श्रीः अध्यायः 033 युधिष्ठिरस्याग्रहणात् दुर्मनायमानं दुर्योधनम् प्रति द्रोणेन कस्यचिन्महारथस्य हननप्रतिज्ञा ॥ 1 ॥ सञ्जयेन धृतराष्ट्रम् प्रति सङ्क्षेपतोऽभिमन्युवधकथनम् ॥ 2 ॥ सञ्जय उवाच 001
पूर्वमस्मासु भग्नेषु फल्गुगेनामितौजसा । 001a
द्रोणे च मोघसङ्कल्पे रक्षिते च युधिष्ठिरे ॥ 001c
सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः । 002a
रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश ॥ 002c
अवहारं ततः कृत्वा भारद्वाजस्य सम्मते । 003a
लब्धलक्षैः शरैर्भिन्ना भृशावहसिता रणे ॥ 003c
श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् । 004a
केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति ॥ 004c
अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः । 005a
ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत् ॥ 005c
प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः । 006a
शृण्वतां सर्वयोधानां संरब्धो वाक्यकोविदः ॥ 006c
नूनं वयं वध्यपक्षे भवतो द्विजसत्तम । 007a
तथाहि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् ॥ 007c
इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः । 008a
जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः ॥ 008c
वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि । 009a
आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथञ्चन ॥ 009c
सञ्जय उवाच 010
ततोऽप्रीतस्तथोक्तः सन्भारद्वाजोऽब्रवीन्नृपम् । 010a
नार्हसे मां तथा ज्ञातुं घटमानं तव प्रिये ॥ 010c
ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः । 011a
नालं लोका रणे जेतुं पाल्यमानं किरीटिना ॥ 011c
विश्वसृग्यत्र गोविन्दः पृतनानीस्तथाऽर्जुनः । 012a
तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः ॥ 012c
सत्यं तात ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् । 013a
अद्यैकं प्रवरं कञ्चित्पातयिष्ये महारथम् ॥ 013c
चक्रव्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि । 014a
योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् ॥ 014c
न ह्यज्ञातमसाध्यं वा तस्य सङ्ख्येऽस्ति किञ्चन । 015a
तेन ह्युपात्तं सकलं सर्वज्ञानमितस्ततः ॥ 015c
द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः । 016a
आह्वयन्नर्जुनं सङ्ख्ये दक्षिणामभितो दिशम् ॥ 016c
ततोऽर्जुनस्याथ परैः सार्धं समभवद्रणः । 017a
तादृशो यादृशो नान्यः श्रुतो दृष्टोपि वा क्वचित् || 017c
तत्र द्रोणेन विहितो व्यूहो राजन्व्यरोचत । 018a
चरन्मध्यन्दिने सूर्यः प्रतपन्निव दुर्दृशः ॥ 018e
तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत । 019a
बिभेद दुर्भिदं सङ्ख्ये चक्रव्यूहमनेकधा ॥ 019c
स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः । 020a
राजपुत्रशतं हत्वा कौसल्यं च बृहद्बलम् ॥ 020c
महारथं शल्यपुत्रं पौत्रं ते लक्ष्मणं तथा । 021a
षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः | 021c
सौभद्रः पृथिवीपाल जहौ प्राणान्परन्तप ॥ 021e
वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः । 022a
सौभद्रे निहते राजन्नवहारमकुर्महि ॥ 022c
'जनमेजय उवाच 023
समरोद्युक्तकर्माणः कर्मभिर्व्यञ्जितश्रमाः । 023a
सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः ॥ 023c
शश्वत्कर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया । 024a
न भूतो भविता वापि कृष्णस्य सदृशः पुमान् ॥ 024c
सत्यधर्मतपोदानैर्द्विजपूजादिभिर्गुणैः । 025a
सदेहस्त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः ॥ 025c
युगान्ते चान्तकश्चैव जामदग्न्यश्च कीर्तिमान् । 026a
रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः ॥ 026c
प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः । 027a
उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ ॥ 027c
गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः । 028a
नकुले त्वाभिरूप्यं च शौर्यं च नियतानि षट् ॥ 028c
श्रुतमाधुर्यगाम्भीर्यसत्त्वरूपपराक्रमैः । 029a
सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः ॥ 029c
ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः । 030a
अभिमन्यौ किलैकस्था दृश्यन्ते ते गुणाः शुभाः ॥ 030c
युधिष्ठिरस्य शौर्येण कृष्णस्य चरितेन च । 031a
कर्मणा भीमसेनस्य सदृशं भीमकर्मणः ॥ 031c
धनञ्जयस्य रूपेण विक्रमेण शुभेन च । 032a
विनये सहदेवस्य सदृशं नकुलस्य च ॥ 032c
अभिमन्युं द्विजश्रेष्ठ सौभद्रमपराजितम् । 033a
श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः ॥ 033c
वैशम्पायन उवाच 034
अभिमन्युं हतं श्रुत्वा धृतराष्ट्रो जनाधिपः । 034a
विस्तरेण महाराज पर्यपृच्छत्स सञ्जयम् ॥' 034c
धृतराष्ट्र उवाच 035
पुत्रं पुरुषसिंहस्य सञ्जयाप्राप्तयौवनम् । 035a
रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः ॥ 035c
दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः । 036a
यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् ॥ 036c
बालमत्यन्तसुखिनं विचरन्तमभीतवत् । 037a
कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम् ॥ 037c
बिभित्सता रथानीकं सौभद्रेणामितौजसा । 038a
विक्रीडितं यथा सङ्ख्ये तन्ममाचक्ष्व सञ्जय ॥ 038c
सञ्जय उवाच 039
यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् । 039a
तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः ॥ 039c
विक्रीडितं कुमारेण यथानीकं बिभित्सता । 040a
आरुग्णाश्च यथा वीरा दुःसाध्याश्चापि विप्लवे ॥ 040c
दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे । 041a
वनौकसामिवारण्ये त्वदीयानामभूद्भयम् ॥ ॥ 041c

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

5-33-2 रजस्वला धूलिव्याप्ताः ॥ 5-33-9 विकृतवानन्यथा कृतवान् ॥ 5-33-15 कलाभिः सहितं सकलम् । इतोऽस्मत्तः । ततोऽन्यतः ॥ 5-33-21 षट्सु द्रोणद्रौणिकृपकर्णभोजशल्येषु ॥ 5-33-28 नैभृत्यं कृतकर्तव्याप्रकाशनम् ॥ 5-33-36 धर्मकर्तृभिर्मन्वादिभिः ॥ 5-33-33 त्रयस्त्रिंशोऽध्यायः ॥