श्रीः अध्यायः 027 अर्जुनेन संशप्तकानां हननम् ॥ 1 ॥ सञ्जय उवाच 001
यन्मां पार्थस्य सङ्ग्रामे कर्माणि परिपृच्छसि । 001a
तच्छृणुष्व महाबाहो पार्थो यदकरोद्रणे ॥ 001c
रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिःस्वनम् । 002a
भगदत्ते विकुर्वाणे कौन्तेयः कृष्णमब्रवीत् ॥ 002c
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन । 003a
त्वरमाणोऽभिनिष्क्रान्तो ध्रुवं तस्यैष निःस्वनः ॥ 003c
इन्द्रादनवरः सङ्ख्ये गजयानविशारदः । 004a
प्रथमो गजयोधानां पृथिव्यामिति मे मतिः ॥ 004c
स चापि द्विरदश्रेष्ठः सदाऽप्रतिगजो युधि । 005a
सर्वशस्त्रातिगः सङ्ख्ये कृतकर्मा जितक्लमः ॥ 005c
सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ । 006a
स पाण्डवबलं सर्वमद्यैको नाशयिष्यति ॥ 006c
'सिंहनादं महत्कृत्वा धनुर्बाणरवैः सह । 007a
विद्राव्यमाणं सम्पश्य हतभूयिष्ठनायकम् । 007c
दृष्ट्वा विनद्य सहसा मम सेनां प्रमृद्नति ॥' 007e
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् । 008a
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ॥ 008c
दृप्तं सङ्ख्ये द्विपबलाद्वयसा चापि विस्मितम् । 009a
अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् ॥ 009c
वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः । 010a
दीर्यते भगदत्तेन यत्र पाण्डववाहिनी ॥ 010c
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः । 011a
संशप्तकाः समारोहन्सहस्राणि चतुर्दश ॥ 011c
दशैव तु सहस्राणि त्रिगर्तानां महारथाः । 012a
चत्वारि च सहस्राणि वासुदेवस्य चानुगाः ॥ 012c
दीर्यमाणां चमूं दृष्ट्वा भगदत्तेन मानिष । 013a
आहूयमानस्य च तैरभवद्धृदयं द्विधा ॥ 013c
किन्नु श्रेयस्करं कर्म भवेदद्येत्यचिन्तयत् । 014a
इह वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् ॥ 014c
तस्य बुद्ध्या विचार्यैवमर्जुनस्य कुरूद्वह । 015a
अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा ॥ 015c
स सन्निवृत्तः सहसा कपिप्रवरकेतनः । 016a
एको रथसहस्राणि निहन्तुं वासवी रणे ॥ 016c
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः । 017a
अर्जुनस्य वधोपाये या वै द्वैधमकल्पयत् ॥ 017c
स तु दोलायमानोऽभूद्द्वैधीभावेन पाण्डवः । 018a
वधेन तु नराग्र्याणामकरोत्तां मृषा तदा ॥ 018c
ततः शतसहस्राणि शराणां नतपर्वणाम् । 019a
असृजन्नर्जुने राजन्संशप्तकमहारथाः ॥ 019c
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः । 020a
न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः ॥ 020c
तदा मोहमनुप्राप्तः सिष्विदे हि जनार्दनः । 021a
ततस्तान्प्रायशः पार्थो ब्रह्मास्त्रेण निजघ्निवान् ॥ 021c
शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः । 022a
केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ ॥ 022c
द्रुमाचलाग्राम्बुधरैः समकायाः सुकल्पिताः । 023a
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ॥ 023c
विप्रविद्धकुथा नागाश्छिन्नभाण्डाः परासवः । 024a
सारोहास्तु रणे पेतुर्मथिता मार्गणैर्भृशम् ॥ 024c
सर्ष्टिप्रासासिनखराः समुद्गरपरश्वथाः । 025a
विच्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना ॥ 025c
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष । 026a
सञ्च्छिन्नान्यर्जुनशरैः शिरांस्युर्वी प्रपेदिरे ॥ 026c
जज्वालालङ्कृता सेना पत्रिभिः प्राणिभोजनैः । 027a
नानारूपैस्तदाऽमित्रान्क्रुद्धे निघ्नति फल्गुने ॥ 027c
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव । 028a
धनञ्जयं भूतगणाः साधुसाध्वित्यपूजयन् ॥ 028c
दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः । 029a
विस्मयं परमं गत्वा प्राञ्जलिस्तमुवाच ह ॥ 029c
कर्मैतत्पार्थ शक्रेण यमेन धनदेन च । 030a
दुष्करं समरे यत्ते कृतमद्येति मे मतिः ॥ 030c
युगपच्चैव सङ्ग्रामे शतशोऽथ सहस्रशः । 031a
पतिता एव मे दृष्टाः संशप्तकमहारथाः ॥ 031c
संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः । 032a
भगदत्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत् ॥ ॥ 032c

इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे सप्तविंशोऽध्यायः ॥ 27 ॥

5-27-2 विकुर्वाणे विविधाः क्रियाः कुर्वाणे ॥ 5-27-6 सहः सोढा । पचाद्यच ॥ 5-27-9 विस्मितं रूढाहङ्कारम् ॥ 5-27-11 समारोहन्संवृतवन्तः ॥ 5-27-27 सप्तविंशोऽध्यायः ॥