श्रीः अध्यायः 038 अभिमन्युपराक्रमवर्णनम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
तथा प्रमथमानं तं महेष्वासानजिह्मगैः । 001a
आर्जुनिं मामकाः सङ्ख्ये के त्वेनं समवारयन् ॥ 001c
सञ्जय उवाच 002
शृणु राजन्कुमारस्य रणे विक्रीडितं महत् । 002a
बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् ॥ 002c
मद्रेशं सादितं दृष्ट्वा सौभद्रेणाशुगै रणे । 003a
शल्यादवरजः क्रुद्ध किरन्बाणान्समभ्ययात् ॥ 003c
स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम् । 004a
उदक्रोशन्महाशब्दं तिष्ठतिष्ठेति चाब्रवीत् ॥ 004c
तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान् । 005a
छत्रं ध्वजं नियन्तारं त्रिवेणुं चाप्युपस्करम् ॥ 005c
चक्रं युगं च तूणीरं ह्यनुकर्षं सायकैः । 006a
पताकां चक्रगोप्तारौ सर्वोपकरणानि च ॥ 006c
लघुहस्तः प्रचिच्छेद ददृशे तं न कश्चन । 007a
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः ॥ 007c
वायुनेव महाचैत्यः समूलं चित्रवेदिकः । 008a
अनुगास्तस्य वित्रस्ताः प्राद्रवन्सर्वतो दिशः ॥ 008c
आर्जुनेः कर्म तद्दृष्ट्वा सम्प्रणेदुः समन्ततः । 009a
नादेन सर्वभूतानि साधुसाध्विति भारत ॥ 009c
शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः । 010a
कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् ॥ 010c
अभ्यधावन्त सङ्क्रुद्धा विविधायुधपाणयः । 011a
रथैरश्वैर्गजैश्चान्ये पद्भिश्चान्ये बलोत्कटाः ॥ 011c
बाणशब्देन महता रथनेमिस्वनेन च । 012a
हुङ्कारैः क्ष्वेडितोत्कृष्टैः सिंहनादैः सगर्जितैः ॥ 012c
ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम् । 013a
ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवितादिति ॥ 013c
तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव । 014a
यो योस्मै प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः ॥ 014c
सन्दर्शयिष्यन्नस्त्राणि विचित्राणि लघूनि च । 015a
आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत ॥ 015c
वासुदेवादुपात्तं यदस्त्रं यच्च धनञ्जयात् । 016a
अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषवत् ॥ 016c
दूरमस्य गुरुं भारं साध्वसं च पुनः पुनः । 017a
सन्दधद्विसृजंश्चेषून्निर्विशेषमदृश्यत ॥ 017c
चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत । 018a
सुदीप्तस्य शरत्काले सवितुर्मण्डलं यथा ॥ 018c
ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः । 019a
महाशनिमुचः काले पयोदस्येव निःस्वनः ॥ 019c
ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः । 020a
सम्मिमानयिषुर्वीरानिष्वस्त्रैश्चाप्ययुध्यत ॥ 020c
मृदुर्भूत्वा महाराज दारुणः समपद्यत । 021a
वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः ॥ 021c
शरान्विचित्रान्सुबहून्रुक्मपुङ्खाञ्शिलाशितान् । 022a
मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः ॥ 022c
क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः । 023a
नाराचैरर्धचन्द्राभैर्भल्लैरञ्जलिकैरपि ॥ 023c
अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः । 024a
ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् ॥ ॥ 024c

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे अष्टत्रिंशोऽध्यायः ॥ 38 ॥

5-38-5 तल्पम् इति पाठे रथगतशय्याम् ॥ 5-38-10 अधिवासो निवासः ॥ 5-38-16 अविशेषवत्तुल्यमित्यर्थः ॥ 5-38-17 अस्य निरस्य ॥ 5-38-38 अष्टत्रिंशोऽध्यायः ॥