श्रीः
अध्यायः 028
भगदत्तार्जुनसमागमः ॥ 1 ॥
सञ्जय उवाच 001
यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् । 001a
सम्प्रैषीद्धेमसञ्छन्नान्द्रोणानीकाय सन्त्वरन् ॥ 001c
तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् । 002a
सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् ॥ 002c
ततः श्वेतहयः कृष्णमब्रवीदजितञ्जयः । 003a
एष मां भ्रातृभिः सार्धं सुशर्माऽऽह्वयतेऽच्युत ॥ 003c
दीर्यते चोत्तरेणैव तत्सैन्यं मधुसूदन । 004a
द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् ॥ 004c
किन्नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् । 005a
इति मे त्वं मतं वेत्सि तत्र किं सुकृतं भवेत् ॥ 005c
एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् । 006a
येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् ॥ 006c
ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः । 007a
ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ॥ 007c
त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिराशुगैः । 008a
साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् ॥ 008c
ततो भुजगसङ्काशां सुशर्मा शक्तिमायसीम् । 009a
चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् ॥ 009c
शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः । 010a
सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तयत् ॥ 010c
तं वासवमिवायान्तं भूरिवर्षं शरौघिणम् । 011a
राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् ॥ 011c
ततो धनञ्जयो बाणैः सर्वानेव महारथान् । 012a
आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः ॥ 012c
तस्य वेगमसह्यं तं कुन्तीपुत्रस्य धीमतः । 013a
नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः ॥ 013c
संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः । 014a
सुपर्ण इव नागेन्द्रं प्रायात्प्राग्ज्योतिषं प्रति ॥ 014c
यत्तदानामयज्जिष्णुर्भरतानामपापिनाम् । 015a
धनुः क्षेमकरं सङ्ख्ये द्विषतामश्रुवर्धनम् ॥ 015c
तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः । 016a
कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः ॥ 016c
तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी । 017a
व्यशीर्यत महाराज नौरिवासाद्य पर्वतम् ॥ 017c
ततो दशसहस्राणि न्यवर्तन्त धनुष्मताम् । 018a
मतिं कृत्वा रणे क्रूरां वीरा जयपराजये ॥ 018c
व्यपेतहृदयत्रासा आवव्रुस्तं महारथाः । 019a
आर्च्छत्पार्थो गुरुं भारं सर्वभारसहो युधि ॥ 019c
यथा नलवनं क्रुद्धः प्रभिन्नः षष्टिहायनः । 020a
मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव ॥ 020c
तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः । 021a
तेन नागेन सहसा धनञ्जयमुपाद्रवत् ॥ 021c
तं रथेन नरव्याघ्रः प्रत्यगृह्णाद्धनञ्जयः । 022a
स सन्निपातस्तुमुलो बभूव नरनागयोः ॥ 022c
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च । 023a
सङ्ग्रामे चेरतुर्वीरौ भगदत्तधनञ्जयौ ॥ 023c
ततो जीमूतसङ्काशान्नागादिन्द्र इव प्रभुः । 024a
अभ्यवर्षच्छरौघेण भगदत्तो धनञ्जयम् ॥ 024c
स चापि शरवर्षं तं शरवर्षेण वासविः । 025a
अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् ॥ 025c
ततः प्राग्ज्योतिषो राजा शरवर्षे निवारिते । 026a
संरक्तनयनो रोषात्पार्थं पुनरवाकिरत् ॥ 026c
स तथा शरवर्षेण पार्थं समभिहत्य वै । 027a
चोदयामास तं नागं वधायाच्युतपार्थयोः ॥ 027c
तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् । 028a
चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः ॥ 028c
सम्प्राप्तमपि नेयेष परावृत्तं महाद्विपम् । 029a
सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनञ्जयः ॥ 029c
स तु नागो द्विपरथान्हयांश्चामृद्य मारिष । 030a
प्राहिणोन्मृत्युलोकाय ततः क्रुद्धो धनञ्जयः ॥ ॥ 030c
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे अष्टाविंशोऽध्यायः ॥ 28 ॥
5-28-16 आयच्छद्गृहीतवान् । यदेवार्जुनस्य धनुर्भरतानां क्षेमकरमासीत्तदेव त्वत्पुत्रनिमित्तं क्षत्रक्षयकरमभवदिति वाक्यार्थः || 5-28-28 अष्टाविंशोऽध्यायः ॥