श्रीः
अध्यायः 023
धृतराष्ट्र उवाच 001
सर्वेषामेव मे ब्रूहि रथचिह्वानि सञ्जय । 001a
ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः । 001c
'तान्यहं श्रोतुमिच्छामि विस्तरेण पृथक्पृथक् ॥ 001e
दूयते मे मनस्तात द्रोणं प्रति परन्तपम् । 002a
श्रुत्वा भीष्मस्य निधनं तद्वदेतद्भविष्यति' ॥ 002c
सञ्जय उवाच 003
ऋक्षवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम् । 003a
रजताश्वस्ततः शूरः शैनेयः सन्न्यवर्तत ॥ 003c
सारङ्गाश्वो युधामन्युः स्वयं प्रत्वरयन्हयान् । 004a
पर्यवर्तत दुर्धर्षः क्रुद्धो द्रोणरथं प्रति ॥ 004c
पारावतसवर्णैस्तु हेमभाण्डैर्महाजवैः । 005a
पाञ्चालराजस्य सुतो धृष्टद्युम्नो न्यवर्तत ॥ 005c
पितरं तु परिप्रेप्सुः क्षत्रधर्मा यतव्रतः । 006a
सिद्धिं चास्य परां काङ्क्षञ्शोणाश्वः सन्न्यवर्तत ॥ 006c
पद्मपत्रनिभांश्चाश्वान्मल्लिकाक्षान्स्वलङ्कृतान् । 007a
शैखण्डिः क्षत्रदेवस्तु स्वयं प्रत्वरयन्ययौ ॥ 007c
दर्शनीयास्तु काम्भोजाः शुकपत्रपरिच्छदाः । 008a
वहन्तो नकुलं शीघ्रं तावकानाभिदुद्रुवुः ॥ 008c
कृष्णास्तु मेघसङ्काशा अवहन्नुत्तमौजसम् । 009a
दुर्धर्षायाभिसन्धाय क्रुद्धं युद्धाय भारत ॥ 009c
तथा तित्तिरिकल्माषा हया वातसमा जवे । 010a
अवहंस्तुमुले युद्धे सहदेवमुदायुधम् ॥ 010c
दन्तवर्णास्तु राजानं कालवाला युधिष्ठिरम् । 011a
भीमवेगा नरव्याघ्रमवहन्वातरंहसः ॥ 011c
हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे । 012a
अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम् ॥ 012c
राज्ञस्त्वनन्तरो राजा पाञ्चाल्यो द्रुपदोऽभवत् । 013a
जातरूपमयच्छत्रः सर्वैस्तैरभिरक्षितः ॥ 013c
ललामैर्हरिभिर्युक्तः सर्वशब्दक्षमैर्युधि । 014a
राज्ञं मध्ये महेष्वासः शान्तभीरभ्यवर्तत ॥ 014c
तं विराटोऽन्वयाच्छीघ्रं सह सर्वैर्महारथैः । 015a
केकयाश्च सिखण्डी च धृष्टकेतुस्तथैव च । 015c
स्वैः स्वैः सैन्यैः परिवृता मात्स्यराजानमन्वयुः ॥ 015e
तं तु पाटलिपुष्पाणां समवर्णा हयोत्तमाः । 016a
वहमाना व्यराजन्त मास्त्यस्यामित्रघातिनः ॥ 016c
हरिद्रासमवर्णास्तु जवना हेममालिनः । 017a
पुत्रं विराटराजस्य सत्वरं समुदावहन् ॥ 017c
इन्द्रगोपकवर्णैश्च भ्रातरः पञ्च केकयाः । 018a
जातरूपसमाभासाः सर्वे लोहितकध्वजाः ॥ 018c
ते हेममालिनः शूराः सर्वे युद्धविशारदाः । 019a
वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः ॥ 019c
आमपात्रनिकाशास्तु पाञ्चाल्यममितौजसम् । 020a
दत्तास्तुम्बुरुणा दिव्याः शिखण्डिनमुदावहन् ॥ 020c
तथा द्वादशसाहस्राः पाञ्चालानां महारथाः । 021a
तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः ॥ 021c
पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष । 022a
आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः ॥ 022c
धृष्टकेतुस्तु चेदीनामृषभोऽतिबलोदितः । 023a
काम्भोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः ॥ 023c
बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः । 024a
पलालधूमसङ्काशाः सैन्धवाः शीघ्रमावहन् ॥ 024c
मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलङ्कृताः । 025a
शूरं शिखण्डिनः पुत्रमृक्षदेवमुदावहन् ॥ 025c
रुक्मभाण्डप्रतिच्छन्नाः कौशेयसदृशा हयाः । 026a
क्षमावन्तोऽवहन्सङ्ख्ये सेनाबिन्दुमरिन्दमम् ॥ 026c
युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः । 027a
काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् ॥ 027c
श्वेतास्तु प्रतिविन्ध्यन्तं कृष्णग्रीवा मनोजवाः । 028a
यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन् ॥ 028c
सुतसोमं तु योधाग्र्यं भीमपुत्रं महाबलम् । 029a
माषपुष्पसवर्णास्तमवहन्वाजिनो रणे ॥ 029c
सहस्रसोमप्रतिमो बभूव पुरे कुरूणामुदयेन्दुनाम्नि । 030a
तस्मिञ्जातः सोमसङ्क्रन्दमध्ये यस्मात्तस्मात्सुतसोमोऽभवत्सः ॥ 030c
नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः । 031a
आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन् ॥ 031c
काञ्चनापिहितैर्योक्त्रैर्मयूरग्रीवसन्निभाः । 032a
द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमाहवे ॥ 032c
श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः । 033a
ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः ॥ 033c
यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे । 034a
अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे ॥ 034c
एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः । 035a
तं बृहन्तो महाकाया युयुत्सुमवहन्रणे । 035c
'ये तु पुष्करसारस्य तुल्यवर्णा हयोत्तमाः' ॥ 035e
पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् । 036a
ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलङ्कृताः ॥ 036c
कुमारं शितिपादास्तु रुक्मचित्रैरुरश्छदैः । 037a
सौचित्तिमवहद्युद्धे यन्तुः प्रेष्यकरा हयाः ॥ 037c
रुक्मपीठावकीर्णास्तु कौशेयसदृशा हयाः । 038a
सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् ॥ 038c
रुक्ममालाधराः शूरा हेमपृष्ठाः स्वलङ्कृताः । 039a
काशिराजं नरश्रेष्ठं श्लाघनीयमुदावहन् ॥ 039c
अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम् । 040a
तं सत्यधृतिमायान्तमरूणाः समुपावहन् ॥ 040c
यः स पाञ्चालसेनानीद्रोणमंशमकल्पयत् । 041a
पारावतसवर्णास्तं धृष्टद्युम्नमुदावहन् ॥ 041c
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः । 042a
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ 042c
युक्तैः परमकाम्भोजैर्जवनैर्हेममालिभिः । 043a
भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः ॥ 043c
प्रभद्रकास्तु काम्भोजाः षट्सहस्राण्युदायुधाः । 044a
नानावर्णैर्हयैः श्रेष्ठैर्हेमवर्णरथध्वजाः ॥ 044c
शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः । 045a
समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः ॥ 045c
बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः । 046a
ऊहुरम्लानमनसश्चेकितानं हयोत्तमाः ॥ 046c
इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः । 047a
आयात्सदश्वैः पुरुजिन्मातुलः सव्यसाचिनः ॥ 047c
अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव । 048a
राजानं रोचमानं ते हयाः सङ्ख्ये समावहन् ॥ 048c
कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः । 049a
जारासन्धिं हयाः श्रेष्ठाः सहदेवमुदावहन् ॥ 049c
ये तु पुष्करनालस्य समवर्णा हयोत्तमाः । 050a
जवे श्येनसमाश्चित्राः सुदामानमुदावहन् ॥ 050c
शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः । 051a
पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् ॥ 051c
पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः । 052a
तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः ॥ 052c
माषवर्णाश्च जवना बृहन्तो हेममालिनः । 053a
दधिपृष्ठाश्चित्रमुखाः पाञ्चाल्यमवहन्द्रुतम् ॥ 053c
शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः । 054a
पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् ॥ 054c
रासभारुणवर्णाभाः पृष्ठतो मूषिकप्रभाः । 055a
वल्गन्त इव संयत्ता व्याघ्रदत्तमुदावहन् ॥ 055c
हरयः कालकाश्चित्राश्चित्रमाल्यविभूषिताः । 056a
सुधन्वानं नरव्याघ्रं पाञ्चाल्यं समुदावहन् ॥ 056c
इन्द्राशनिसमस्पर्शा इन्द्रगोपकसन्निभाः । 057a
काये चित्रान्तराश्चित्राश्चित्रायुधमुदावहन् ॥ 057c
बिभ्रतो हेपमालास्तु चक्रवाकोदरा हयाः । 058a
कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् ॥ 058c
शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः । 059a
युद्धे सत्यधृतिं क्षेमिमवहन्प्रांशवः शुभाः ॥ 059c
एकवर्णेन सर्वेण ध्वजेन कवचेन च । 060a
अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत ॥ 060c
समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् । 061a
अश्वाः शशाङ्कसदृशाश्चन्द्रसेनमुदावहन् ॥ 061c
नीलोत्पलसवर्णास्तु तपनीयविभूषिताः । 062a
शैब्यं चित्ररथं सङ्ख्ये चित्रमाल्याऽवहन्हयाः ॥ 062c
कलायपुष्पवर्णास्तु श्वेतलोहितराजयः । 063a
रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम् ॥ 063c
यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् । 064a
तं पटच्चरहन्तारं शुकवर्णाऽवहन्हयाः ॥ 064c
चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् । 065a
ऊहुः किंशुकपुष्पाणां समवर्णा हयोत्तमाः ॥ 065c
एकवर्णेन सर्वेण ध्वजेन कवचेन च । 066a
धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत ॥ 066c
नानारूपै रत्नचिह्नैर्वरूथरथकार्मुकैः । 067a
वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत ॥ 067c
ये तु पुष्करवर्णस्य तुल्यवर्णा हयोत्तमाः । 068a
ते रोचमानस्य सुतं हेमवर्णमुदावहन् ॥ 068c
योधाश्च भद्रकाराश्च शरदण्डानुदण्डयः । 069a
श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुं हयाऽवहन् ॥ 069c
केशवे न हते सङ्ख्ये पितर्यथ नराधिपे । 070a
भिन्ने कपाटे पाण्डानां विद्रुतेषु च बन्धुषु ॥ 070c
भीष्मादवाप्य चास्त्राणि द्रोणाद्रामात्कृपात्तथा । 071a
अस्त्रैः समत्वं सम्प्राप्य रुक्मिकर्णार्जुनाच्युतैः ॥ 071c
इयेष द्वारकां हन्तुं कृत्स्नां जेतुं च मेदिनीम् । 072a
निवारितस्ततः प्राज्ञैः सुहृद्भिर्हितकाम्यया ॥ 072c
वैरानुबन्धमुत्सज्य स्वराज्यमनुशास्ति यः । 073a
स सागरध्वजः पाण्ड्यश्चन्द्ररश्मिनिभैर्हयैः ॥ 073c
वैडूर्यजालसञ्छन्नैर्वीर्यद्रविणमाश्रितः । 074a
दिव्यं विस्फारयंश्चापं द्रोणमभ्यद्रवद्बली ॥ 074c
आरकूटकवर्णाश्च हयाः पाण्ड्यानुयायिनाम् । 075a
अवहन्रथमुख्यानामयुतानि चतुर्दश ॥ 075c
नानावर्णेन रूपेण नानाकृतिमुखा हयाः । 076a
रथचक्रध्वजं वीरं घटोत्कचमुदावहन् ॥ 076c
भारतानां समेतानामुत्सृज्यैको मतानि यः । 077a
गतो युधिष्ठिरं भक्त्या त्यक्त्वा सर्वमभीप्सितम् ॥ 077c
लोहिताक्षं महाबाहुं युयुत्सुं मकरध्वजम् । 078a
महासत्वा महाकायाः सौवर्णस्यन्दने स्थितम् ॥ 078c
सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् । 079a
राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः ॥ 079c
वर्णैरुच्चावचैरन्यैः सदश्वानां प्रभद्रकाः । 080a
सन्न्यवर्तन्त युद्धाय बहवो देवरूपिणः ॥ 080c
ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः । 081a
प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः ॥ 081c
अत्यरोचत तान्सर्वान्धृष्ठद्युम्नः समागतान् । 082a
सर्वाण्यति च सैन्यानि भारद्वाजो व्यरोचत ॥ 082c
अतीव शुशुभे तस्य ध्वजः कृष्णाजिनोत्तरः । 083a
कमण्डलुर्महाराज जातरूपमयः शुभः ॥ 083c
ध्वजं तु भीमसेनस्य वै2डूर्यमणिलोचनम् । 084a
भ्राजमानं महासिंहं राजन्तं दृष्टवानहम् ॥ 084c
ध्वजं तु कुरुराजस्य पाण्डवस्य महौजसः । 085a
दृष्टवानस्मि सौवर्णं सोमं ग्रहगणान्वितम् ॥ 085c
मृदङ्गौ चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ । 086a
यन्त्रेणाहन्यमानौ च सुस्वनौ हर्षवर्धनौ ॥ 086c
शरभं पृष्ठसौवर्णं नकुलस्य महाध्वजम् । 087a
अपश्याम रथेत्युग्रं भीषयाणमवस्थितम् ॥ 087c
हंसस्तु राजतः श्रीमान्ध्वजे घण्टापताकवान् । 088a
सहदेवस्य दुर्धर्षो द्विषतां शोकवर्धनः ॥ 088c
पञ्चानां द्रौपदेयानां प्रतिमाध्वजभूषणम् । 089a
धर्ममारुतशक्राणामश्विनोश्च महात्मनोः ॥ 089c
अभिमन्योः कुमारस्य शार्ङ्गपक्षी हिरण्मयः । 090a
रथे ध्वजवरो राजंस्तप्तचामीकरोज्ज्वलः ॥ 090c
घटोत्कचस्य राजेन्द्र ध्वजे गृध्रो व्यरोचत । 091a
अश्वाश्च कामगास्तस्य रावणस्य पुरा यथा ॥ 091c
माहेन्द्रं च धनुर्दिव्यं धर्मराजे युधिष्ठिरे । 092a
वायव्यं भीमसेनस्य धनुर्दिव्यमभून्नृप ॥ 092c
त्रैलोक्यरक्षणार्थाय ब्रह्मणा सृष्टमायुधम् । 093a
तद्दिव्यमजरं चैव फाल्गुनार्थाय वै धनुः ॥ 093c
वैष्णवं नकुलायाथ सहदेवाय चाश्चिजम् । 094a
घटोत्कचाय पौलस्त्यं धनुर्दिव्यं भयामकम् ॥ 094c
रौद्रमाग्नेयकौबेरं याम्यं गिरिशमेव च । 095a
पञ्चानां द्रौपदेयानां धनूरत्नानि भारत ॥ 095c
रौद्रं धनुर्वरं श्रेष्ठं लेभे यद्रोहिणीसुतः । 096a
तत्तुष्टः प्रददौ रामः सौभद्राय महात्मने ॥ 096c
एते चान्ये च बहवो ध्वजा हेमविभूषिताः । 097a
तत्रादृश्यन्त शूराणां द्विषतां शोकवर्धनाः ॥ 097c
तदभूद्ध्वजसम्बाधमकापुरुषसेवितम् । 098a
द्रोणानीकं महाराज पटे चित्रमिवार्पितम् ॥ 098c
शुश्रुवुनार्मगोत्राणि वीराणां संयुगे तदा । 099a
द्रोणमाद्रवतां राजन्स्वयंवर इवाहवे ॥ ॥ 099c
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे त्रयोविंशोऽध्यायः ॥ 23 ॥
5-23-1 रथचिह्नानि हयान् ध्वजांश्चेत्यर्थः ॥ 5-23-3 व्यायच्छन्तं निवर्तमानम् ॥ 5-23-4 सितनीलारुणो वर्णः सारङ्गसदृशश्च सः ॥ 5-23-5 पारावतकपोताभः सितनीलसमन्वयात् ॥ 5-23-6 शोणः कोकनदच्छविः ॥ 5-23-7 मल्लिकाक्षान्निर्मलेक्षणान् ॥ 5-23-8 महाललाटजधनस्कन्धवक्षोजवा हयाः । दीर्घग्रीवायता हस्वमुष्काः काम्भोजकाः स्मृताः । शुकपत्रपरिच्छदाः शुकपत्राभरोमाणः ॥ 5-23-11 दन्तवर्णः गजदन्तगौराः ॥ 5-23-14 श्वेतं ललाटमध्यश्थं तारारूपं हयस्य यत् । ललामं चापि तत्प्राहुर्ललामोऽश्वस्तदन्वितः । सकेसराणि रोमाणि सुवर्णभानि यस्य तु । हरिःस स वर्णतोऽश्वस्तु पीतकौशेयसन्निभः ॥ 5-23-16 पाटलिपुष्पाणां समवर्णाः श्वेतरक्ताः ॥ 5-23-17 विराटराजस्य पुत्र उत्तरम् ॥ 5-23-20 आमपात्रनिकाशाः मलिनश्वेताः ॥ 5-23-26 क्षमावन्तो विनीताः ॥ 5-23-28 प्रेष्यकराः इच्छानुविधायिनः ॥ 5-23-30 सहस्रसोमप्रतिमः सोमसहस्रसमः सौम्यतम इत्यर्थः । तस्मिन् उदयेन्दुनाम्नि उदयेन्दुपर्याये पुरे शक्रप्रस्थ एव सोमसङ्क्रन्दः सोमाभिषवणं तस्य मध्ये । तमधिकृत्य तत्फेनेनेत्यर्थस्तस्माद्धोतोः ॥ 5-23-31 शालपुष्पनिभाः रक्तपीताः ॥ 5-23-32 योक्त्रैराबन्धैः । मयूरग्रीवो मरकतविशेषः ॥ 5-23-34 पिशङ्गाः कपिलाः ॥ 5-23-36 पलालकाण्डो निष्फलव्रीहिदण्डस्तद्वर्णाः ॥ 5-23-37 रुक्मपीठेन रुक्मवर्णेन पीठेन पृष्ठेनावकीर्णा व्याप्ताः ॥ 5-23-40 अरुणा अव्यक्तरागाः ॥ 5-23-41 धृष्टद्युम्नस्य पुनर्वचनं द्रोणहन्तृत्वदृढीकरणार्थम् ॥ 5-23-46 बभ्रुकौशेयवर्णाः पिङ्गगौराः ॥ 5-23-47 इन्द्रायुधसवर्णैंस्त्रिवर्णैः ॥ 5-23-48 अन्तरिक्षसवर्णा नीलाः ॥ 5-23-49 कर्बुराश्चित्राः ॥ 5-23-53 माषवर्णाः मलिनश्यामाः ॥ 5-23-54 भद्रकाः शोभनशिरसः । शरकाण्डनिभाः सितगौराः ॥ 5-23-55 रासभारुणवर्णाभा अरुणमलिनाः । मूषिकप्रभाः मलिनश्वेताः ॥ 5-23-56 कालकाः कृष्णमस्तकाः ॥ 5-23-57 चित्रान्तरा विचित्रावकाशाः । चित्रा अद्भुतदर्शनाः ॥ 5-23-58 चक्रवाकोदरा ईषच्छ्वेताः ॥ 5-23-63 कलायपुष्पवर्णाः मिश्रश्यामाः ॥ 5-23-64 पटच्चराणामसुरविशेषाणां हन्तारं समुद्राधिपम् ॥ 5-23-69 योधा युद्धक्षमाः । भद्रकाराः शोभनक्रियाः । शरदण्डः शरप्रकाण्ड इव अनुदण्डिः पृष्ठवंशो येषाम् । सितगौरपृष्ठा इत्यर्थः ॥ 5-23-70 कपाटे नगरविशेषे ॥ 5-23-75 आटरूषकवर्णाभाः इति झ पाठः । तत्र आटरूषकस्य वासकस्य कुसुमं तद्वर्णसदृशवर्णा इत्यर्थः ॥ 5-23-78 हया अवहन् इति पूर्वस्मादनुकृष्यते ॥ 5-23-79 सुवर्णवर्णा इति पूर्वोत्तरान्वयि ॥ 5-23-86 नन्दोपनन्दकौ नाम्ना ॥ 5-23-23 त्रयोविंशोऽध्यायः ॥