श्रीः
अध्यायः 022
द्रोणपराक्रमहृष्टेन दुर्योधनेन कर्णं सम्बोध्य भीमसेनाद्यवज्ञाने कृते कर्णेन भीमादीनां प्रशंसनपूर्वकमनवज्ञेयत्वकथनम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे । 001a
पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत ॥ 001c
आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् । 002a
असेवितां कापुरुषैः सेवितां पुरुषर्षभैः ॥ 002c
स हि वीरोन्नतः शूरो यो भग्नेषु निवर्तते । 003a
अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् ॥ 003c
जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् । 004a
त्यजन्तमाहवे प्राणान्सन्नद्धं चित्रयोधिनम् ॥ 004c
महेष्वासं नरव्याघ्रं द्विषतां भयवर्धनम् । 005a
कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् ॥ 005c
भारद्वाजं तथाऽनीके दृष्ट्वा शूरमवस्थितम् । 006a
के शूराः सन्न्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥ 006c
सञ्जय उवाच 007
तान्दृष्ट्वा चलितान्सङ्ख्ये प्रणुन्नान्द्रोणसायकैः । 007a
पाञ्चालान्पाण्डवान्मात्स्यान्सृञ्जयांश्चेदिकेकयान् ॥ 007c
द्रोणचापविमुक्तेन शरौघेणाशु हारिणा । 008a
सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान् ॥ 008c
कौरवाः सिंहनादेन नानावाद्यस्वनेन च । 009a
रथद्विपनरांश्चैव सर्वतः समवारयन् ॥ 009c
तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः । 010a
दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव ॥ 010c
दुर्योधन उवाच 011
पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः । 011a
सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना ॥ 011c
नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः । 012a
यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः ॥ 012c
अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना । 013a
पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः ॥ 013c
सन्निरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना । 014a
एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः ॥ 014c
भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः । 015a
अन्योन्यं समलीयन्त पलायनपरायणाः ॥ 015c
एष भीमो महाक्रोधी हीनः पाण्डवसृञ्जयैः । 016a
मदीयैरावृतो योधैः कर्ण नन्दयतीव माम् ॥ 016c
व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः । 017a
निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः ॥ 017c
कर्ण उवाच 018
नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् । 018a
न चेमान्पुरुषव्याघ्र सिंहनादान्सहिष्यति ॥ 018c
न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः । 019a
शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः ॥ 019c
विषाग्निद्यूतसङ्क्लेशान्वनवासं च पाण्डवाः । 020a
स्मरमाणा न हास्यन्ति सङ्ग्राममिति मे मतिः ॥ 020c
निवृत्तो हि महाबाहुरमितौजा वृकोदरः । 021a
वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति ॥ 021c
असिना धनुषा शक्या हयैर्नागैर्नरै रथैः । 022a
आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति ॥ 022c
तमेनमनुवर्तन्ते सात्यकिप्रमुखा रथाः । 023a
पाञ्चालाः केकया मास्त्याः पाश्डवाश्च विशेषतः ॥ 023c
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः । 024a
विनिघ्नन्तश्च भीमेन संरब्धेनाभिचोदिताः ॥ 024c
ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः । 025a
वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव ॥ 025c
'समरेषु तु निर्दिष्टाः पाण्डवाः कृष्णबान्धवाः । 026a
पाञ्चालाः केकया मात्स्याः पाण्डवेयाश्च सर्वशः ॥ 026c
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः । 027a
ह्रीमन्तः शत्रुमरणे निपुणाः पुण्यलक्षणाः ॥ 027c
बहवः पार्थिवा राजंस्तेषां वशगता रणे । 028a
मावमंस्थाः पाण्डवांस्त्वं नारायणपुरोगमान् ॥ 028c
एकायनगता ह्येते पीडयेयुर्यतव्रतम् । 029a
अरक्षमाणं शलभा यथा दीपं मुमूर्षवः ॥ 029c
असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे । 030a
अतिभारमहं मन्ये भारद्वाजे समाहितम् ॥ 030c
ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः । 031a
कोका इव महानागं मा वै हन्युर्यतव्रतम् ॥ 031c
सञ्जय उवाच 032
राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्ततः । 032a
भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति ॥ 032c
तत्रारावो महानासीदेकं द्रोणं जिघांसताम् । 033a
पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः ॥ ॥ 033c
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे द्वाविंशोऽध्यायः ॥ 22 ॥
5-22-1 अभ्यवर्तत किम् ॥ 5-22-31 कोको वृकः ॥ 5-22-22 द्वाविंशोऽध्यायः ॥