श्रीः अध्यायः 036 अभिमन्युयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच 001
सौभद्रस्तद्वचः श्रुत्वा धर्मराजस्य धीमतः । 001a
अचोदयत यन्तारं द्रोणानीकाय भारत ॥ 001c
तेन सञ्चोद्यमानस्तु याहियाहीति सारथिः । 002a
प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः ॥ 002c
अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः । 003a
सम्प्रधार्य क्षणं बुद्ध्या ततस्त्वं योद्धुमर्हसि ॥ 003c
आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः । 004a
त्वं तु बालः स बलवान्सङ्ग्रामाणामकोविदः ॥ 004c
ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत् । 005a
सारथे कोन्वयं द्रोणः समग्रं क्षत्रमेव वा ॥ 005c
'व्यवसायो हि मे योद्धुं रणोत्सवसमुद्यतः ।' 006a
ऐरावतगतं शक्रं सहामरगणैरहम् ॥ 006c
अथवा रुद्रमीशानं सर्वभूतगणार्चितम् । 007a
योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः ॥ 007c
'यच्चैतत्पश्यसे सूत सयोधाश्वरथद्विपम् ।' 008a
तन्ममाद्य द्विषत्सैन्यं कलामर्हति षोडशीम् ॥ 008c
अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज । 009a
पितरं चार्जुनं युद्धे न भीर्मामुपयास्यति ॥ 009c
'सञ्जय उवाच 010
एवमप्युच्यमानः स सारथिस्तं पुनः पुनः । 010a
वीर ते तेन मा युद्धमिति सौभद्रमब्रवीत् ॥' 010c
अभिमन्युश्च तां वाचं कदर्थीकृत्य सारथेः । 011a
याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् ॥ 011c
ततः सन्नोदयामास हयानाशु त्रिहायनान् । 012a
नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् ॥ 012c
ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः । 013a
द्रोणमभ्यद्रवन्राजन्महावेगा महाबलाः ॥ 013c
तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः । 014a
अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः ॥ 014c
सकर्णिकारप्रवरोच्छ्रितध्वजः सुवर्णवर्माऽऽर्जुनिरर्जुनाद्वरः । 015a
युयुत्सया द्रोणमुखान्महारथान्समासदत्सिंहशिशुर्यथा द्विपान् ॥ 015c
ते विंशतिपदे यत्ताः सम्प्रहारं प्रचक्रिरे । 016a
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधाविव ॥ 016c
शूराणां युध्यमानानां निघ्नतामितरेतरम् । 017a
सङ्ग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः ॥ 017c
प्रवर्तमाने सङ्ग्रामे तस्मिन्नतिभयङ्करे । 018a
द्रोणस्य मिषतो व्यूहं भित्त्वा व्यचरदार्जुनिः ॥ 018c
'तदभेद्यमनाधृष्यं द्रोणानीकं सुदुर्जयम् । 019a
भित्त्वार्जुनिरसम्भ्रान्तो विवेशाचिन्त्यविक्रमः ॥' 019c
तं प्रविष्टं विनिघ्नन्तं शत्रुसङ्घान्महाबलम् । 020a
हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः ॥ 020c
नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः । 021a
हुङ्कारैः सिंहनादैश्च तिष्ठ तिष्ठेति निःस्वनैः ॥ 021c
घोरैर्हलहलाशब्दैर्मागास्तिष्ठैहि मामिति । 022a
असावहममित्रेति प्रवदन्तो मुहुर्मुहुः ॥ 022c
बृंहितैः शिञ्जितैर्हासैः करनेमिस्वनैरपि । 023a
सन्नादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् ॥ 023c
तेषामापततां वीरः शीघ्रयोधी महाबलः । 024a
क्षिप्रास्त्रो न्यवधीद्राजन्मर्मज्ञो मर्मभेदिभिः ॥ 024c
ते हन्यमाना विवशा नानालिङ्गैः शितैः शरैः । 025a
अभिपेतुः सुबहुशः शलभा इव पावकम् ॥ 025c
ततस्तेषां शरीरैश्च शरीरावयवैश्च सः । 026a
सन्तस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे ॥ 026c
बद्धगोधाङ्गुलित्राणान्सशरासनसायकान् । 027a
सासिचर्माङ्कुशाभीषून्सतोमरपरश्वथान् ॥ 027c
सगदायोगुडप्रासान्सर्ष्टितोमरपट्टसान् । 028a
सभिण्डिपालपरिघान्यशक्तिवरकम्पनान् ॥ 028c
सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् । 029a
समुद्गरक्षेपणीयान्सपाशपरिघोपलान् ॥ 029c
सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान् । 030a
सञ्चिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः ॥ 030c
तैः स्फुरद्भिर्महाराज शुशुभे भूः सुलोहितैः । 031a
पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष ॥ 031c
सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः । 032a
सन्दष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु ॥ 032c
सचारुमुकुटोष्णीषैर्मणिरत्नविभूषितैः । 033a
विनालनलिनाकारैर्दिवाकरशशिप्रभैः ॥ 033c
हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः । 034a
द्विषच्छिरोभिः पृथिवीं स वै तस्तार फाल्गुनिः ॥ 034c
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् । 035a
वीषामुखान्वित्रिवेणून्न्यस्तदण्डकबन्धुरान् ॥ 035c
विजङ्घाकूबरांस्तत्र विनेमींश्च व्यरानपि । 036a
विचक्रोपस्करोपस्थान्भग्नोपकरणानपि ॥ 036c
'समास्थितान्योधवरैर्दान्ताश्वान्साधुसारथीन् । 037a
विपताकाध्वजच्छत्रान्वितूणीरायुधानपि ॥ 037c
प्रपातितोपस्तरणान्हतयोधान्सहस्रशः । 038a
शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत ॥ 038c
पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान् । 039a
तूणान्वर्माण्यथो कक्ष्या ग्रैवेयांश्च सकम्बलान् ॥ 039c
घण्टाः शुण्डाविषाणाग्राञ्छत्रमालाः पदानुगान् । 040a
शरैर्निशितधाराग्रैः शात्रवाणामशातयत् ॥ 040c
वनायुजान्पार्वतीयान्काम्भोजानथ बाह्लिकान् । 041a
स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः ॥ 041c
आरूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः । 042a
विध्वस्तचामरमुखान्विप्रविद्धप्रकीर्णकान् ॥ 042c
निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्धनान् । 043a
हतारोहांश्छिन्नघण्टान्क्रव्यादगणमोदकान् ॥ 043c
निकृत्तचर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान् । 044a
निपातयन्नश्ववरांस्तावकान्स व्यरोचत । 044c
एको विष्णुरिवाचिन्त्यं कृत्वा कर्म सुदुष्करम् ॥ 044e
तथा निर्मथितं तेन चतुरङ्गबलं महत् । 045a
यथाऽसुरबलं घोरं त्र्यम्बकेन महौजसा ॥ 045c
कृत्वा कर्म रणेऽसह्यं परैरार्जुनिराहवे । 046a
अभिनच्च पदात्योघांस्त्वदीयानेव सर्वशः ॥ 046c
एवमेकेन तां सेनां सौभद्रेण सितैः शरैः । 047a
भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् ॥ 047c
त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश । 048a
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना रोमहर्षिणः ॥ 048c
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये । 049a
गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः ॥ 049c
हतान्पुत्रान्पितॄन्भ्रातॄन्बन्धून्सम्बन्धिनस्तथा । 050a
प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् ॥ ॥ 050c

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे षट्त्रिंशोऽध्यायः ॥ 36 ॥

5-36-16 विंशतिरिति व्यूहपर्यायः । तदुक्तम् । विंशत्यङ्गतया व्यूहो विंशतिर्व्यपदिश्यते इति । विंशतेः पदे रक्षणे । पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुष्वित्यमरः । तं विशन्तं ततो यत्ता इति क. पाठः । ते विशन्तं मुदा युक्ता इति घ.ङ. पाठः ॥ 5-36-21 क्ष्वेडितं ध्वनिविशेषः । उत्क्रुष्टमाह्वानम् । गर्जितं हन्यन्तां हन्यन्तामिति वचः ॥ 5-36-29 कचग्रहोऽङ्कुशः ॥ 5-36-36 उपस्थो रथक्रोडः ॥ 5-36-43 यकृत्कालखण्डम् ॥ 5-36-45 व्यङ्गं तव बलं महत् इति झ.पाठः ॥ 5-36-36 षट्त्रिंशोऽध्यायः ॥