श्रीः
अध्यायः 029
अर्जुनेन सगजस्य भगदत्तस्य वधः ॥ 1 ॥
धृतराष्ट्र उवाच 001
तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः । 001a
प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् ॥ 001c
सञ्जय उवाच 002
प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ । 002a
मृत्युदंष्ट्रान्तिकं प्राप्तौ सर्वभूतानि मेनिरे ॥ 002c
तथा तु शरवर्षाणि पातयत्यनिशं प्रभो । 003a
गजस्कन्धान्महाराज कृष्णयोः स्यन्दनस्थयोः ॥ 003c
अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः । 004a
अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः ॥ 004c
अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः । 005a
निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः सुवाससः ॥ 005c
तस्य पार्थो धनुश्छित्त्वा परिवारं निहत्य च । 006a
लालयन्निव राजानं भगदत्तमयोधयत् ॥ 006c
सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश । 007a
अप्रेषयत्सव्यसाची द्विधैकैकमथाच्छिनत् ॥ 007c
ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः । 008a
शरजालेन महता तद्व्यशीर्यत भूतले ॥ 008c
शीर्णवर्मा स तु गजः शरैः सुभृशमर्दितः । 009a
बभौ धारानिपाताक्तो व्यभ्रः पर्वतराडिव ॥ 009c
ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम् । 010a
व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत् ॥ 010c
ततश्छत्रं ध्वजं चैव च्छित्त्वा राज्ञोऽर्जुनः शरैः । 011a
विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वतेश्वरम् ॥ 011c
सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः । 012a
भगदत्तस्ततः क्रुद्धः पाण्डवस्य जनाधिपः ॥ 012c
व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च । 013a
तैरर्जुनस्य समरे किरीटं परिवर्तितम् ॥ 013c
परिवृत्तं किरीटं तद्यमयन्नेव पाण्डवः । 014a
सुदृष्टः क्रियतां लोक इति राजानमब्रवीत् ॥ 014c
एवमुक्तस्तु सङ्क्रुद्धः शरवर्षेण पाण्डवम् । 015a
अभ्यवर्षत्स गोविन्दं धनुरादाय भास्वरम् ॥ 015c
तस्य पार्थो धनुश्छित्त्वा तूणीरान्सन्निकृत्य च । 016a
त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत् ॥ 016c
विद्धस्ततोऽतिव्यथितो वैष्णवास्त्रमुदीरयन् । 017a
अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि ॥ 017c
विसृष्टं भगदत्तेन तदस्त्रं सर्वघाति वै । 018a
उरसा प्रतिजग्राह पार्थं सञ्छाद्य केशवः ॥ 018c
वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि । 019a
पद्मकोशविचित्रा सा सर्वर्तुकुसुमोत्करा ॥ 019c
ज्वलनार्केन्दुवर्णाभा पावकोज्ज्वलपल्लवा । 020a
तया पद्मपलाशिन्या वातकम्पितपत्रया ॥ 020c
शुशुभेऽभ्यधिकं शौरिरतसीपुष्पसन्निभः । 021a
ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत ॥ 021c
अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन । 022a
इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि ॥ 022c
यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे । 023a
ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते ॥ 023c
सबाणः सधनुश्चाहं ससुरासुरमानुषान् । 024a
शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव ॥ 024c
ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः । 025a
शृणु गुह्यमिदं पार्थ पुरावृत्तं यथाऽनघ ॥ 025c
'येयं भूतधरा देवी सर्वभूतधरा धरा । 026a
सकामा लोककर्तारं नारायणमुपस्थिता ॥ 026c
स सङ्गत्य तया सार्धं प्रीतस्तस्या वरं ददौ । 027a
सा वव्रे विष्णुसदृशं पुत्रमस्त्रं च वैष्णवम् ॥ 027c
बभूव च सुतस्तस्या नरको नाम विश्रुतः । 028a
अस्त्रं च वैष्णवं तस्मै ददौ नारायणः स्वयम् ॥ 028c
तदेवं नरकस्यासीदस्त्रं सर्वाहितान्तकम् । 029a
तस्मात्प्राग्ज्योतिषं प्राप्तं सर्वशस्त्रविघातनम् ॥ 029c
नास्यावध्योऽस्ति लोकेऽस्मिन्मदन्यः कश्चिदर्जुन । 030a
तस्मान्मया कृतं ह्येतन्मा भूत्ते बुद्धिरन्यथा ॥ 030c
सञ्जय उवाच 031
अनुनीय तु दाशार्हः पाण्डवं त्वरितोऽब्रवीत् । 031a
जहि प्राग्ज्योतिषं क्षिप्रं वाक्यशेषं च मे शृणु ॥' 031c
चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः । 032a
आत्मानं प्रविभज्येह लोकानां हितमादधे ॥ 032c
एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता । 033a
अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी ॥ 033c
अपरा कुरुते कर्म मानुषं लोकमाश्रिता । 034a
शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकीम् ॥ 034c
याऽसौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम । 035a
वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा ॥ 035c
तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा । 036a
अयाचत वरं यन्मां नरकार्थाय तच्छृणु ॥ 036c
देवानां दानवानां च अवध्यस्तनयोऽस्तु मे । 037a
उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि ॥ 037c
एवं वरमहं श्रुत्वा जगत्यास्तनये तदा । 038a
अमोघमस्त्रं प्रायच्छं वैष्णवं परमं पुरा ॥ 038c
अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे । 039a
नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति ॥ 039c
अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः । 040a
भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा ॥ 040c
तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी । 041a
स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः ॥ 041c
तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् । 042a
नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष ॥ 042c
तन्मया त्वत्कृते चैतदन्यथैवोपनिर्मितम् । 043a
वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् ॥ 043c
'अवध्योऽयं महास्त्रेण भगदत्तः सुरासुरैः ।' 044a
वैरिणं जहि दुर्धर्षं भगदत्तं सुरद्विषम् । 044c
यथाऽहं जघ्निवान्पूर्वं हितार्थं नरकं तथा ॥ 044e
सञ्जय उवाच 045
एवमुक्तस्तदा पार्थः केशवेन महात्मना । 045a
भगदत्तं शितैर्बाणैः सहसा समवाकिरत् ॥ 045c
ततः पार्थो महाबाहुरसम्भ्रान्तो महामनाः । 046a
कुम्भयोरन्तरे नागं नाराचेन समार्पयत् ॥ 046c
स समासाद्य तं नागं बाणो वज्र इवाचलम् । 047a
अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः ॥ 047c
स करी भगदत्तेन प्रेर्यमाणो मुहुर्मुहुः । 048a
न करोति वचस्तस्य दरिद्रस्येव योषिता ॥ 048c
स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ । 049a
नदन्नार्तस्वनं प्राणानुत्ससर्ज महाद्विपः ॥ 049c
ततो गाण्डीवधन्वानमभ्यभाषत केशवः । 050a
अयं महत्तरः पार्थ पलितेन समावृतः ॥ 050c
वलीसञ्छन्ननयनः शूरः परमदुर्जयः । 051a
अक्ष्णोरुन्मीलनार्थाय बद्धपट्टो ह्यसौ नृपः ॥ 051c
देववाक्यात्प्रचिच्छेद शरेण भृशमर्जुनः । 052a
छिन्नमात्रेंऽशुके तस्मिन्रुद्धनेत्रो बभूव सः ॥ 052c
तमोमयं जगन्मेने भगदत्तः प्रतापवान् । 053a
ततश्चन्द्रार्धबिम्बेन बाणेन नतपर्वणा ॥ 053c
बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः । 054a
स भिन्नहृदयो राजा भगदत्तः किरीटिना ॥ 054c
शरासनं शरांश्चैव गतासुः प्रमुमोच ह । 055a
शिरसस्तस्य विभ्रष्टं पपात च वरांशुकम् । 055c
नालताडनविभ्रष्टं पलाशं नलिनादिव ॥ 055e
स हेममाली तपनीयभाण्डात्पपात नागाद्गिरिसन्निकाशात् । 056a
सुपुष्पितो मारुतवेगभग्नो महीधराग्रादिव कर्णिकारः ॥ 056c
निहत्य तं नरपतिमिन्द्रविक्रमं सखायमिन्द्रस्य तदैन्द्रिराहवे । 057a
ततोऽपरांस्तव जयकाङ्क्षिणो नरान्बभञ्ज वायुर्बलवान्द्रुमानिव ॥ ॥ 057c
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे एकोनत्रिंशोऽध्यायः ॥ 29 ॥
5-29-33 एका मूर्तिर्बदरिकाश्रमे नारायणरूपा । अपरा परमात्मरूपा ॥ 5-29-34 अपरा रामकृष्णादिरूपा । अपरा जलशायिनी ॥ 5-29-48 योषिता भागुरिमते टाप् ॥ 5-29-29 एकोनत्रिंशोऽध्यायः ॥