श्रीः
अध्यायः 046
अभिमन्युना दुर्योधनसूनोर्लक्ष्मणस्य वधः ॥ 1 ॥
धृतराष्ट्र उवाच 001
यथा वदसि मे सूत एकस्य बहुभिः सह । 001a
सङ्ग्रामं तुमुलं घोरं जयं चैव महात्मनः ॥ 001c
अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् । 002a
किन्तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः ॥ 002c
दुर्योधने च विमुखे राजपुत्रशते हते । 003a
सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ॥ 003c
सञ्जय उवाच 004
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना रोमहर्षणाः । 004a
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ॥ 004c
हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्सम्बन्धिबान्धवान् । 005a
उत्सृज्योत्सृज्य सञ्जग्मुस्त्वरयन्तो हयद्विपान् ॥ 005c
तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः । 006a
कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः ॥ 006c
अभ्यधावन्सुसङ्क्रुद्धाः सौभद्रमपराजितम् । 007a
ते तु पौत्रेण ते राजन्प्रायशो विमुखीकृताः । 007c
'सौभद्रेण महाराज शक्रप्रतिमतेजसा ॥' 007e
एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः । 008a
इष्वस्त्रविन्महातेजा लक्ष्मणोऽर्जुनिमभ्ययात् ॥ 008c
तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत । 009a
अनुदुर्योधनं चान्ये न्यवर्तन्त महारथाः ॥ 009c
तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः । 010a
स तु तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् ॥ 010c
पौत्रं तव च दुर्धर्षं लक्ष्मणं प्रियदर्शनम् । 011a
पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ॥ 011c
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् । 012a
आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् । 012c
'सिंहशाबो वने शश्वत्पुण्डरीकशिशुं यथा ॥' 012e
लक्ष्मणेन तु सङ्गम्य सौभद्रः परवीरहा । 013a
शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पयत् ॥ 013c
सङ्क्रुद्धो वै महाराज दण्डाहत इवोरगः । 014a
पौत्रस्तव महाराज तव पौत्रमभाषत ॥ 014c
सुदृष्टः क्रियतां लोको ह्यमुं लोकं गमिष्यसि । 015a
पश्यतां बान्धवानां त्वां नयामि यमसादनम् ॥ 015c
एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा । 016a
उद्बबर्ह महाबाहुर्निर्मुक्तोरगसन्निभम् ॥ 016c
स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् । 017a
सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् ॥ 017c
'पौत्रस्तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् । 018a
पितुः समीपे तिष्ठन्तं प्राहिणोद्यमसादनम् ॥ 018c
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् ।' 019a
लक्ष्मणं निहतं दृष्ट्वा हाहेत्युच्चुक्रुशुर्जनाः ॥ 019c
ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते । 020a
हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः ॥ 020c
ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः । 021a
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥ 021c
तांस्तु विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः । 022a
वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् ॥ 022c
आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः । 023a
कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् । 023c
तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशाम्पते ॥ 023e
ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः । 024a
यथा वायुर्नित्यगतिर्जलदाञ्शतशोऽम्बरे ॥ 024c
ततः क्रुद्धाः शरव्रातै राजानः समवारयन् । 025a
अथेतरे सन्निवृत्ताः पुनर्द्रोणमुखा रथाः । 025c
परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ॥ 025e
तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमयोधयत् । 026a
शरौघेणाप्रमेयेण त्वरमाणो जिघांसया ॥ 026c
सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः । 027a
सच्छत्रध्वजयन्तारं रथं चाश्वान्न्यपातयत् ॥ 027c
कुलशीलश्रुतिबलैः कीर्त्या चास्त्रबलेन च । 028a
युक्ते तस्मिन्हते वीराः प्रायशो विमुखाऽभवन् ॥ ॥ 028c
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे षट्चत्वारिंशोऽध्यायः ॥ 46 ॥
5-46-3 प्रतिपत्तिं प्रतिविधानम् ॥ 5-46-10 विष्वग्वातोऽशेषदिग्वातः ॥ 5-46-17 केशान्तं केशैर्मनोहरम् । अन्तः प्रान्तेऽन्तिके मध्ये स्वरूपे च मनोहरे इत्यभिधानात् ॥ 5-46-23 धृष्टं प्रगल्भम् ॥ 5-46-46 षट्चत्वारिंशोऽध्यायः ॥