुत्थिता नृत्तकबन्धसङ्कुलम् ॥ 014c
अपेतविध्वस्तमहार्हभूषणं निपातितं शक्रसमं महाबलम् । 015a
रणेऽभिमन्युं ददृशुस्तदा जना व्यपोढहव्यं सदसीव पावकम् ॥ ॥ 015c
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धावहारे पञ्चाशत्तमोऽध्यायः ॥ 50 ॥
7-50-4 समाक्षिपन्संहरन् | समानयन्नेकतां नयन् | पावकीम् इति क. ङ. पाठः || 4 || 7-50-5 निष्टनतीव गौश्चिता इति ङ. पाठः || 5 || 7-50-6 पत्त्युपस्करैरितिपाठे पत्तयः पादरक्षाः | उपस्करा उपकरणानि || 6 || 7-50-15 सदसि प्राग्वंशे || 15 ||