श्रीः
अध्यायः 035
युधिष्ठिरेणाभिमन्युम् प्रति पद्मव्यूहभेदनचोदना ॥ 1 ॥
सञ्जय उवाच 001
तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् । 001a
पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः ॥ 001c
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः । 002a
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः ॥ 002c
आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् । 003a
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः ॥ 003c
युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः । 004a
उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः ॥ 004c
द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् । 005a
केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः ॥ 005c
एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः । 006a
समभ्यधावन्सहसा भारद्वाजं युयुत्सवः ॥ 006c
समीपे वर्तमानांस्तान्भारद्वाजोऽतिवीर्यवान् । 007a
असम्भ्रान्तः शरौघेण महता समवारयत् ॥ 007c
महौघः सलिलस्येव गिरिमासाद्य दुर्भिदम् । 008a
द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः ॥ 008c
पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः । 009a
न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः ॥ 009c
तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् । 010a
यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह ॥ 010c
तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः । 011a
बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् ॥ 011c
अशक्यं तु तमन्येन द्रोणं मत्त्वा युधिष्ठिरः । 012a
अविषह्यं गुरुं भारं सौभद्रे समवासृजत् ॥ 012c
वासुदेवादनवरं फल्गुनाच्चामितौजसम् । 013a
अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः ॥ 013c
युधिष्ठिर उवाच 014
एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु । 014a
द्रोणानीकस्य न वयं विद्मो भेदं कथञ्चन ॥ 014c
त्वं वाऽर्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा । 015a
द्रोणानीकं महाबाहो पञ्चमो नोपपद्यते ॥ 015c
अभिमन्यो वरं तात याचे त्वां दातुमर्हसि । 016a
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः ॥ 016c
धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगात् । 017a
क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय ॥ 017c
अभिमन्युरुवाच 018
द्रोणस्य दृढमत्युग्रमनीकप्रवरं युधि । 018a
पितॄणां जयमाकाङ्क्षन्नवगाहेऽविलम्बितम् ॥ 018c
उपदिष्टो हि मे पित्रा योगोऽनीकविशातने । 019a
नोत्सहे हि विनिर्गन्तुमहं कस्याञ्चिदापदि ॥ 019c
युधिष्ठिर उवाच 020
भिन्ध्यनीकं युधांश्चेष्ठ द्वारं सञ्जनयस्व नः । 020a
वयं त्वाऽनुगमिष्यामो येन त्वं तात यास्यसि ॥ 020c
धनञ्जयसमं युद्धे त्वां वयं तात संयुगे । 021a
प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः ॥ 021c
भीम उवाच 022
अहं त्वाऽनुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः । 022a
पाञ्चलाः केकया मात्स्यास्तथा सर्वे प्रभद्रकाः ॥ 022c
सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः । 023a
वयं प्रध्वंसयिष्यामो निघ्नामाना वरान्वरान् ॥ 023c
अभिमन्युरुवाच 024
अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् । 024a
पतङ्ग इव सङ्क्रुद्धो ज्वलितं जातवेदसम् ॥ 024c
तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः । 025a
मातुलस्य च यत्प्रीतिं करिष्यति पितुश्च मे ॥ 025c
शिशुनैकेन सङ्ग्रामे काल्यमानानि सङ्घशः । 026a
द्रक्ष्यन्ति सर्वभूतानि द्विषत्सैन्यानि वै मया ॥ 026c
नाहं पार्थेन जातः स्यां न च जातः सुभद्रया । 027a
यदि मे संयुगे कश्चिज्जीवितो नाद्य मुच्यते ॥ 027c
यदि चैकरथेनाहं समग्रं क्षत्रमण्डलम् । 028a
न करोम्यष्टधा युद्धे न भवाम्यर्जुनात्मजः ॥ 028c
युधिष्ठिर उवाच 029
एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् । 029a
यत्समुत्सहसे भेत्तुं द्रोणानीकं दुरासदम् ॥ 029c
रक्षितं पुरुषव्याघ्रैर्महेष्वासैर्महाबलैः । 030a
साध्यरुद्रमरुत्तुल्यैर्वस्वग्न्यादित्यविक्रमैः ॥ 030c
सञ्जय उवाच 031
तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् ॥ 031a
सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय ॥ ॥ 031c
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे पञ्चत्रिंशोऽध्यायः ॥ 35 ॥
5-35-16 मातुलानां सात्यकिप्रभृतीनाम् ॥ 5-35-19 योग उपायो युक्तिर्वा ॥ 5-35-21 प्रणिधाय प्रविश्य ॥ 5-35-35 पञ्चत्रिंशोःऽध्यायः ॥