श्रीः अध्यायः 049 अभिमन्युवधः ॥ 1 ॥ सञ्जय उवाच 001
विष्णोः स्वसुर्नन्दकरः स विष्ण्वायुधभूषणः । 001a
रराजातिरथः सङ्ख्ये जनार्दन इवापरः ॥ 001c
मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् । 002a
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि ॥ 002c
'यदि पाणितलादेतच्चक्रं मुञ्चेत फाल्गुनिः । 003a
वरदानान्मातुलस्य विष्णोश्चक्रमिवापतेत् ॥' 003c
तच्चक्रं भृशमुद्विग्नाः सञ्चिच्छिदुरनेकधा । 004a
महारथस्ततः कार्ष्णिः स जग्राह महागदाम् ॥ 004c
विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः । 005a
अभिमन्युर्गदापाणिरश्वत्थामानमार्दयत् ॥ 005c
स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव । 006a
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः ॥ 006c
तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी । 007a
शराचिताङ्गः सौभद्रः श्वाविद्वत्समदृश्यत ॥ 007c
ततः सुबलदायादं कालिकेयमपोथयत् । 008a
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् ॥ 008c
पुनश्चैव वसातीयाञ्जघान रथिनो दश । 009a
केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् || 009c
दौःशासनिरथं साश्वं गदया समपोथयत् ॥ 009e
ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष । 010a
अभिदुद्राव सौभद्रं तिष्ठतिष्ठेति चाब्रवीत् ॥ 010c
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ । 011a
भ्रातृव्यौ सम्प्रजह्राते पुरेव त्र्यम्बकान्धकौ ॥ 011c
तावन्योन्यं गदाग्राभ्यामाहत्य पतितौ क्षितौ । 012a
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परन्तपौ ॥ 012c
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः । 013a
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ॥ 013c
गदावेगेन महता व्यायामेन च मोहितः । 014a
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा ॥ 014c
एवं विनिहतो राजन्नेको बहुभिराहवे । 015a
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः ॥ 015c
अशोभत हतो वीरो व्याधैर्वनगजो यथा । 016a
तं तथा पतितं शूरं तावकाः पर्यवारयन् ॥ 016c
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये । 017a
विमृद्य नगशृङ्गाणि सन्निवृत्तमिवानिलम् ॥ 017c
अस्तं गतमिवादित्यं तप्त्वा भारत वाहिनीम् । 018a
उपप्लुतं यथा सोमं संशुष्कमिव सागरम् ॥ 018c
पूर्णचन्द्राभवदनं काकपक्षवृतालिकम् । 019a
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः | 019c
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः ॥ 019e
आसीत्परमको हर्षस्तावकानां विशाम्पते । 020a
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् ॥ 020c
अन्तरिक्षे च भूतानि प्राक्रोशन्त विशाम्पते । 021a
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् ॥ 021c
द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः । 022a
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः ॥ 022c
तस्मिन्विनिहते वीरे बह्वशोभत मेदिनी । 023a
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ॥ 023c
रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता । 024a
उत्तमाङ्गैश्च शूराणां भ्राजमानैः सकुण्डलैः ॥ 024c
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता । 025a
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः ॥ 025c
रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः । 026a
खड्गैः सुनिशितैः पीतैर्निर्मुक्तैर्भुजगैरिव ॥ 026c
चापैश्च विविधैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः । 027a
विविधैश्चायुधैश्चान्यैः संवृता भूरशोभत ॥ 027c
'निष्टनद्भिरतीवान्यैरुद्वहद्रुधिरस्रवैः । 028a
नरैः पतद्भिः पतितैरवनी स्वधिकं बभौ ॥ 028c
वाजिभिश्चापि निर्जीवैः श्वसद्भिः शोणितोक्षितैः । 029a
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः ॥ 029c
साङ्कुशैः समहामात्रैः सर्वमायुधकेतुभिः । 030a
पर्वतैरिव विध्वस्तैर्विशिखैर्मथितैर्गजैः ॥ 030c
पृथिव्यानुकीर्णैश्च अश्वसारथियोधिभिः । 031a
ह्रदैरिव प्रक्षुभितैर्हृतनागै रथोत्तमैः ॥ 031c
पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः । 032a
भीरूणां त्रासजननी घोररूपाऽभवन्मही ॥ 032c
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् । 033a
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा ॥ 033c
अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने । 034a
सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः ॥ 034c
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते । 035a
अजातशत्रुस्तान्वीरानिदं वचनमब्रवीत् ॥ 035c
स्वर्गमेष गतः शूरो यो हतो न पराङ्मुखः । 036a
संस्तम्भयत माभैष्ट विजेष्यामो रणे रिपून् ॥ 036c
इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः । 037a
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् ॥ 037c
युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे रिपून् । 038a
पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरभ्ययात् ॥ 038c
हत्वा दशसहस्राणि कौसल्यं च महारथम् । 039a
कृष्णार्जुनसमः कार्ष्णिः शक्रलोकं गतो ध्रुवम् ॥ 039c
रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः । 040a
अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत् । 040c
गतः पुण्यकृतां लोकाञ्शाश्वतान्पुण्यनिर्जितान् ॥ ॥ 040e

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे एकोनपञ्चाशत्तमोऽध्यायः ॥ 49 ॥

5-49-18 उपप्लुतं राहुग्रस्तम् ॥ 5-49-19 काकपक्षावृताक्षिकम् इति झ. पाठः ॥ 5-49-30 विशाखोन्मथितैर्गजैः इति क.पाठः ॥ 5-49-31 व्यश्वसारथियोधिभिः इति क.पाठः ॥ 5-49-49 एकोनपञ्चाशत्तमोऽध्यायः ॥