श्रीः अध्यायः 040 अभिमन्युना कर्णदुःशासनपराजयः ॥ 1 ॥ सञ्जय उवाच 001
'ततः समभवद्युद्धं तयोः पुरुषसिंहयोः । 001a
तस्मिन्काले महाबाहुः सौभद्रः परवीरहा ॥ 001c
सशरं कार्मुकं छित्त्वा लाघवेन व्यपातयत् । 002a
दुःशासनं शरैस्तीक्ष्णैः सन्ततक्ष समन्ततः ॥' 002c
शरविक्षतगात्रं तु प्रत्यमित्रमवस्थितम् । 003a
अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् ॥ 003c
दिष्ट्या पश्यामि सङ्ग्रामे मानिनं शूरमागतम् । 004a
निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् ॥ 004c
यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः । 005a
कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः ॥ 005c
जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषितः । 006a
अक्षकूटं समाश्रित्य सौबलस्यात्मनो बलम् ॥ 006c
तत्त्वयेदमनुप्राप्तं तस्य कोपान्महात्मनः । 007a
परवित्तापहारस्य कोधस्याप्रशमस्य च ॥ 007c
लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च । 008a
पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् ॥ 008c
तत्त्वयेदमनुप्राप्तं प्रकोपाद्वै महात्मनाम् । 009a
स तस्योग्रमधर्मस्य फलं प्राप्नुहि दुर्मते ॥ 009c
शासिताऽस्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः । 010a
अद्याहमनृणस्तस्य कोपस्य भविता रणे ॥ 010c
अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः । 011a
अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि । 011c
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ॥ 011e
सञ्जय उवाच 012
एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम् । 012a
सन्दधे परवीरघ्नः कालाग्न्यनिलवर्चसम् ॥ 012c
तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् । 013a
जगाम सह पुङ्खेन वल्मीकमिव पन्नगः | 013c
अथैनं पञ्चविंशत्या पुनरेव समार्पयत् ॥ 013e
शरैरग्निसमस्पर्शैराकर्णसमचोदितैः । 014a
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । 014c
दुःशासनो महाराज कश्मलं चाविशन्महत् ॥ 014e
सारथिस्त्वरमाणस्तु दुःशासनमचेतनम् । 015a
रणमध्यादपोवाह सौभद्रशरपीडितम् ॥ 015c
पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् । 016a
पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् ॥ 016c
वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः । 017a
प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ॥ 017c
अपश्यन्स्मयमानाश्च सौभद्रस्य विचेष्टितम् । 018a
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् ॥ 018c
धर्ममारुतशक्राणामश्विनोः प्रतिमास्तथा । 019a
धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः ॥ 019c
सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ । 020a
केकया धृष्टकेतुश्च मात्स्याः पाञ्चालसृञ्जयाः ॥ 020c
पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः । 021a
अभ्यद्रवन्त त्वरिता द्रोणानीकं बिभित्सवः ॥ 021c
ततोऽभवन्महायुद्धं त्वदीयानां परैः सह । 022a
जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् ॥ 022c
तथा तु वर्तमाने वै सङ्ग्रामेऽतिभयङ्करे । 023a
दुर्योधनो महाराज राधेयमिदमब्रवीत् ॥ 023c
पश्य दुःशासनं वीरमभिमन्युवशङ्गतम् । 024a
प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे || 024c
अथ चैते सुसंरब्धाः सिंहा इव बलोत्कटाः । 025a
सौभद्रमुद्यतास्त्रातुमभ्यधावन्त पाण्डवाः ॥ 035c
सञ्जय उवाच 026
ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् । 026a
अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव ॥ 026c
तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः । 027a
अवज्ञापूर्वकं शूरः सौभद्रस्य रणाजिरे ॥ 027c
अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः । 028a
अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ॥ 028c
तं तथा नाशकत्कश्चिद्द्रोणाद्वारयितुं रथी । 029a
आरुजन्तं रथव्रातान्वज्रहस्तात्मजात्मजम् ॥ 029c
ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुष्मताम् । 030a
सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् ॥ 030c
सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् । 031a
समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् ॥ 031c
स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः । 032a
समरेऽमरसङ्काशः सौभद्रो न व्यशीर्यत ॥ 032c
ततः शिलाशितैस्तीक्ष्णैर्भल्लैरानतपर्वभिः । 033a
छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् ॥ 033c
धनुर्मण्डलनिर्मुक्तैः शरैराशीविषोपमैः । 034a
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ॥ 034c
कर्णोऽपि चास्य चिक्षेप बाणान्सन्नतपर्वणः । 035a
असम्भ्रान्तश्च तान्सर्वानगृह्णात्फल्गुनात्मजः ॥ 035c
ततो मुहूर्तात्कर्णस्य बाणेनैकेन वीर्यवान् । 036a
सध्वजं कार्मुकं वीरश्छित्त्वा भूमावपातयत् ॥ 036c
ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः । 037a
सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ॥ 037c
तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः । 038a
वादित्राणि च सञ्जघ्नुः सौभद्रं चापि तुष्टुवुः ॥ ॥ 038c

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे चत्वारिंशोऽध्यायः ॥ 40 ॥

5-40-8 अत्याहितस्य जीवानपेक्षकर्मणः । साहसस्येतियावत् ॥ 5-40-40 चत्वारिंशोऽध्यायः ॥