श्रीः
अध्यायः 031
अश्वत्थाम्ना नीलस्य वधः ॥ 1 ॥
धृतराष्ट्र उवाच 001
तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय । 001a
चलितानां द्रुतानां च कथमासीन्मनांसि वः ॥ 001c
आनीकानां प्रभग्नानामवस्थानमपश्यताम् । 002a
दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय ॥ 002c
सञ्जय उवाच 003
तथापि तव पुत्रस्य प्रियकामा विशाम्पते । 003a
यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः ॥ 003c
समुद्यतेषु चास्त्रेषु सम्प्राप्ते च युधिष्ठिरे । 004a
अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् ॥ 004c
अन्तरं भीमसेनस्य प्रापतन्नमितौजसः । 005a
सात्यकेश्चैव वीरस्य धृष्टद्युम्नस्य वा विभो ॥ 005c
द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन् । 006a
मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् ॥ 006c
द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे । 007a
कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत ॥ 007c
यंयं प्रमथते द्रोणः पाञ्चालानां रथव्रजम् । 008a
तत्रतत्र तु पाञ्चाल्यो धृष्टद्युम्नोऽभ्यवर्तत ॥ 008c
तेषां भाग्यविपर्यासैः सङ्ग्रामे भैरवे सति । 009a
वीराः समासदन्वीरान्कुर्वन्तो भैरवं रवम् ॥ 009c
अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः । 010a
अकम्पयन्ननीकानि स्मरन्तः क्लेशमात्मनः ॥ 010c
ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्वचोदिताः । 011a
त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे ॥ 011c
अयसामिव सम्पातः शिलानामिव चाभवत् । 012a
दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् ॥ 012c
नानुस्मरन्ति सङ्ग्राममपि वृद्धास्तथाविधम् । 013a
ये पूर्वदेवैर्देवानामपश्यन्युद्धमद्भुतम् ॥ 013c
प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने । 014a
निवर्तता बलौघेन महता भारपीडिता ॥ 014c
घूर्णतोऽपि बलौघस्य दिवं स्तब्ध्वेव निःस्वनः । 015a
अजातशत्रोस्तत्सैन्यमाविवेश सुभैरवः ॥ 015c
समासाद्य तु पाण्डूनामनीकानि सहस्रशः । 016a
द्रोणेन चरता सङ्ख्ये प्रभग्नानि शितैः शरैः ॥ 016c
तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा । 017a
पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम् ॥ 017c
तदद्भुतमभूद्युद्धं द्रोणपाञ्चालयोस्तथा । 018a
नैव तस्योपमा काचिदिति मे निश्चिता मतिः ॥ 018c
ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् । 019a
शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः ॥ 019c
तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् । 020a
पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत ॥ 020c
नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा । 021a
मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशु माम् ॥ 021c
तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् । 022a
व्याकोशपद्माभमुखो नीलो विव्याध सायकैः ॥ 022c
तेनापि विद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः । 023a
धनुर्ध्वजं च च्छत्रं च द्विषतः सन्न्यकृन्तत ॥ 023c
स प्लुतः स्यन्दनात्तस्मान्नीलश्चर्मवरासिभृत् । 024a
द्रौणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्त्रिवत् ॥ 024c
तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम् । 025a
भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ ॥ 025c
सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः । 026a
प्रांशुरुत्पलपत्राभो निहतो न्यपतद्भुवि ॥ 026c
ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला । 027a
आचार्यपुत्रेण हते नीले ज्वलिततेजसि ॥ 027c
अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः । 028a
कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष ॥ 028c
दक्षिणेन तु सेनायाः कुरुते कदनं बली । 029a
संशप्तकावशेषस्य नारायणबलस्य च ॥ ॥ 029c
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे एकत्रिंशोऽध्यायः ॥ 31 ॥
5-31-5 अन्तरं छिद्रम् । प्रापतन्सृतवन्तः ॥ 5-31-7 पाण्डवान्याम इत्येव मा द्रोणमिति चापरे इति क. पाठः ॥ 5-31-9 समासदन्प्रतिगतवन्तः ॥ 5-31-11 न्यवर्तन्त भयेभ्यो निवृत्ताः । सत्यचोदिताः इति क.घ.ङ. पाठः ॥ 5-31-31 एकत्रिंशोऽध्यायः ॥