श्रीः
अध्यायः 026
भगदत्तपराक्रमवर्णनम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
तेष्वेवं सन्निवृत्तेषु प्रत्युद्यातेषु भागशः । 001a
कथं युयुधिरे पार्था मामकाश्च तरस्विनः ॥ 001c
किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति । 002a
संशप्तका वा पार्थस्य किमकुर्वत सञ्जय ॥ 002c
सञ्जय उवाच 003
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः । 003a
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः ॥ 003c
स नाग इव नागेन गोवृषेणेव गोवृषः । 004a
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् ॥ 004c
स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः । 005a
अभिनत्कुञ्जरानीकमचिरेणैव मारिष ॥ 005c
ते गजा गिरिसङ्काशाः क्षरन्तः सर्वतो मदम् । 006a
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ॥ 006c
विधमेदभ्रजालानि यथा वायुः समुद्धतः । 007a
व्यधमत्तान्यनीकानि तथैव पवनात्मजः ॥ 007c
स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत । 008a
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः ॥ 008c
ते भीमबाणाभिहताः संस्यूता विबभुर्गजाः । 009a
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः ॥ 009c
तथा गजानां कदनं कुर्वाणमनिलात्मजम् । 010a
क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ॥ 010c
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः । 011a
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः ॥ 011c
स शराचितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् । 012a
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव ॥ 012c
तस्य नागं मणिमयं रत्नचित्रध्वजे स्थितम् । 013a
भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ॥ 013c
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष । 014a
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः ॥ 014c
तमापतन्तं नागेन्द्रमम्बुदप्रतिमस्वनम् । 015a
कुम्भान्तरे भीमसेनो नाराचैरार्दयद्भृशम् ॥ 015c
तस्य कायं विनिर्भिद्य न्यमज्जद्धरणीतले । 016a
ततः पपात द्विरदो वज्राहत इवाचलः ॥ 016c
तस्यावर्जितनागस्य म्लेच्छस्याधः पतिष्यतः । 017a
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः ॥ 017c
तस्मिन्निपतिते वीरे सम्प्राद्रवत सा चमूः । 018a
सम्भ्रान्ताश्वद्विपरथा पदातीनवमृद्नती ॥ 018c
तेष्वनीकेषु भग्नेषु विद्रवत्सु समन्ततः । 019a
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ॥ 019c
येन नागेन मघवानजयद्दैत्यदानवान् । 020a
तदन्वयेन नागेन भीमसेनमुपाद्रवत् ॥ 020c
स नागप्रवरो भीमं सहसा समुपाद्रवत् । 021a
श्रवणाभ्यामथो द्वाभ्यां संहतेन करेण च ॥ 021c
व्यावृत्तनयनः क्रुद्वः प्रमथन्निव पाण्डवम् । 022a
वृकोदररथं साश्वमविशेषमचूर्णयत् ॥ 022c
पद्भ्यां भीमोऽप्यथो धावंस्तस्य गात्रेष्वलीयत । 023a
जानन्नञ्जलिकावेधं नापाक्रामत पाण्डवः ॥ 023c
गात्राभ्यन्तरगो भूत्वा करेणाताडयन्मुहुः । 024a
लालयामास तं नागं वधाकाङ्क्षिणमव्ययम् ॥ 024c
कुलालचक्रवन्नागस्तदा तूर्णमथाभ्रमत् । 025a
नागायुतबलः श्रीमान्कालयानो वृकोदरम् ॥ 025c
भीमोऽपि निष्क्रम्य ततः सुप्रतीकाग्रतोऽभवत् । 026a
भीमं करेणावनम्य जानुभ्यामभ्यताडयत् ॥ 026c
ग्रीवायां वेष्टयित्वैनं स गजो हन्तुमैहत । 027a
करवेष्टं भीमसेनो भ्रमं दत्त्वा व्यमोचयत् ॥ 027c
पुनर्गात्राणि नागस्य प्रविवेश वृकोदरः । 028a
यावत्प्रतिगजायातं स्वबले प्रत्यवैक्षत । 028c
भीमोपि नागगात्रेभ्यो विनिःसृत्यापयाज्जवात् ॥ 028e
ततः सर्वस्य सैन्यस्य नादः समभवन्महान् । 029a
अहो धिङ्निहतो भीमः कुञ्जरेणेति मारिष ॥ 029c
तेन नागेन सन्त्रस्ता पाण्डवानामनीकिनी । 030a
सहसाऽभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः ॥ 030c
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् । 031a
भगदत्तं सपाञ्चाल्यः सर्वतः समवारयत् ॥ 031c
तं रथं रथिनां श्रेष्ठाः परिवार्य परन्तपाः । 032a
अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ॥ 032c
स विघातं पृषत्कानामङ्कुशेन समाहरन् । 033a
क्षणेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः ॥ 033c
तदद्भुतमपश्याम भगदत्तस्य संयुगे । 034a
तथा वृद्धस्य चरितं कुञ्जरेण विशाम्पते ॥ 034c
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् । 035a
तिर्यग्यातेन नागेन समदेनाशुगामिना ॥ 035c
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः । 036a
सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ॥ 036c
प्राग्ज्योतिषपतेर्नागः सन्निवृत्त्यापसृत्य च । 037a
पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ॥ 037c
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः । 038a
जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ॥ 038c
व्यवच्छिद्य तु राजानं भगदत्तं युधिष्ठिरः । 039a
रथानीकेन महता सर्वतः पर्यवारयत् ॥ 039c
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः । 040a
पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ॥ 040c
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् । 041a
किरतां शरवर्षाणि स नागः पर्यवर्तत ॥ 041c
ततः प्राग्ज्योतिषो राजा परिगृह्य महागजम् । 042a
प्रेषयामास सहसा युयुधानरथं प्रति ॥ 042c
'आपतन्तं च सम्प्रेक्ष्य नागं सात्वतपुङ्गवः । 043a
अविध्यत्पञ्चभिर्बाणैः शितैराशीविषोपमैः ॥' 043c
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः । 044a
अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ॥ 044c
बृहतः सैन्धवानश्वान्समुत्थाप्याथ सारथिः । 045a
तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं प्रति ॥ 045c
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् । 046a
निष्पतन्सततं सर्वान्परिचिक्षेप पार्थिवान् ॥ 046c
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः । 047a
तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो द्विपान् ॥ 047c
ते गजस्थेन काल्यन्ते भगदत्तेन पार्थिवाः । 048a
ऐरावतस्थेन यथा देवराजेन दानवाः ॥ 048c
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः । 049a
गजवाजिकृतः शब्दः सुमहान्समजायत ॥ 049c
भगदत्तेन समरे काल्यमानेषु पाण्डुषु । 050a
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ॥ 050c
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा । 051a
सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः ॥ 051c
ततस्तमभ्ययात्तूर्णं रुचिपर्वा कृतीसुतः । 052a
समघ्नञ्छरवर्षेण रथस्थोऽन्तकसन्निभः ॥ 052c
ततः स रुचिपर्वाणं शरेणानतपर्वणा । 053a
सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ॥ 053c
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुतः । 054a
चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् ॥ 054c
त एनं शरधाराभिर्धाराभिरिव तोयदाः । 055a
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ॥ 055c
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः । 056a
प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् ॥ 056c
सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् । 057a
युयुत्सुस्तु रथाद्राजन्नपाक्रामत्त्वरान्वितः ॥ 057c
ततः पाण्डवयोधास्ते नागराजं शरैर्द्रुतम् । 058a
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ॥ 058c
पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम् । 059a
स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः । 059c
बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ॥ 059e
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः । 060a
त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः ॥ 060c
'चेकितानः चतुःषष्ट्या सोत्तरायुधिकं पुनः । 061a
प्रत्यविध्यत्ततः सर्वान्भगदत्तस्त्रिभिस्त्रिभिः ॥' 061c
सोऽतियत्नार्पितैर्बाणैराचितो द्विरदो बभौ । 062a
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ॥ 062c
नियन्तुः शिल्पयत्नाभ्यां प्रेरितोऽरिशरार्दितः । 063a
परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ॥ 063c
गोपाल इव दण्डेन यथा पशुगणान्वने । 064a
सङ्कालयति तां सेनां भगदत्तस्तथा मुहुः ॥ 064c
क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः । 065a
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः ॥ 065c
स नागराजः प्रवराङ्कुशाहतः पुरा सपक्षोऽद्रिवरो यथा नृप । 066a
भयं तदा रिपुषु समादधद्भृशं वणिग्जनानां क्षुभितो यथाऽर्णवः ॥ 066c
ततो ध्वनिर्द्विरदरथाश्वपार्थिवैर्भयाद्द्रवद्भिर्जनितोऽतिभैरवः । 067a
क्षितिं वियद् द्यां विदिशो दिशस्तथा समावृणोत्पार्थिवसंयुगे ततः ॥ 067c
स तेन नागप्रवरेण पार्थिवो भृशं जगाहे द्विषतामनीकिनीम् । 068a
पुरा सुगुप्तां विबुधैरिवाहवे विरोचनो देववरूथिनीमिव ॥ 068c
भृशं ववौ ज्वलनसखो वियद्रजः समावृणोन्मुहुरपि चैव सैनिकान् । 069a
तमेकनागं गणशो यथा गजान्समन्ततो द्रुतमथ मेनिरे जनाः ॥ ॥ 069c
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे षड्विंशोऽध्यायः ॥ 26 ॥
5-26-17 आवर्जितः पतनप्रवणो नागो यस्य ॥ 5-26-21 संहतेन सङ्कुचितेन ॥ 5-26-35 तिर्यग्यातेन पार्श्वतोगामिना ॥ 5-26-39 व्यवच्छिद्य विद्ध्वा ॥ 5-26-41 पर्यवर्तत भ्रान्तवान् ॥ 5-26-45 समुत्थाप्य स्थिरीकृत्य ॥ 5-26-52 सुपर्वा पार्वतीसुतः इति क.ङ.पाठः ॥ 5-26-53 सुपर्वा शोभनाङ्गसन्धिः ॥ 5-26-67 वियदाकाशम् । द्यां स्वर्गम् ॥ 5-26-26 षड्विंशोऽध्यायः ॥