श्रीः
अध्यायः 030
अर्जुनयुद्धवर्णनम् ॥ 1 ॥
सञ्जय उवाच 001
प्रियमिन्द्रस्य सततं सखायममितौजसम् । 001a
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत ॥ 001c
ततो गान्धारराजस्य सुतौ परपुरञ्जयौ । 002a
अर्देतामर्जुनं सङ्ख्ये भ्रातरौ वृषकाचलौ ॥ 002c
तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ । 003a
अविध्येतां महावेगैर्निशितैराशुगैर्भृशम् ॥ 003c
वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम् । 004a
तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः ॥ 004c
ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि । 005a
गान्धारानाकुलांश्चक्रे सौबलप्रमुखान्पुनः ॥ 005c
ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान् । 006a
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः ॥ 006c
हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः । 007a
आरुरोह रथं भ्रातुरन्यच्च धनुराददे ॥ 007c
तावेकरथमारूढौ भ्रातरौ वृषकाचलौ । 008a
शरवर्षेण बीभत्सुमविध्येतां मुहुर्मुहुः ॥ 008c
स्यालौ तव महात्मानौ राजानौ वृषकाचलौ । 009a
भृशं विजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव ॥ 009c
लब्धलक्षौ तु गान्धारावहतां पाण्डवं पुनः । 010a
नैदाघवार्षिकौ मासौ लोकं घर्मांशुभिर्यथा ॥ 010c
तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ । 011a
संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणाऽर्जुनः ॥ 011c
तौ रथात्सिंहसङ्काशौ लोहिताक्षौ महाभुजौ । 012a
राजन्सम्पेततुर्वीरौ सोदर्यावेकलक्षणौ ॥ 012c
तयोर्भूमिं गतौ देहौ रथाद्बन्धुजनप्रियौ । 013a
यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ ॥ 013c
दृष्ट्वा विनिहतौ सङ्ख्ये मातुलावपलायिनौ । 014a
भृशं मुमुचुरश्रूणि पुत्रास्तव विशाम्पते ॥ 014c
निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः । 015a
कृष्णौ सम्मोहन्मायां विदधे शकुनिस्ततः ॥ 015c
लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः । 016a
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टसाः ॥ 016c
सकम्पनर्ष्टिनखरा मुसलानि परश्वथाः । 017a
क्षुराः क्षुरप्रनालीका वत्सदन्तास्थिसन्धयः ॥ 017c
चक्राणि विशिखाः प्रासा विविधान्यायुधानि च । 018a
प्रपेतुः शतशो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति ॥ 018c
खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचित्रकाः । 019a
ऋक्षाः सालावृका गृध्राः कपयश्च सरीसृपाः ॥ 019c
विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति । 020a
सङ्क्रुद्धान्यभ्यधावन्त विविधानि वयांसि च ॥ 020c
ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः । 021a
विसृजन्निषुजालानि सहसा तान्यताडयत् ॥ 021c
ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः । 022a
विरुवन्तो महारावान्विनेशुः सर्वतो हताः ॥ 022c
ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति । 023a
तस्माच्च तमसो वचाः क्रूराः पार्थमभर्त्सयन् ॥ 023c
तत्तमो भैरवं घोरं भयकर्तृ महाहवे । 024a
उत्तमास्त्रेण महता ज्यौतिषेणार्जुनोऽवधीत् ॥ 024c
हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः । 025a
अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः । 025c
प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् ॥ 025e
एवं बहुविधा मायाः सौबलस्य कृताः कृताः । 026a
जघानास्त्रबलेनाशु प्रहसन्नर्जुनोऽब्रवीत् ॥ 026c
'दुर्द्यूतदेविन्गान्धारे नाक्षान्क्षिपति गाण्डिवम् । 027a
ज्वलितान्निशितांस्तीक्ष्णाञ्शरान्क्षिपतिगाण्डिवम् ॥' 027c
तदा हतासु मायासु त्रस्तोऽर्जुनशराहतः । 028a
अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा ॥ 028c
ततोऽर्जुनोऽस्त्रविच्छैघ्र्यं दर्शयन्नात्मनोऽरिषु । 029a
अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम् ॥ 029c
सा हन्यमाना पार्थेन तव पुत्रस्य वाहिनी । 030a
द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् ॥ 030c
द्रोणमेवान्वपद्यन्त केचित्तत्र नरर्षभाः । 031a
केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना ॥ 031c
नापश्याम ततस्त्वेनं सैन्ये वै रजसावृते । 032a
गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया ॥ 032c
शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निःस्वनम् । 033a
गाण्डीवस्य तु निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् ॥ 033c
ततः पुनर्दक्षिणतः सङ्ग्रामश्चित्रयोधिनाम् । 034a
सुयुद्धं चार्जुनस्यासीदहं द्रोणमन्वियाम् ॥ 034c
यौधिष्ठिराभ्यनीकानि प्रहरन्ति ततस्ततः । 035a
नानाविधान्यनीकानि पुत्राणां तव भारत । 035c
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥ 035e
तं वासवमिवायान्तं भूरिवर्षं शरौघिणम् । 036a
महेष्वासा नरव्याघ्रा नोग्रं केचिदवारयन् ॥ 036c
ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् । 037a
स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः ॥ 037c
तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः । 038a
शलभा इव सम्पेतुः संवृण्वाना दिशो दश ॥ 038c
तुरगं रथिनं नागं पदातिमपि मारिष । 039a
विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः ॥ 039c
न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः । 040a
पृथगेकशरारुग्णा निपेतुस्ते गतासवः ॥ 040c
हतैर्मनुष्यैर्द्विरदैश्च सर्वतः शराभिसृष्टैश्च हयैर्निपातितैः । 041a
तदाऽश्वगोमायुबलाभिनादितं विचित्रमायोधशिरो बभूव तत् ॥ 041c
पिता सुतं त्यजति सुहृद्वरं सुहृत्तथैव पुत्रः पितरं शरातुरः । 042a
स्वरक्षणे कृतमतयस्तदा जनास्त्यजन्ति वाहानपि पार्थपीडिताः ॥ ॥ 042c
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे त्रिंशोऽध्यायः ॥ 30 ॥
5-30-10 वर्षशब्दोऽयमृतुवचनः । निदाघर्तुसम्बन्धिनावित्यर्थः । घर्मांशुभिस्तीक्ष्णकिरणैः । लोकं घर्मोम्बुभिर्यथा इति क.ङ.पाठः ॥ 5-30-17 कम्पनयष्ट्यः । क्षुरा क्षुराकृतिफलकाः । क्षुरप्रास्तूग्रमध्यफलकाः । नालीका नलिकया क्षेप्याः । वत्सदन्ता गोपोतकदन्ताकारफलकाः । अस्थिसन्धयोऽस्थिमयफलकाः ॥ 5-30-18 विशिखाः फणित्राकारफलकाः ॥ 5-30-19 सृमरा गवयाः । चित्रको व्याघ्रभेदः । सालावृकाः श्वानः ॥ 5-30-32 एनमर्जुनम् ॥ 5-30-41 शराभिसृष्टैर्बाणाभिहतैः । आयोधशिरो रणाङ्गणम् ॥ 5-30-30 त्रिंशोऽध्यायः ॥