श्रीः
अध्यायः 043
जयद्रथेन रुद्रवरात् व्यूहपथं पिधाय पाण्डवादिनिरोधः ॥ 1 ॥
सञ्जय उवाच 001
यन्मां पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् । 001a
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् ॥ 001c
तमूहुर्वाजिनो वश्याः सैन्धवाः साधुवाहिनः । 002a
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः ॥ 002c
गन्धर्वनगराकारं विधिवत्कल्पितं रथम् । 003a
तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् ॥ 003c
श्वेतश्छत्रपताकाभिश्चामरव्यजनेन च । 004a
स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे ॥ 004c
मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् । 005a
वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् ॥ 005c
स विष्फार्य महच्चापं किरन्निषुगणान्बहून् । 006a
तत्खण्डं पूरयामास यदार्जुनिरदारयत् ॥ 006c
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् । 007a
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ॥ 007c
द्रुपदं पञ्चभिस्तीक्ष्णैः सप्तभिश्च शिखण्डिनम् । 008a
केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ॥ 008c
युधिष्ठिरं तु सप्तत्या ततः शेषानपानुदत् । 009a
इषुजालेन महता तदद्भुतमिवाभवत् ॥ 009c
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् । 010a
चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् ॥ 010c
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् । 011a
विव्याध दशभिः पार्थं तांश्चैवान्यांस्त्रिभिस्त्रिभिः ॥ 011c
तत्तस्य लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिस्त्रिभिः । 012a
धनुर्ध्वजं च च्छत्रं च क्षितौ क्षिप्रमपातयत् ॥ 012c
सोऽन्यदादाय बलवान्सज्जं कृत्वा च कार्मुकम् । 013a
भीमस्यापातयत्केतुं धनुरश्वांश्च मारिष ॥ 013c
स हताश्वादवप्लुत्य च्छिन्नधन्वा रथोत्तमात् । 014a
सोत्यकेराप्लुतो यानं गिर्यग्रमिव केसरी ॥ 014c
ततस्त्वदीयाः संहृष्टाः साधुसाध्विति वादिनः । 015a
सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमद्भुतम् ॥ 015c
सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा । 016a
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् ॥ 016c
सौभद्रेण हतैः पूर्वं सोत्तरायोधिभिर्द्विपैः । 017a
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ॥ 017c
यतमानास्तु ते वीरा मात्स्यपाञ्चालकेकयाः । 018a
पाण्डवाश्चान्वपद्यन्त प्रतिशेकुर्न सैन्धवम् ॥ 018c
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः । 019a
तन्तमेव वरं प्राप्य सैन्धवः प्रत्यवारयत् ॥ ॥ 019c
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥
5-43-5 वरूथं रथवेष्टनम् ॥ 5-43-10 आदिश्य एष च्छिनद्मीत्युद्दिश्य ॥ 5-43-43 त्रिचत्वारिंशोऽध्यायः ॥