श्रीः
अध्यायः 021
युधिष्ठिरं जिघृक्षतो द्रोणस्य सत्यजिता निरोधः ॥ 1 ॥ द्रोणेन सत्यजिति निहते भयाद्युधिष्ठिरस्यापयानम् ॥ 2 ॥ पुनर्युधिष्ठिरं जिघृक्षुणा द्रोणेन पाञ्चाल्यादीनां हननम् ॥ 3 ॥
सञ्जय उवाच 001
ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम् । 001a
महता शरवर्षेण प्रत्यगृह्णादभीतवत् ॥ 001c
ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले । 002a
जिघृक्षति महासिंहे गजानामिव यूथपम् ॥ 002c
दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः । 003a
युधिष्ठिरमभिप्रेप्सुराचार्यं समुपाद्रवत् ॥ 003c
तत आचार्यपाञ्चाल्यौ युयुधाते महाबलौ । 004a
विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव ॥ 004c
ततो द्रोणं महेष्वासः सत्यजित्सत्यविक्रमः । 005a
अविध्यन्निशिताग्रेण परमास्त्रं विदर्शयन् ॥ 005c
तथास्य सारथेः पञ्च शरान्सर्पविषोपमान् । 006a
अमुञ्चदन्तकप्रख्यान्सम्मुमोहास्य सारथिः ॥ 006c
अथास्य सहसाऽविध्यद्धयान्दशभिराशुगैः । 007a
दशभिर्दशभिः क्रुद्ध उभौ च पार्ष्णिसारथी ॥ 007c
मण्डलं तु समावृत्य विचरन्पृतनामुखे । 008a
ध्वजं चिच्छेद च क्रुद्धो द्रोणस्यामित्रकर्षणः ॥ 008c
द्रोणस्तु तत्समालोक्य चरितं तस्य संयुगे । 009a
मनसा चिन्तयामास प्राप्तकालमरिन्दमः ॥ 009c
ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदभिः । 010a
अविध्यच्छीघ्रमाचार्यश्छित्त्वाऽस्य सशरं धनुः ॥ 010c
स शीघ्रतरमादाय धनुरन्यत्प्रतापवान् । 011a
द्रोणमभ्यहनद्राजंस्त्रिंशता कङ्कपत्रिभिः ॥ 011c
दृष्ट्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे । 012a
वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमार्दयत् ॥ 012c
सञ्छाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् । 013a
चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह ॥ 013c
वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे । 014a
विव्याध बलवान्राजंस्तदद्भुतमिवाभवत् ॥ 014c
द्रोणस्तु शरवर्षेण च्छाद्यमानो महारथः । 015a
वेगं चक्रे महावेगः क्रोधादुद्धृत्य चक्षुषी ॥ 015c
ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च । 016a
षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम् ॥ 016c
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् । 017a
साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम् ॥ 017c
स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दितो मृधे । 018a
ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान् ॥ 018c
हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी । 019a
अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः ॥ 019c
तथा सञ्छिद्यमानेषु कार्मुकेषु पुनःपुनः । 020a
पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत् ॥ 020c
स सत्यजितमालोक्य तथोदीर्णं महाहवे । 021a
अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः ॥ 021c
तस्मिन्हते महामात्रे पाञ्चालानां महारथे । 022a
अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः ॥ 022c
पाञ्चालाः केकया मात्स्याश्चेदिकारूशकोसलाः । 023a
युधिष्ठिरमभीप्सन्तो दृष्ट्वा द्रोणमुपाद्रवन् ॥ 023c
ततो युधिष्ठिरं प्रेप्सुराचार्यः शत्रुपूगहा । 024a
व्यधमत्तान्यनीकानि तूलराशिमिवानलः ॥ 024c
निर्दहन्तमनीकानि तानि तानि पुनःपुनः । 025a
द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत ॥ 025c
सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः । 026a
षड्भिः ससूतं सहयं द्रोणं विद्ध्वाऽनदद्भृशम् ॥ 026c
क्रूराय कर्मणे युक्तश्चिकीर्षुः कर्म दुष्करम् । 027a
अवाकिरच्छरशतैर्भारद्वाजं महारथम् ॥ 027c
तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम् । 028a
क्षुरेणापाहरत्तुर्णं ततो मत्स्याः प्रदुद्रुवुः ॥ 028c
मत्स्याञ्जित्वाऽजयच्चेदीन्करूशान्केकयानपि । 029a
पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनःपुनः ॥ 029c
तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् । 030a
दृष्ट्वा रुक्मरथं वीरं समकम्पन्त सृञ्जयाः ॥ 030c
उभाभ्यां सन्दधानस्य धनुरस्याशुकारिणः । 031a
ज्याघोषो निघ्नतोऽमित्रान्दिक्षुसर्वासु शुश्रुवे ॥ 031c
नागानश्वान्पदातींश्च रथिनो गजसादिनः । 032a
रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ॥ 032c
नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये । 033a
अश्मवर्षमिवावर्षन्परेषां भयमादधत् ॥ 033c
सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव । 034a
बली शूरो महेष्वासो मित्राणामभयङ्करः ॥ 034c
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् । 035a
दिक्षु सर्वासु पश्यामो द्रोणस्यामिततेजसः ॥ 035c
शोभमानां ध्वजे चास्य वेदीमद्राक्ष्म भारत । 036a
हिमवच्छिखराकारं चरतः संयुगे भृशम् ॥ 036c
द्रोणस्तु पाण्डवानीके चकार कदनं महत् । 037a
यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः ॥ 037c
स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः । 038a
महानुभावः कल्पान्ते रौद्रां भीरुविभीषणाम् ॥ 038c
कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् ॥ 039a
गजवाजिमहाग्राहामसिमीनां दुरासदाम् ॥ 039c
वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम् । 040a
चर्मवर्मप्लवां घोरां केशशैवलशाद्वलाम् ॥ 040c
शरौघिणीं धनुःस्रोतां बाहुपन्नगसङ्कुलाम् । 041a
रणभूमिवहां तीव्रां कुरुसृञ्जयवाहिनीम् ॥ 041c
मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् । 042a
उष्णीषफेनवसनां विकीर्णान्त्रसरीसृपाम् ॥ 042c
वीरापहारिणीमुग्रां मांसशोमितकर्दमाम् । 043a
हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम् ॥ 043c
क्रूरां शरीरसङ्घाटां सादिनक्रां दुरत्ययाम् । 044a
द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम् ॥ 044c
क्रव्यादगणसञ्जुष्टां श्वशृगालगणायुताम् । 045a
निषेवितां महारौद्रैः पिशिताशैः समन्ततः ॥ 045c
तं दहन्तमनीकानि रथोदारं कृतान्तवत् । 046a
सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः ॥ 046c
ते द्रोणं सहिताः शूराः सर्वतः प्रत्यवारयन् । 047a
गभस्तिभिरिवादित्यं तपन्तं भुवनं यथा ॥ 047c
तं तु शूरं महेष्वासं तावकाऽभ्युद्यतायुधाः । 048a
राजानो राजपुत्राश्च समन्तात्पर्यवारयन् ॥ 048c
शिखण्डी तु ततो द्रोणं पञ्चभिर्नतपर्वभिः । 049a
क्षत्रवर्मा च विंशत्या वसुदानश्च पञ्चभिः ॥ 049c
उत्तमौजास्त्रिभिर्बाणैः क्षत्रदेवश्च सप्तभिः । 050a
सात्यकिश्च शतेनाजौ युधामन्युस्तथाऽष्टभिः ॥ 050c
युधिष्ठिरो द्वादशभिर्द्रोणं विव्याध सायकैः । 051a
धृष्टद्युम्नश्च दशभिश्चेकितानस्त्रिभिः शरैः ॥ 051c
ततो द्रोणः सत्यसन्धः प्रभिन्न इव कुञ्जरः । 052a
अभ्यतीत्य स्थानीकं दृढसेनमपातयत् ॥ 052c
ततो राजानमासाद्य प्रहरन्तमभीतवत् । 053a
अविध्यन्नवभिः क्षेमं स हतःप्रापतद्रथात् ॥ 053c
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः । 054a
त्राता ह्यभवदन्येषां न त्रातव्यः कथञ्चन ॥ 054c
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् । 055a
वसुदानं च भल्लेन प्रैषयद्यमसादनम् ॥ 055c
अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् । 056a
क्षत्रदेवं तु भल्लेन रथनीडादपातयत् ॥ 056c
युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् । 057a
विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥ 057c
ततो युधिष्ठिरः क्षिप्रं गुरुतो राजसत्तमः । 058a
अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् ॥ 058c
तं द्रोणः सधनुष्कं तु साश्वयन्तारमाक्षिणोत् । 059a
स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात् । 059c
'हत्वा तं विबभौ द्रोणः कुरुभिः परिवारितः ॥ 059e
वार्धक्षेमिस्तु वार्ष्णेयो द्रोणं विद्ध्वा शरोत्तमैः । 060a
नवभिश्च महीपालः पुनर्विव्याध पञ्चभिः ॥ 060c
स सात्यकिश्चतुष्षष्ट्या राजन्विव्याध सायकैः । 061a
सुचित्रो दशभिर्बाणैर्द्रोणं विद्ध्वाऽनदद्बली ॥ 061c
तं द्रोणः समरे राजञ्शरवर्षैरवाकिरत् । 062a
अपातयत्ततो द्रोणः सुचित्रं सहसारथिम् ॥ 062c
साश्वं च समरे राजन्हतो वै प्रापतत्क्षितौ । 063a
पात्यमानो महाराज बभौ ज्योतिरिवाम्बरात् ॥' 063c
तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे । 064a
हत द्रोणं हत द्रोणमित्यासीन्निःस्वनो महान् ॥ 064c
तांस्तथा भृशसंरब्धान्पाञ्चालान्मत्स्यकेकयान् । 065a
सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली ॥ 065c
सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ । 066a
वार्धक्षेमिं चैत्रसेनिं सेनाबिन्दुं सुवर्चसम् ॥ 066c
एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान् । 067a
सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः ॥ 067c
तावकाश्च महाराज जयं लब्ध्वा महाहवे । 068a
पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः ॥ 068c
ते दानवा इवेन्द्रेण वध्यमाना महात्मना । 069a
पाञ्चालाः केकया मात्स्याः समकम्पन्त भारत ॥ ॥ 069c
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे एकविंशोऽध्यायः ॥ 21 ॥
5-21-55 उभयत्र विद्ध्वेति शेषः ॥ 5-21-58 पाञ्चाल्यो नाम्ना ॥ 5-21-21 एकविंशोऽध्यायः ॥