श्रीः अध्यायः 032 सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच 001
प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः । 001a
सोऽभ्याहनद्गुरुं षष्ट्या कर्णं च दशभिः शरैः ॥ 001c
तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरजिह्मगैः । 002a
जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह ॥ 002c
आनन्तर्यमभिप्रेप्सुः षड्विंशत्या समार्पयत् । 003a
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः ॥ 003c
षड्भिर्दुर्योधनो राजा तत एनमथाकिरत् । 004a
भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः ॥ 004c
द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः । 005a
दुर्योधनं द्वादशभिर्द्रौणिमष्टाभिराशुगैः ॥ 005c
आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे । 006a
तस्मिन्सन्त्यजति प्राणान्मृत्युसाधारणीकृते ॥ 006c
अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् । 007a
ते ययुर्भीमसेनस्य समीपममितौजसः ॥ 007c
युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ । 008a
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः ॥ 008c
महेष्वासवरैर्गुप्ता द्रोणानीकं बिभित्सवः । 009a
समापेतुर्महावीर्या भीमप्रभृतयो रथाः ॥ 009c
तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः । 010a
महारथानतिबलान्वीरान्समरयोधिनः ॥ 010c
बाह्यं मृत्युभयं कृत्वा तावकान्पाण्डवा ययुः । 011a
सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान् ॥ 011c
असिशक्त्यृष्टिसङ्घातैर्युद्धमासीत्परश्वथैः । 012a
प्रकृष्टमसियुद्धं च बभूव कटुकोदयम् ॥ 012c
कुञ्जराणां च सम्पाते युद्धमासीत्सुदारुणम् । 013a
अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः ॥ 013c
नरो बाणविनिर्भिन्नो रथादन्यश्च मारिष । 014a
तत्रान्यस्य च सम्मर्दे पतितस्य विवर्मणः ॥ 014c
शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः । 015a
अपरांश्चापरेऽमृद्नन्वारणाः पतितान्नरान् ॥ 015c
विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून् । 016a
नरान्त्रैः केचिदपरे विषाणालग्नसंश्रयैः ॥ 016c
बभ्रमुः समरे नागा मृद्नन्तः शतशो नरान् । 017a
कार्ष्णायसतनुत्राणान्नराश्वरथकुञ्जरान् ॥ 017c
पतितान्पोथयाञ्चक्रुर्द्विपाः स्थूलनलानिव । 018a
गृध्रपत्राधिवासांसि शयनानि नराधिपाः ॥ 018c
ह्रीमन्तः कालसम्पर्कात्सुदुःखान्यनुशेरते । 019a
हन्ति स्मात्र पिता पुत्रं रथेनाभ्येत्य संयुगे ॥ 019c
पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत । 020a
रथो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम् ॥ 020c
युगार्धं च्छिन्नमादाय प्रदुद्राव तथा हयः । 021a
सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् ॥ 021c
गजेनाक्षिप्य बलिना रथः सञ्चूर्णितः क्षितौ । 022a
रथिना ताडितो नागो नाराचेनापतत्क्षितौ ॥ 022c
सारोहश्चापतद्वाजी गजेनाभ्याहतो भृशम् । 023a
निर्मर्यादं महद्युद्धमवर्तत सुदारुणम् ॥ 023c
हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि । 024a
प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः । 024c
इत्येवमुच्चैरत्यर्थं श्रूयन्ते विविधा गिरः ॥ 024e
नरस्याश्वस्य नाग्स्य समसज्जत शोणितम् । 025a
उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत् ॥ 025c
चक्रेण चक्रमासाद्य वीरो वीरस्य संयुगे । 026a
अतीतेषुपथे काले जहार गदया शिरः ॥ 026c
अासीत्केशपरामर्शो मुष्टियुद्धं च दारुणम् । 027a
नखैर्दन्तैश्च शूराणामद्वीपे द्वीपमिच्छताम् ॥ 027c
तत्राच्छिद्यत शूरस्य सखड्गो बाहुरुद्यतः । 028a
सधनुश्चापरस्यापि सशरः साङ्कुशस्तथा ॥ 028c
आक्रोशदन्यमन्योऽत्र तथाऽन्यो विमुखोऽद्रवत् । 029a
अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत् ॥ 029c
सशब्दमद्रवच्चान्यः शब्दादन्योऽत्रसद्भृशम् । 030a
स्वानन्योऽथ परानन्यो जघान निशितैः शरैः ॥ 030c
गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः । 031a
मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे ॥ 031c
तथैव रथिनं नागः क्षरन्गिरिरिवारुजन् । 032a
अभ्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम् ॥ 032c
शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान् । 033a
बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान् ॥ 033c
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन । 034a
सैन्येन रजसा ध्वस्तं निर्मर्यादमवर्तत ॥ 034c
ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन् । 035a
नित्याभित्वरितानेव त्वरयामास पाण्डवान् ॥ 035c
कुर्वन्तः शासनं तस्य पाण्डवा बाहुशालिनः । 036a
सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति ॥ 036c
गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत । 037a
इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति ॥ 037c
ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः । 038a
विन्दानुविन्दावावन्त्यौ शल्यश्चैतान्न्यवारयन् ॥ 038c
ते त्वार्यधर्मसंरब्धा दुर्निवारा दुरासदाः । 039a
शरार्ता न जहुर्द्रोणं पाञ्चालाः पाण्डवैः सह ॥ 039c
ततो द्रोणोऽतिसङ्क्रुद्धो विसृजञ्शतशः शरान् । 040a
चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत् ॥ 040c
तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष । 041a
वज्रसंह्रादसङ्काशस्त्रासयन्मानवान्बहून् ॥ 041c
एतस्मिन्नन्तरे जिष्णुर्जित्वा संशप्तकान्बहून् । 042a
अभ्ययात्तत्र यत्रासौ द्रोणः पाण्डून्प्रमर्दति ॥ 042c
ताञ्शरौघान्महावर्ताञ्शोणितोदान्महाह्रदान् । 043a
तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः ॥ 043c
तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः । 044a
दीप्यमानमपश्याम तेजसा वानरध्वजम् ॥ 044c
संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः । 045a
स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् ॥ 045c
प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा । 046a
युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः ॥ 046c
तेन बाणसहस्रौधैर्गजाश्वरथयोधिनः । 047a
ताड्यमानाः क्षितिं जग्मुर्मुक्तकेशाःशरार्दिताः ॥ 047c
केचिदार्तस्वनं चक्रुर्विनेशुरपरे पुनः । 048a
पार्थबाणहताः केचिन्निपेतुर्विगतासवः ॥ 048c
तेषामुत्पतितान्कांश्चित्पतितांश्च पराङ्मुखान् । 049a
न जघानार्जुनो योधान्योधव्रतमनुस्मरन् ॥ 049c
ते विकीर्णरथाश्चित्राः प्रायशश्च पराङ्मुखाः । 050a
कुरवः कर्णकर्णेति हाहेति च विचुक्रुशुः ॥ 050c
तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् । 051a
मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् ॥ 051c
स भारतरथश्रेष्ठः सर्वभारतहर्षणः । 052a
प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वारः ॥ 052c
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च । 053a
'वारुणेन तदस्त्रेण विधूयाथ धनञ्जयः। ' 053c
शरौघाञ्शरजालेन विदुधाव धनञ्जयः ॥ 053e
तथैवाधिरथिस्तस्य बाणाज्ज्वलिततेजसः । 054a
अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान् ॥ 054c
धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः । 055a
विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः ॥ 055c
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः । 056a
तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः ॥ 056c
ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव । 057a
रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् ॥ 057c
ता भुजाग्रैर्महावेगा निसृष्टा भुजगोपमाः । 058a
दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति ॥ 058c
ता निकृत्य शरव्रातैस्त्रिभिस्त्रिभिरजिह्मगैः । 059a
ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान् ॥ 059c
अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः । 060a
कर्णादवरजं बाणैर्जघान निशितैः शरैः ॥ 060c
ततः शत्रुञ्जयं हत्वा पार्थः षड्भिरजिह्मगैः । 061a
जहार सद्यो भल्लेन विपाटस्य शिरो रथात् ॥ 061c
पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना । 062a
प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः ॥ 062c
ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् । 063a
वरासिना कर्णपक्षाञ्जघान दश पञ्च च ॥ 063c
पुनस्तु रथमास्थाय धनुरादाय चापरम् । 064a
विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः ॥ 064c
धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् । 065a
जघान चन्द्रवर्माणं बृहत्क्षत्रं च नैषधम् ॥ 065c
ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् । 066a
आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे ॥ 066c
शैनेयोऽप्यन्यदादाय धनुरिन्दुसमद्युतिः । 067a
सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् ॥ 067c
भल्लाभ्यां साधु मुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् । 068a
पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 068c
ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः । 069a
निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात् ॥ 069c
पत्त्यश्वरथमातङ्गास्त्वदीयाः शतशोऽपरे । 070a
कर्णमेवाभ्यधावन्त त्रास्यमानाः प्रहारिणः ॥ 070c
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च । 071a
नकुलः सहदेवश्च सात्यकिं जुगुपू रणे ॥ 071c
एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् । 072a
तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः ॥ 072c
पदातिरथनागाश्वा गजाश्वरथपत्तिभिः । 073a
रथिनो नागपत्त्यश्वैरथ पत्तीरथ द्विपैः ॥ 073c
अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह । 074a
संयुक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः ॥ 074c
एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् । 075a
महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम् ॥ 075c
ततो हता नररथवाजिकुञ्जरैरनेकशो द्विपरथपत्तिवाजिनः । 076a
गजैर्गजा रथिभिरुदायुधा रथा हयैर्हयाः पत्तिगणैश्च पत्तयः ॥ 076c
रथैर्द्विपा द्विरदवरैर्महाहया हयैर्नरा वररथिभिश्च वाजिनः । 077a
निरस्तजिह्वादशनेक्षणाः क्षितौ क्षयं गताः प्रमथितवर्मभूषणाः ॥ 077c
तथा परैर्बहुकरणैर्वरायुधैर्हता गताः प्रतिभयदर्शनाः क्षितिम् । 078a
विपोथिता हयगजपादताडिता भृशाकुला रथमुखनेमिभिः क्षताः ॥ 078c
प्रमोदने श्वापदपक्षिरक्षसां जनक्षये वर्तति तत्र दारुणे । 079a
महाबलास्ते कुपिताः परस्परं निषूदयन्तः प्रविचेरुरोजसा ॥ 079c
ततो बले भृशलुलिते परस्परं निरीक्षमाणे रुधिरौघसम्प्लुते । 080a
दिवाकरेऽस्तङ्गिरिमास्थिते शनैरुभे प्रयाते शिबिराय भारत ॥ ॥ 080c

इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धावहारे द्वात्रिंशोऽध्यायः ॥ 32 ॥

5-32-6 मृत्युसाधारणीकृते मरणतुल्यावस्थां गमिते ॥ 5-32-12 कटुकस्य परुषस्योदयो यत्र ॥ 5-32-16 अवनिं गत्वा अभिहत्य । विषाणालग्नसंश्रयैः दन्तलग्नैकदेशैः ॥ 5-32-18 गृध्रपक्षाधिवासांसि गृध्रपक्षास्तरणानि ॥ 5-32-25 समसज्जत घनतामगमत् ॥ 5-32-26 अतीतः इषुपथः शरावकाशो यत्र ॥ 5-32-27 द्वीपमाश्रयम् ॥ 5-32-29 आक्रोशत् आहूतवान् ॥ 5-32-32 क्षरन्मदमिति शेषः । रथिनं तथैव सहसारथिम् अर्थाद्रथं च पदा आरुजन् भूमौ अभ्यतिष्ठदित्यन्वयः ॥ 5-32-37 विभीता अभीताः । दुर्धर्षस्य द्रोणस्य ॥ 5-32-39 आर्यधर्मेण संरब्धाः सोद्यमाः ॥ 5-32-53 विदुधाव खण्डितवान् ॥ 5-32-61 विघातस्य शिर इति क.पाठः ॥ 5-32-72 प्राणांस्त्यक्त्वा युध्यतामिति शेषः ॥ 5-32-75 अभीतानामभिमुखागतानां भयहीनानां वा ॥ 5-32-78 बहुकरणैरनेकप्रक्रियैः । रथमुखानां रथमुख्यानां नेमिभिश्चक्रान्तैः ॥ 5-32-32 द्वात्रिंशोऽध्यायः ॥