श्रीः अध्यायः 018 अर्जुनस्य संशप्तकैः सह युद्धम् ॥ 1 ॥ सञ्जय उवाच 001
ततः संशप्तका राजन्समे देशे व्यवस्थिताः । 001a
व्यूढानीकै रथैरेव चन्द्रार्धाख्यैर्मुदा युताः ॥ 001c
ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष । 002a
'अतीव सम्प्रहृष्टास्ते ह्युपलक्ष्य धनञ्जयम् ।' 002c
उदक्रोशन्नरव्याघ्राः शब्देन महता तदा ॥ 002e
स दिशः प्रदिशः सर्वा नभश्चैव समावृणोत् । 003a
आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः ॥ 003c
सोऽतीव सम्प्रहृष्टांस्तानुपलभ्य धनञ्जयः । 004a
किञ्चिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् ॥ 004c
देवकीपुत्र पश्येमान्मुमूर्षूनद्य संयुगे । 005a
भ्रातॄंस्त्रैगर्तकानेतान्रोदितव्ये प्रहर्षितान् ॥ 005c
अथवा हर्षकालोऽयं त्रैगर्तानामसंशयम् । 006a
कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्ति संयुगे । 006c
'मया हता हि सङ्ग्रामे लोकान्प्राप्स्यन्ति पुष्कलान् ||' 006e
एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः । 007a
आससाद रणे व्यूढां त्रिगर्तानामनीकिनीम् ॥ 007c
स देवदत्तमादाय शङ्खं हेमपरिष्कृतम् । 008a
दध्मौ वेगेन महता घोषेणापूरयन्दिशः ॥ 008c
तेन शब्देन वित्रस्ता संशप्तकवरूथिनी । 009a
विचेष्टाऽवस्थिता सङ्ख्ये ह्यश्मसारमयी यथा ॥ 009c
'सा सेना भरतश्रेष्ठ निश्चेष्टा शुशुभे तदा । 010a
चित्रे पटे यथा न्यस्ता कुशलैः शिल्पिभिर्नरैः ॥ 010c
स्वनेन तेन सैन्यानां दिवमावृण्वता तदा । 011a
सस्वना पृथिवी सर्वा तथैव च महोदधिः । 011c
स्वनेन तेन सैन्यानां कर्णास्तु बधिरीकृताः ॥' 011e
वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः । 012a
विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः । 012c
'ततो व्युपारमच्छब्दः प्रहृष्टास्ते ततोऽभवन् ॥' 012e
उपलभ्य ततः सञ्ज्ञामवस्थाप्य च वाहिनीम् । 013a
युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः ॥ 013c
तानर्जुनः सहस्राणि दशपञ्चभिराशुगैः । 014a
अनागतानेव शरैश्चिच्छेदाशु पराक्रमी ॥ 014c
ततोर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः । 015a
प्राविध्यन्त ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः ॥ 015c
एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः । 016a
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी ॥ 016c
भूय एव तु सङ्क्रुद्धास्त्वर्जुनं सहकेशवम् । 017a
आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः ॥ 017c
ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति । 018a
भ्रमराणामिव व्राताः फुल्लं द्रुमगणं वने ॥ 018c
ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैः शरैः । 019a
अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् ॥ 019c
तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः । 020a
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥ 020c
हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः । 021a
चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् ॥ 021c
ततः सुशर्मा दशभिः सुरथस्तु किरीटिनम् । 022a
सुधर्मा सुधनुश्चैव सुबाहुश्च समार्पयत् ॥ 022c
तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः । 023a
प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद सायकान् ॥ 023c
सुधन्वनो धनुश्छित्त्वा हयांश्चास्यावधीच्छरैः । 024a
अथास्य सशिरस्त्राणं शिरः कायादपातयत् ॥ 024c
'जहार पार्थः सैन्येषु सहस्रे द्वे च योधिनाम् ।' 025a
तस्मिन्निपतिते वीरे त्रस्तास्तस्य पदानुगाः ॥ 025c
'भूयिष्ठं प्रतिरुद्धा ये हतैर्योधैर्यशस्विनः ।' 026a
व्यद्रवन्त भयाद्भीता यत्र दौर्योधनं बलम् ॥ 026c
ततो जघानं सङ्क्रुद्धो वासविस्तां महाचमूम् । 027a
शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः ॥ 027c
ततो भग्ने बले तस्मिन्विप्रलीने समन्ततः । 028a
सव्यसाचिनि सङ्क्रुद्धे त्रैगर्तान्भयमाविशत् ॥ 028c
ते वध्यमानाः पार्थेन शरैः सन्नतपर्वभिः । 029a
अमुह्यंस्तत्रतत्रैव त्रस्ता मृगगणा इव ॥ 029c
ततस्त्रिगर्तराट् क्रुद्धस्तानुवाच महारथान् । 030a
अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ ॥ 030c
शप्त्वाऽथ शपथान्घोरान्सर्वसैन्यस्य पश्यतः । 031a
गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यशः || 031c
नावहास्याः कथं लोके कर्मणाऽनेन संयुगे । 032a
भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् ॥ 032c
एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः । 033a
शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् ॥ 033c
ततस्ते सन्न्यवर्तन्तं संशप्तकगणाः पुनः । 034a
नारायणाश्च गोपाला मृत्युं कृत्वाऽनिवर्तनम् ॥ ॥ 034c

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥

5-18-1 व्यूह्यानीकं रथैरेव चन्द्राकारं मुदा युताः इति झ पाठः ॥ अष्टादशोऽध्यायः ॥