श्रीः अध्यायः 047 अभिमन्युपराक्रमवर्णनम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
तथा प्रविष्टं तरुणं सौभद्रमपराजितम् । 001a
कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपराजितम् ॥ 001c
आजानेयैः सुबलिभिर्यान्तमश्वैस्त्रिहायनैः । 002a
प्लवमानमिवाकाशे के शूराः समवारयन् ॥ 002c
सञ्जय उवाच 003
अभिमन्युः प्रविश्यैतांस्तावकान्निशितैः शरैः । 003a
अकरोत्पार्थिवान्सर्वान्विमुखान्पाण्डुनन्दनः ॥ 003c
तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः । 004a
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥ 004c
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् । 005a
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् ॥ 005c
सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः । 006a
तालमात्राणि चापानि विकर्षन्तो महाबलाः ॥ 006c
तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् । 007a
व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा ॥ 007c
द्रोणं पञ्चाशताविध्यद्विंशत्या च बृहद्बलम् । 008a
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ॥ 008c
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः । 009a
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः ॥ 009c
कर्णं च कर्णिना कर्णे पीतेन च शितेन च । 010a
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा ॥ 010c
पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी । 011a
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ 011c
ततो बृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् । 012a
पुत्राणां तव वीराणां पश्यतामवधीद्बली ॥ 012c
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् । 013a
वरंवरममित्राणामारुजन्तमभीतवत् ॥ 013c
स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष । 014a
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः ॥ 014c
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः । 015a
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम् ॥ 015c
स तु द्रौणिं त्रिसप्तत्या हेमपुङ्घैरजिह्मगैः । 016a
प्रत्यविध्यन्महातेजा बलवानपकारिणम् ॥ 016c
तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् । 017a
अश्वत्थामा तथाऽष्टौ च परीप्सन्पितरं रणे ॥ 017c
कर्णो द्वाविंशतिं भल्लान्कृतवर्मा च विंशतिम् । 018a
बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश ॥ 018c
तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः । 019a
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः ॥ 019c
तं कोसलानामधिपः कर्णिनाऽताडयद्धृदि । 020a
स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ ॥ 020c
अथ कोसलराजस्तु विरथः खड्गचर्मधृत् । 021a
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् ॥ 021c
स कोसलानामधिपं राजपुत्रं बृहद्बलम् । 022a
हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् ॥ 022c
बभञ्ज च सहस्राणि दश राज्ञां महात्मनाम् । 023a
सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् ॥ 023c
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे । 024a
व्यष्टम्भयन्महेष्वासो योधांस्तव शराम्बुभिः ॥ ॥ 024c

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥