श्रीः
अध्यायः 048
द्रोणादिभिः षड्भिरभिमन्योर्विरथीकरणम् ॥ 1 ॥
सञ्जय उवाच 001
स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः । 001a
शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् ॥ 001c
प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः । 002a
शरैराचितसर्वाङ्गो बह्वशोभत भारत ॥ 002c
कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् । 003a
कर्णोऽपि विबभौ शूरः शरैश्छिन्नोऽसृगातप्लुः । 003c
'सन्ध्यानुगतपर्यन्तः शरदीव दिवाकरः ॥' 003e
तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ । 004a
बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ॥ 004c
अथ कर्णस्य सचिवान्षट् शूरांश्चित्रयोधिनः । 005a
साश्वसूतध्वजरथान्सौभद्रो निजघान ह ॥ 005c
तथेतरान्महेष्वासान्दशभिर्दशभिः शरैः । 006a
प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत् ॥ 006c
मागधस्य तथा पुत्रं हत्वा षड्भिरजिह्मगैः । 007a
साश्वं ससूतं तरुणमश्वकेतुमपातयत् ॥ 007c
मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् । 008a
क्षुरप्रेण समुन्मथ्य ननाद विसृजन्शरान् ॥ 008c
तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् । 009a
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ॥ 009c
ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः । 010a
संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् ॥ 010c
पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा । 011a
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ॥ 011c
एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् । 012a
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ॥ 012c
तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् । 013a
तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् ॥ 013c
हृद्यसम्भ्रान्तवद्राजंस्तदद्भुतमिवाभवत् । 014a
तस्यार्जुनिर्ध्वजं छित्त्वा हत्वोभौ पार्ष्णिसारथी ॥ 014c
तं विव्याधायसैः षड्भिः सोपाक्रामद्रथान्तरम् । 015a
शत्रुञ्जयं चन्द्रकेतुं मेघवेगं सुवर्चसम् ॥ 015c
सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् । 016a
तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् ॥ 016c
सर्व एनं विमथ्नीमः पुरैकैकं हिनस्ति नः । 017a
अथाब्रवीत्पुनर्द्रोणं कर्णो वैकर्तनो रणे ॥ 017c
पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः । 018a
ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत ॥ 018c
अस्ति वाऽस्यान्तरं किञ्चित्कुमारस्याथ पश्यत । 019a
अन्वस्य पितरं चाद्य चरतः सर्वतो दिशम् ॥ 019c
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत । 020a
धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते ॥ 020c
सन्दधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः । 021a
आरुजन्नपि मे प्राणान्मोहयन्नपि सायकैः ॥ 021c
प्रहर्षयति मां भूयः सौभद्रः परवीरहा । 022a
अतिमानं दधात्येष सौभद्रो विचरन्रणे ॥ 022c
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः । 023a
अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः । 023c
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ॥ 023e
सञ्जय उवाच 024
अथ कर्णः पुनर्द्रोणमाहार्जुनिशराहतः । 024a
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ॥ 024c
तेजस्विनः कुमारस्य शराः परमदारुणाः । 025a
क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः ॥ 025c
तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव । 026a
अभेद्यमस्य कवचं युवा चाशुपराक्रमः ॥ 026c
उपदिष्टा मया चास्य पितुः कवचधारणा । 027a
तामेष निखिलां वेत्ति ध्रुवं परपुरञ्जयः ॥ 027c
शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः । 028a
अभीषूंश्च हयांश्चैव तथोभौ पार्ष्णिसारथी ॥ 028c
एतत्कुरु महेष्वास राधेय यदि शक्यते । 029a
अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ॥ 029c
सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः । 030a
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ॥ 030c
'पुरःस्थितेन केनापि दुःशको जेतुमार्जुनिः ॥' 031ac
सञ्जय उवाच 032
तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् । 032a
अस्यतो लघुहस्तस्य पृष्ठतो धनुराच्छिनत् ॥ 032c
अश्वानस्यावधीद्द्रोणो गौतमः पार्ष्णिसारथी । 033a
शेषास्तु च्छिन्नधन्वानं शरवर्षैरवाकिरन् ॥ 033c
त्वरमाणास्त्वराकाले विरथं षण्महारथाः । 034a
शरवर्षैरकरुणा बालमेकमवाकिरन् ॥ 034c
स च्छिन्नधन्वा विरथः स्वधर्ममनुपालयन् । 035a
खड्गचर्मधरः श्रीमानुत्पपात विहायसा ॥ 035c
मार्गैः सकौशिकाद्यैश्च लाघवेन बलेन च । 036a
आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव ॥ 036c
मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः । 037a
विव्यधुस्तं महेष्वासं समरे छिद्रदर्शिनः ॥ 037c
क्षुरप्रेण महातेजास्त्वरमाणः सपत्नजित् | 038a
राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् ॥ 038c
व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् । 039a
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ॥ 039c
स चक्ररेणूकज्ज्वलशोभिताङ्गो बभावतीवोज्ज्वलचक्रपाणिः । 040a
रणेऽभिमन्युः क्षणमास रौद्रः स वासुदेवानुकृतिं प्रकुर्वन् ॥ 040c
स्रुतरुधिरकृतैकरागवस्त्रो भ्रुकुटिपुटाकुलितोऽतिसिंहनादः । 041a
प्रभुरमितबलो रणेऽभिमन्युर्नृपवरमध्यगतो भृशं व्यराजत् ॥ ॥ 041c
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥
5-48-18 वधं वधोपायम् ॥ 5-48-19 अण्वप्यस्यान्तरं ह्यद्य इति झ.पाठः ॥ 5-48-35 कौशिकं सर्वतोभद्रम् ॥ 5-48-48 अष्टचत्वारिंशोऽध्यायः ॥