श्रीः अध्यायः 025 द्वन्द्वयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच 001
महद्भैरवमासीन्नः सन्निवृत्तेषु पाण्डुषु । 001a
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः ॥ 001c
तैश्चोद्भूतं रजस्तीव्रमवचक्रे चमूं तव । 002a
ततो हतममंस्याम द्रोणं दृष्टिपथे हते ॥ 002c
तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः । 003a
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् ॥ 003c
यथाशक्ति यथोत्साहं यथासत्वं नराधिपाः । 004a
वारयध्वं यथायोगं पाण्डवानामनीकिनीम् ॥ 004c
ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव । 005a
आराद्दृष्ट्वा किरन्बाणैरिच्छन्दोणस्य जीवितम् ॥ 005c
तं बाणेरवतस्तार क्रुद्धो मृत्युरिवाहवे । 006a
तं च भीमोऽतुदद्बाणैस्तदाऽऽसीत्तुमुलं महत् ॥ 006c
त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः । 007a
राज्यं मृत्युभयं त्यक्त्वा प्रत्यतिष्ठन्परान्युधि ॥ 007c
कृतवर्मा शिनेः पौत्रं द्रोणं प्रेप्सुं विशाम्पते । 008a
पर्यवारयदायान्तं शूरं समरशोभिनम् ॥ 008c
तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् । 009a
कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् ॥ 009c
सैन्धवः क्षत्रवर्माणमायान्तं निशितैः शरैः । 010a
उग्रधन्वा महेष्वासं यत्ततो द्रोणादवारयत् ॥ 010c
क्षत्रवर्मा सिन्धुपतेश्छित्त्वा केततनकार्मुके । 011a
नाराचैर्दशभिः क्रुद्धः सर्वमर्मस्वताडयत् ॥ 011c
अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् । 012a
विव्याध क्षत्रवर्माणं रणे सर्वायसैः शरैः ॥ 012c
युयुत्सुं पाण्डवार्थाय यतमानं महारथम् । 013a
सुबाहुर्भारतं शूरं यत्तो द्रोणादवारयत् ॥ 013c
सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ । 014a
युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ ॥ 014c
राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् । 015a
वेलेव सागरं क्षुब्धं मद्रराट् समवारयत् ॥ 015c
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत् । 016a
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वाऽनदद्भृशम् ॥ 016c
तस्य नानदतः केतुमुच्चकर्त च कार्मुकम् । 017a
क्षुराभ्यां पाण्डवो ज्येष्ठस्तत उच्चुक्रुशुर्जनाः ॥ 017c
तथैव राजा बाह्लीको राजानं द्रुपदं शरैः । 018a
आद्रवन्तं सहानीकः सहानीकं न्यवारयत् ॥ 018c
तद्युद्धमभवद्धोरं वृद्धयोः सहसेनयोः । 019a
यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः ॥ 019c
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् । 020a
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् ॥ 020c
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् । 021a
मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् ॥ 021c
नाकुलिं तु शतानीकं भूतकर्मा सभापतिः । 022a
अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् ॥ 022c
ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः । 023a
चक्रे विबाहुशिरसं भूतकर्माणमाहवे ॥ 023c
सुतसोमं तु विक्रान्तमायान्तं तं शरौघिणम् । 024a
द्रोणायाभिमुखं वीरं साल्वो बाणैरवारयत् ॥ 024c
स तु भीमरथः साल्वमाशुगैरायसैः शितैः । 025a
षड्भिः साश्वनियन्तारमनयद्यमसादनम् ॥ 025c
श्रुतकीर्तिं समायान्तं मयूरसदृशैर्हयैः । 026a
चित्रसेनो महाराज तव पौत्रं न्यवारयत् ॥ 026c
तमार्जुनिः शरैश्चक्रे पितृव्यं जर्झरच्छविम् । 027a
शरैश्च द्रौपदीपुत्रं चित्रसेनः समावृणोत् ॥ 027c
किरन्तं शरजालानि प्रभिन्नमिव कुञ्जरम् । 028a
श्रुतकर्माणमायान्तं दौश्शासनिरवारयत् ॥ 028c
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ । 029a
पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् ॥ 029c
तिष्ठन्तमग्रे तं दृष्ट्वा प्रतिविन्ध्यं महाहवे । 030a
द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् ॥ 030c
तं क्रुद्धं प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः । 031a
सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् ॥ 031c
प्रवपन्निव बीजानि बीजकाले कृषीवलः । 032a
द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् ॥ 032c
यस्तु शूरतमो राजन्नुभयोः सेनयोर्मतः । 033a
तं पटच्चरहन्तारं लक्ष्मणः समवारयत् ॥ 033c
स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत । 034a
लक्ष्मणे शरजालानि विसृजन्बह्वशोभत ॥ 034c
ततोऽभिमन्युः कर्माणि कुर्वन्तं चित्रयोधिनम् । 035a
आर्जुनिः कृतिनं शूरं लक्ष्मणं समयोधयत् ॥ 035c
स सम्प्रहारस्तुमुलस्तयोरासीन्महात्मनोः । 036a
श्रोतॄणामीक्षितॄणां च भृशं प्रीतिविवर्धनः ॥ 036c
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् । 037a
पर्यवारयदायान्तं युवानं समरे युवा ॥ 037c
ततस्तमिषुजालेन याज्ञसेनिः समावृणोत् । 038a
विधूय तद्बाणजालं बभौ तव सुतो बली ॥ 038c
अङ्गदोऽभिमुखं वीरमुत्तमौजसमाहवे । 039a
द्रोणायाभिमुखं यान्तं शरौघेण न्यवारयत् ॥ 039c
स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः । 040a
सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः ॥ 040c
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली । 041a
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् ॥ 041c
स दुर्मुखं भ्रुवोर्मध्ये नाराचेनाभ्यताडयत् । 042a
तस्य तद्धि बभौ वक्त्रं सनालमिव पङ्कजम् ॥ 042c
कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान् । 043a
द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् ॥ 043c
ते चैनं भृशसन्तप्ताः शरवर्षैरवाकिरन् । 044a
स च तांश्छादयामास शरजालैः पुनः पुनः ॥ 044c
नैव कर्णो न ते पञ्च ददृशर्बाणसंवृताः । 045a
साश्वसूतध्वजरथाः परस्परशराचिताः ॥ 045c
पुत्रास्ते दुर्जयश्चैव जयश्च विजयश्च ह । 046a
नीलकाश्यजयत्सेनांस्त्रयस्त्रीन्प्रत्यवारयन् ॥ 046c
तद्युद्धमभवद्धोरमीक्षितृप्रीतिवर्धनम् । 047a
सिंहव्याघ्रतरक्षूणां यथर्क्षमहिषर्षभैः ॥ 047c
क्षेमधूर्तिबृहन्तौ तु भ्रातरौ सात्वतं युधि । 048a
द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः ॥ 048c
तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् । 049a
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने । 049c
राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम् । 050a
चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् ॥ 050c
ततोऽम्बष्ठोऽस्थिभेदिन्या निरभिद्यच्छलाकया । 051a
स त्यक्त्वा सशरं चापं रथाद्भूमिमुपागमत् ॥ 051c
वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः । 052a
अक्षुद्रः क्षुद्रकैर्बाणैः क्रुद्धरूपमवारयत् ॥ 052c
युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ । 053a
ते युद्धासक्तमनसो नान्यं बुबुधिरे क्रियाम् ॥ 053c
सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम् । 054a
पर्यवारयदायान्तं यशो द्रोणस्य वर्घयन् ॥ 054c
स सौमदत्तेस्त्वरितश्चित्रेष्वसनकेतने । 055a
पुनः पताकां सूतं चच्छत्रं चापातयद्रथात् ॥ 055c
अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा । 056a
साश्वसूतध्वजरथं तं चकर्त वरासिना ॥ 056c
रथं च स्वं समास्थाय धनुरादाय चापरम् । 057a
स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् ॥ 057c
पाण्ड्यमिन्द्रमिवायान्तमसुरान्प्रति दुर्जयम् । 058a
समर्थः सायकौघेन वृषसेनो न्यवारयत् ॥ 058c
'अथाजगाम हैडिम्बो महामायो महाबलः । 059a
पितॄणां हितमन्विच्छन्दहन्कौरववाहिनीम्' ॥ 059c
गदापरिघनिस्त्रिंशपट्टसायोघनोपलैः । 060a
कडङ्गरैर्भुशुण्डीभिः प्रासैस्तोमरसायकैः ॥ 060c
मुसलैर्मुद्गरैश्चक्रैर्न्भिण्डिपालपरश्वथैः । 061a
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः ॥ 061c
आतुदन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन् । 062a
सेनां विभीषयन्नायाद्दोणप्रेप्सुर्घटोत्कचः ॥ 062c
तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः । 063a
राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः ॥ 063c
तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः । 064a
तादृग्यादृक्पुरावृत्तं शम्बरामरराजयोः ॥ 064c
एवं द्वन्द्वशतान्यासन्रथवारणवाजिनाम् । 065a
पदातीनां च भद्रं ते तव तेषां च सङ्कुले ॥ 065c
नैतादृशो दृष्टपूर्वः सङ्ग्रामो नैव च श्रुतः । 066a
द्रोणस्याभावभावे तु प्रसक्तानां परस्परम् ॥ 066c
इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो । 067a
तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च ॥ ॥ 067c

इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे पञ्चविंशोऽध्यायः ॥ 25 ॥

5-25-1 भीरोर्भावो भैरवं भयमिति यावत् ॥ 5-25-2 दृष्टिपथे गते इति ङ पाठः ॥ 5-25-7 बाह्यं मृत्युभयं इति क.ङ.पाठः ॥ 5-25-21 उत्पिञ्जलकमत्यन्ताकुलम् । तदद्भुततमं युद्धं इति क.ङ.पाठः ॥ 5-25-22 भूतकर्मा सभापतिरिति द्विनामा ॥ 5-25-25 भीमरथो राजभ्राता ॥ 5-25-45 ददृशुः ददृशिरे ॥ 5-25-51 शलाकया शङ्कुना ॥ 5-25-60 अयोघाना कडङ्गरैर्दण्डैः ॥ 5-25-62 आतुदन् व्यथयन् । प्ररुजन्विध्यन् । भञ्जन् आमर्दयन् । निघ्नन् मारयन् । विद्रावयन्पलाययन् । क्षिपन्प्रेरयन् ॥ 5-25-66 आभावभावे मारणे रक्षणे च ॥ 5-25-25 पञ्चविंशोऽध्यायः ॥ 25 ॥