श्रीः अध्यायः 039 दुश्शासनाभिमन्युसमागमः ॥ 1 ॥ धृतराष्ट्र उवाच 001
द्वैधीभवति मे चित्तं शुचा तुष्ट्या च सञ्जय । 001a
मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् ॥ 001c
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः । 002a
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ॥ 002c
सञ्जय उवाच 003
हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम् । 003a
एकस्य च बहूनां च यथासीत्तुमुलो रणः ॥ 003c
अभिमन्युः कृतोत्साहः कृतोत्साहानरिन्दमान् । 004a
रथस्थो रथिनः सर्वांस्तावकानभ्यवर्षयत् ॥ 004c
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम् ॥ 005a
दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् ॥ 005c
नानानृपान्नृपसुतान्सैन्यानि विविधानि च । 006a
अलातचक्रवत्सर्वांश्चरन्बाणैः समार्पयत् ॥ 006c
निघ्नन्नमित्रान्सौभद्रः परमास्त्रैः प्रतापवान् । 007a
अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ॥ 007c
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः । 008a
समकम्पन्त सैन्यानि त्वदीयानि सहस्रशः ॥ 008c
अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् । 009a
हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ॥ 009c
घटयन्निव मर्माणि पुत्रस्य तव भारत । 010a
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ॥ 010c
द्रोण उवाच 011
एष गच्छति सौभद्रः पार्थानां प्रथितो युवा । 011a
नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ॥ 011c
नकुलं सहदेवं च भीमसेनं च पाण्डवम् । 012a
बन्धून्सम्बन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ॥ 012c
नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम् । 013a
इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ॥ 013c
सञ्जय उवाच 014
द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः । 014a
आर्जुनिं प्रति सङ्क्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ॥ 014c
अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं नृपः । 015a
दुःशासनं मद्रराजं तांस्तथाऽन्यान्महारथान् ॥ 015c
सर्वमूर्धाभिषिक्तानामाचार्यो ब्रह्मवित्तमः । 016a
अर्जुनस्य सुतं मूढं नायं हन्तुमिहेच्छति ॥ 016c
न ह्यस्य समरे युद्ध्येदन्तकोऽप्याततायिनः । 017a
किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ॥ 017c
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति । 018a
शिष्याः पुत्राश्च दयितास्तदपत्यं च धर्मिणाम् ॥ 018c
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः । 019a
आत्मसम्भावितो मूढस्तं प्रमथ्नीत माचिरम् ॥ 019c
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः । 020a
संरब्धास्ते जिघांसन्तो भारद्वाजस्य पश्यतः ॥ 020c
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा । 021a
अब्रवीत्कुरुशार्दूल दुर्योधनमिदं वचः ॥ 021c
अहमेनं हनिष्यामि महाराज ब्रवीमि ते । 022a
मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् ॥ 022c
ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् । 023a
उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः ॥ 023c
श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ । 024a
गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ॥ 024c
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः । 025a
एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ॥ 025c
तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव । 026a
शिवेन मां ध्याहि राजन्नेष हन्मि रिपूंस्तव ॥ 026c
सञ्जय उवाच 027
एवमुक्त्वाऽनदद्राजन्पुत्रो दुःशासनस्तव । 027a
सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ॥ 027c
तमतिक्रुद्धमायान्तं तव पुत्रमरिन्दमः । 028a
अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समार्पयत् ॥ 028c
दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः । 029a
अयोधयत सौभद्रमभिमन्युश्च तं रणे ॥ 029c
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् । 030a
चरमाणावयुध्येतां रथशिक्षाविशारदौ ॥ 030c
अथ पणवमृदङ्गदुन्दुभीनां क्रकचमहानकभेरिझर्झराणाम् । 031a
निनदमतिभृशं नराः प्रचक्रुर्लवणजलोद्भवसिंहनादमिश्रम् ॥ ॥ 031c

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥

5-39-17 अङ्गेत्यसूयायाम् ॥ 5-39-18 धर्मिणामिति सोल्लुण्ठम् ॥ 5-39-19 आत्मसम्भावितः अहमेवेति सम्भावनामारूढः ॥ 5-39-31 लवणजलोद्भवः शङ्खः ॥ 5-39-39 एकोनचत्वारिंशोऽध्यायः ॥