श्रीः
अध्यायः 037
अभिमन्युपराक्रमवर्णनम् ॥ 1 ॥
सञ्जय उवाच 001
तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा । 001a
दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ॥ 001c
ततो राजानमावृत्तं सौभद्रं प्रति संयुगे । 002a
दृष्ट्वा द्रोणोऽब्रवीद्योधान्परीप्सध्वं नराधिपम् ॥ 002c
पुराऽभिमन्युर्लक्षं नः पश्यतां हन्ति वीर्यवान् । 003a
तमाद्रवत माभैष्ट क्षिप्रं रक्षत कौरवम् || 003c
सञ्जय उवाच 004
'एवमुक्तास्ततस्तेन भारद्वाजेन धीमता ।' 004a
कृतज्ञानबलोत्सेधाः सुहृदो जितकाशिनः । 004c
त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ॥ 004e
द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः । 005a
बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ॥ 005c
पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् । 006a
सौभद्रं शरवर्षेण महता समवाकिरन् ॥ 006c
सम्मोहयित्वा तमथ दुर्योधनममोचयन् । 007a
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ॥ 007c
ताञ्शरौघेण महता साश्वसूतान्महारथान् । 008a
विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ॥ 008c
तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः । 009a
नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ॥ 009c
त एनं कोष्ठकीकृत्य रथवंशेन मारिष । 010a
व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः ॥ 010c
तान्यन्तरिक्षे चिच्छेद पौत्रस्ते निशितैः शरैः । 011a
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ॥ 011c
'ततो रथपदात्योघाः कुञ्जराः सादिनश्च ह ।' 012a
कोपितास्तेन शूरेण शरैराशीविषोपमैः । 012c
परिवव्रुर्जिघांसन्तः सौभद्रमपराजितम् ॥ 012e
समुद्रमिव पर्यस्तं त्वदीयं तं बलार्णवम् । 013a
दधारैकोऽर्जुनिर्बाणैर्वेलेवोद्वृत्तमर्णवम् ॥ 013c
शूराणां युध्यमानानां निघ्नतामितरेतरम् । 014a
अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ॥ 014c
तस्मिंस्तु घोरे सङ्ग्रामे वर्तमाने भयङ्करे । 015a
दुःसहो नवभिर्बाणैरभिमन्युमविध्यत ॥ 015c
दुःशानो द्वादशभिः कृपः शारद्वतस्त्रिभिः । 016a
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ॥ 016c
विविंशतिस्तु सप्तत्या कृतवर्मा च सप्तभिः । 017a
बृहद्बलस्तथाऽष्टाभिरश्वत्थामा च सप्तभिः ॥ 017c
भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः । 018a
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ॥ 018c
स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः । 019a
नृत्यन्निव महाराज चापहस्तः प्रतापवान् ॥ 019c
ततोऽभिमन्युः सङ्क्रुद्धस्त्रास्यमानस्तवात्मजैः । 020a
विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ॥ 020c
गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः । 021a
अभ्यद्रवत तं कार्ष्णिमश्मकेन्द्रः कृतत्वरः ॥ 021c
अश्वाश्चाश्मकमादाय त्वरमाणाऽभ्यहारयन् । 022a
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 022c
तस्याभिमन्युर्दशभिर्हयान्सूतं ध्वजं शरैः । 023a
बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ॥ 023c
ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे । 024a
सञ्चचाल बलं सर्वं पलायनपरायणम् ॥ 024c
ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट् शलः । 025a
शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः । 025c
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः ॥ 025e
वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः । 026a
दुर्योधनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन् ॥ 026c
सोऽतिविद्धो महेष्वासैरभिमन्युरजिह्मगैः । 027a
शरमादत्त कर्णाय वर्मकायावभेदिनम् ॥ 027c
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः । 028a
प्राविशद्धरणीं वेगाद्वल्मीकमिव पन्नगः ॥ 028c
स तेनातिप्रहारेण व्यथितो विह्वलन्निव । 029a
सञ्चचाल रणे कर्णः क्षितिकम्पे यथाऽचलः ॥ 029c
तथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् । 030a
कुण्डभेदिं च सङ्क्रुद्धस्त्रिभिस्त्रीनवधीद्बली ॥ 030c
कर्णस्तं पञ्चविंशत्या नाराचानां समार्पयत् । 031a
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ॥ 031c
स शराचितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः । 032a
विचरन्ददृशे सैन्ये पाशहस्त इवान्तकः ॥ 032c
शल्यं च शरवर्षेण समीपस्थामवाकिरत् । 033a
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ॥ 033c
ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः । 034a
शल्यो राजन्रथोपस्थे निषसाद मुमोह च ॥ 034c
तं हि दृष्ट्वा तथा विद्धं सौभद्रेण यशस्विना । 035a
सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ॥ 035c
सम्प्रेक्ष्य तं महाबाहुं रुक्मपुङ्खैः समावृतम् । 036a
त्वदीयाः प्रपलायन्ते मृगाः सिंहार्दिता इव ॥ 036c
'सौभद्रशरनिर्भग्नाः समरेऽमरविक्रमाः । 037a
एवं शल्यो विमृदितस्तव पौत्रेण भारत ॥' 037c
स तु रणयशसाऽभिपूज्यमानः पितृसुरचारणसिद्धयक्षसङ्घैः | 038a
अवनितलगतैश्च भूतसङ्घैरतिविबभौ हुतभुग्यथाऽऽज्यसिक्तः ॥ ॥ 038c
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे सप्तत्रिंशोऽध्यायः ॥ 37 ॥
5-37- त्रास्यमानाः पालयिष्यन्तः ॥ 5-37- पर्यस्तम् उत्क्रान्तमर्यादम् ॥ 5-37- शिक्षौरसकृतम् अभ्यासकृतं निसर्गभवं च ॥