श्रीः अध्यायः 019 अर्जुनस्य संशप्तकैः सह युद्धम् ॥ 1 ॥ सञ्जय उवाच 001
दृष्ट्वा तु सन्निवृत्तांस्तान्संशप्तकगणान्पुनः । 001a
वासुदेवं महात्मानमर्जुनः समभाषत ॥ 001c
चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति । 002a
नैते हास्यन्ति सङ्ग्रामं जीवन्त इति मे मतिः ॥ 002c
पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च । 003a
अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ॥ 003c
सञ्जय उवाच 004
ततः कृष्णः स्मितं कृत्वा प्रतिनन्द्य शिवेन तम् । 004a
प्रावेशयत दुर्धर्षो यत्रयत्रैच्छदर्जुनः ॥ 004c
स रथो भ्राजतेऽत्यर्थमुह्यमानो रणे तदा । 005a
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ॥ 005c
मण्डलानि ततश्चक्रे गतप्रत्यागतानि च । 006a
यथा शक्ररथो राजन्युद्धे देवासुरे पुरा ॥ 006c
अथ नारायणाः क्रुद्धा विविधायुधपाणयः । 007a
छादयन्तः शरव्रातैः परिवव्रुर्धनञ्जयम् ॥ 007c
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ । 008a
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जयम् ॥ 008c
क्रुद्धस्तु फल्गुनः सङ्ख्ये द्विगुणीकृतविक्रमः । 009a
गाण्डीवं धनुरामृज्य तूर्णं जग्राह संयुगे ॥ 009c
बद्ध्वा च भ्रुकुटिं वक्त्रे क्रोधस्य प्रतिलक्षणम् । 010a
देवदत्तं महाशङ्खं पूरयामास पाण्डवः ॥ 010c
अथास्त्रमरिसङ्घघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः । 011a
ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् ॥ 011c
अर्जुनप्रतिरूपैस्तैर्नानारूपैर्विमोहिताः । 012a
अन्योन्येनार्जुनं मत्वा स्वमात्मानं च जघ्निरे ॥ 012c
अयमर्जुनोऽयं गोविन्द इमौ पाण्डवयादवौ । 013a
इति ब्रुवाणाः सम्मूढा जघ्नुरन्योन्यमाहवे ॥ 013c
'अन्योन्यं समरे जघ्नुस्तावका भरतर्षभ।' 014a
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् ॥ 014c
'रुधिरोक्षितगात्रास्ते प्रेक्षमाणाः परस्परम् ।' 015a
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ॥ 015c
'रुधिरोत्पीडनास्ते तु रुधिरेण समुक्षिताः । 016a
चन्दनस्य रसेनेव व्यभ्राजन्त रणाजिरे ॥ 016c
ततः प्रसह्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः । 017a
न्यहनत्ताञ्छरैस्तीक्ष्णैस्तमः सूर्य इवांशुभिः ॥ 017c
हतावशिष्टास्ते भूयः परिवार्य धनञ्जयम् । 018a
साश्वध्वजरथं चक्रुरदृश्यं शरवृष्टिभिः ॥' 018c
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् । 019a
कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् ॥ 019c
अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि । 020a
मावेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ॥ 020c
ते हन्यमाना वीरेण क्षत्रियाः कालचोदिताः । 021a
व्यसृजञ्छरजालानि पार्थे नानाविधानि च ॥ 021c
न ध्वजो नार्जुनस्तत्र न रथो न च केशवः । 022a
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ॥ 022c
ततस्ते लब्धलक्षत्वादन्योन्यमभिचुक्रुशुः । 023a
हतौ कृष्णाविति प्रीत्या वासांस्यादुधुवुस्तदा ॥ 023c
भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः । 024a
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ॥ 024c
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् । 025a
क्वासि पार्थ न पश्यामि कच्चिज्जीवसि शत्रुहन् ॥ 025c
तस्य तद्भाषितं श्रुत्वा त्वरमाणो धनञ्जयः । 026a
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ॥ 026c
ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् । 027a
उवाह भगवान्वायुः शुष्कपर्णचयानिव ॥ 027c
उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना । 028a
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ॥ 028c
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जयः । 029a
जघान निशितैर्बाणैः सहस्राणि शतानि च ॥ 029c
शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् । 030a
हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् ॥ 030c
पृष्ठच्छिन्नान्विचरणान्विमस्तकदृगङ्गुलीन् । 031a
नानाङ्गावयवैर्हीनांश्चकारारीन्धनञ्जयः ॥ 031c
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् । 032a
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ॥ 032c
मुण्डतालवनानीव तत्रतत्र चकाशिरे । 033a
छिन्ना रथध्वजव्राताः केचित्तत्र क्वचित्क्वचित् ॥ 033c
सोत्तरायुधिनो नागाः सपताकाङ्कुशध्वजाः । 034a
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ॥ 034c
चामरापीडकवचाः स्रस्तान्त्रनयनास्तथा । 035a
सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ ॥ 035c
विप्रविद्धासिनाराचाश्छिन्नवर्मर्ष्टिशक्तयः । 036a
पत्तयश्छिन्नवर्माणः कृपणाः शेरते हताः ॥ 036c
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि । 037a
भ्रमद्भिर्निष्टनद्भिश्च क्रूरमायोधनं बभौ ॥ 037c
रजश्च सुमहज्जातं शान्तं रुधिरवृष्टिभिः | 038a
मही चाप्यभवद्दुर्गा कबन्धशतसङ्कुला ॥ 038c
तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे । 039a
आक्रीडमिव रुद्रस्य घ्नतः कालात्यये पशून् ॥ 039c
ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः । 040a
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ॥ 040c
सा भूमीर्भरतश्रेष्ठ निहतैस्तैर्महारथैः । 041a
आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः ॥ 041c
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि । 042a
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ॥ 042c
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः । 043a
युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् ॥ ॥ 043c

इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे एकोनविंशोऽध्यायः ॥ 19 ॥

5-19-34 सोत्तरायुधिनः उपरिगतैर्योधैः सहिताः ॥ 5-19-19 एकोनविंशोऽध्यायः ॥