श्रीः
अध्यायः 042
सञ्जयेन धृतराष्ट्रम् प्रति अभिमन्युमनुगतानां जयद्रथेन निरोधकथनम् ॥ 1 ॥ तथा जयद्रथस्य रुद्रात् पाण्डवनिरोधरूपवरलाभकथनम् ॥ 2 ॥
धृतराष्ट्र उवाच 001
बालमत्यन्तसुखिनं स्वबाहुबलदर्पितम् । 001a
युद्धेष्वकुशलं वीरं कुलपुत्रं तनुत्यजम् ॥ 001c
गाहमानमनीकानि सदश्वैश्च त्रिहायनैः । 002a
अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्बली ॥ 002c
सञ्जय उवाच 003
युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ । 003a
धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः ॥ 003c
धृष्टकेतुश्च संरब्धो मात्स्याश्चाभ्यपतन्रणे । 004a
तेनैव तु पथा यान्तः पितरो मातुलैः सह ॥ 004c
अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः । 005a
तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाऽभवन् ॥ 005c
ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् । 006a
जामाता तव तेजस्वी संस्तम्भयिषुराद्रवत् ॥ 006c
सैन्धवस्य महाराज पुत्रो राजा जयद्रथः । 007a
स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् ॥ 007c
उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन् । 008a
वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरः ॥ 008c
धृतराष्ट्र उवाच 009
कतिभारमहं मन्ये सैन्धवे सञ्जयाहितम् । 009a
यदेकः पाण्डवान्क्रुद्धान्पुत्रप्रेप्सूनवारयत् ॥ 009c
अत्यद्भुतमहं मन्ये बलं शौर्यं च सैन्धवे । 010a
तस्य प्रब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः ॥ 010c
किं जप्तं हुतमिष्टं वा किं सुतप्तमथो तपः । 011a
'दमो वा ब्रह्मचर्यं वा सूत यच्चास्य सत्तम ॥ 011c
देवं कतममाराध्य विष्णुमीशानमब्जजम् । 012a
सिन्धुराट् तनये सक्तान्क्रुद्धान्पार्थानवारयत् ॥ 012c
नैवं कृतं महत्कर्म भीष्मेणाज्ञासिषं तथा ।' 013a
सिन्धुराजो हि येनैकः पाण्डवान्समवारयत् ॥ 013c
सञ्जय उवाच 014
द्वीपदीहरणे यत्तद्भीमसेनेन निर्जितः । 014a
मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः ॥ 014c
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः सन्निवर्त्य सः । 015a
क्षुत्पिपासातपसहः कृशो धमनिसन्ततः ॥ 015c
देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् । 016a
भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् ॥ 016c
स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् । 017a
वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि ॥ 017c
एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः । 018a
उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् ॥ 018c
पाण्डवेयानहं सङ्ख्ये भीमवीर्यपराक्रमान् । 019a
वारयेयं रथेनैकः समस्तानिति भारत ॥ 019c
एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् । 020a
ददामि ते वरं सौम्य विना पार्थं धनञ्जयम् । 020c
वारयिष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान् ॥ 020e
'एकाहमिति राजेन्द्र तत्रैवान्तरधीयत ।' 021a
एवमस्त्विति देवेशमुक्त्वाबुद्ध्यत पार्थिवः ॥ 021c
स तेन वरदानेन दिव्येनास्त्रबलेन च । 022a
एकः संवारयामास पाण्डवानामनीकिनीम् ॥ 022c
तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् । 023a
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् ॥ 023c
दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमाहितम् । 024a
उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् ॥ ॥ 024c
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे द्विचत्वारिंशोऽध्यायः ॥ 42 ॥
5-42-8 प्रवणान्निम्नप्रदेशं प्नाप्य ॥ 5-42-10 बलं सामर्थ्यम् । शौर्यमुत्साहः वीर्यं प्रभावम् ॥ 5-42-42 द्विचत्वारिंशोऽध्यायः ॥