श्रीः
अध्यायः 034
द्रोणेन पद्मव्यूहरचना ॥ 1 ॥
सञ्जय उवाच 001
स्थिरो भव महाराज शोकं धारय दुर्धरम् । 001a
महान्तं बन्धुनाशं ते कथयिष्यामि तच्छृणु ॥ 001c
पद्मव्यूहो महाराज आचार्येणाभिकल्पितः । 002a
तत्र पद्मोपमाः सर्वे राजानो विनिवेशिताः ॥ 002c
कुमारा राजलोकस्य निक्षिप्ताः केसरोपमाः । 003a
कर्णिकास्थो महाराज तस्य दुर्योधनोऽभवत् ॥ 003c
कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः । 004a
रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः ॥ 004c
सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः । 005a
चन्दनागुरुदिग्धाङ्गाः स्रग्विणः सूक्ष्मवाससः ॥ 005c
सहिताः पर्यधावन्त कार्ष्णिं प्रतियुयुत्सवः । 006a
तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् ॥ 006c
पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् । 007a
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः ॥ 007c
अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः । 008a
दुर्योधनस्तु राजेन्द्र सैन्यमध्ये व्यवस्थितः ॥ 008c
कर्णदुःशासनकृपैर्वृतो राजा महारथैः । 009a
देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः ॥ 009c
चामरव्यजनाक्षेपैरुदयन्निव भास्करः । 010a
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थित नायकः ॥ 010c
सिन्धुराजस्तथाऽतिष्ठच्छ्रीमान्मेरुरिवाचलः । 011a
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः ॥ 011c
सुतास्तव महाराज त्रिंशत्त्रिदशसन्निभाः । 012a
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा ॥ 012c
पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः । 013a
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् । 013c
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् ॥ ॥ 013e
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे चतुस्त्रिंशोऽध्यायः ॥ 34 ॥
5-34-2 चक्रव्यूह इति झ.पाठः ॥ 5-34-10 प्रमुखेऽग्रे । सैन्यस्य नायको द्रोणः । अवस्थितेतिच्छन्दोनुरोधाद्विसर्गलोपः ॥ 5-34-34 चतुस्त्रिंशोऽध्यायः ॥