श्रीः अध्यायः 041 अभिमन्युपराक्रमवर्णनम् ॥ 1 ॥ सञ्जय उवाच 001
सोऽभ्यगच्छद्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः । 001a
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ॥ 001c
सोऽपिध्यद्दशभिर्बाणैरभिमन्युं दुरासदम् । 002a
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ॥ 002c
पितृपैतामहं कर्म कुर्वाणमतिमानुषम् । 003a
दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीया हृषिताऽभवन् ॥ 003c
तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा । 004a
शिरः प्रच्यावयामास तद्रथात्प्रापतद्भुवि ॥ 004c
कर्णिकारमिवाधूतं वातेनापतितं नगात् । 005a
'कर्णानुजं च सम्प्रेक्ष्य तावका व्यथिताऽभवन् ।' 005c
भ्रातरं निहतं दृष्ट्वा कर्णश्चासीत्पराङ्मुखः ॥ 005e
विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः । 006a
अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे ॥ 006c
ततस्तद्विततं सैन्यं हस्त्यश्वरथपत्तिमत् । 007a
क्रुद्धोऽभिमन्युरभिनत्तिग्मतेजा महारथः ॥ 007c
कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना । 008a
अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्रवत् ॥ 008c
'तिष्ठ कर्ण महेष्वास कृप दुर्योधनेति च । 009a
द्रोणस्य क्रोशतो राजंस्तदनीकमभज्यत ॥' 009c
शलभैरिव चाकाशं धाराभिरिव पर्वतः । 010a
अभिमन्योः शरैश्छन्नं न प्राज्ञायत किञ्चन ॥ 010c
तावकानां तु योधानां वध्यतां निशितैः शरैः । 011a
अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत ॥ 011c
सौभद्रस्तु ततः शङ्खं प्रध्माय पुरुषर्षभः । 012a
शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ ॥ 012c
स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् । 013a
मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत ॥ 013c
रथनागाश्वमनुजानर्दयन्निशितैः शरैः । 014a
सम्प्रविश्याकरोद्भूमिं कबन्धगणसङ्कुलाम् ॥ 014c
सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः । 015a
स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः ॥ 015c
ते घोरा रौद्रकर्माणो विपाठा बहवः शिताः । 016a
निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुन्धराम् ॥ 016c
सायुधाः साङ्गुलित्राणाः सगदाः साङ्गदा रणे । 017a
दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः ॥ 017c
शराश्चापानि खड्गाश्च शरीराणि शिरांसि च । 018a
सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः ॥ 018c
सोपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः । 019a
अक्षैर्विमथितैश्चक्रैर्बहुधा पतितैर्युगैः ॥ 019c
शक्तिचापासिभिश्चैव पतितैश्च महाध्वजैः । 020a
चर्मचापशरैश्चैव व्यवकीर्णैः समन्ततः ॥ 020c
निहतैः क्षत्रियैरश्वैर्वारणैश्च विशाम्पते । 021a
अगम्यरूपा पृथिवी क्षणेनासीत्सुदारुणा ॥ 021c
वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् । 022a
प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः ॥ 022c
स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत् । 023a
सौभद्रश्चाद्रवत्सेनां घ्नन्वराश्वरथद्विपान् ॥ 023c
कक्षमग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् । 024a
मध्ये भारतसैन्यानामार्जुनिः प्रत्यदृश्यत ॥ 024c
विचरन्तं दिशः सर्वाः प्रदिशश्चापि भारत । 025a
तं तदा नानुपश्यामः सैन्ये च रजसाऽऽवृते ॥ 025c
आददानं गजाश्वानां णां चायूंषि भारत । 026a
क्षणेन भूयः पश्यामः सूर्यं मध्यन्दिने यथा ॥ 026c
अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् । 027a
स वासवसमः सङ्ख्ये वासवस्यात्मजात्मजः ॥ 027c
अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत । 028a
'यथा पुरा वह्निसुतः सुरसैन्येषु वीर्यवान् ॥' 028c

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे एकचत्वारिंशोऽध्यायः ॥ 41 ॥