श्रीः अध्यायः 017
संशप्तकैराहूतस्यार्जुनस्य युधिष्ठिररक्षणे सत्यजितं नियोज्य तान्प्रति युद्धाय गमनम् ॥ 1 ॥
सञ्जय उवाच 001
ते सेने शिबिरं गत्वा न्यविशेतां विशाम्पते । 001a
यथाभागं यथान्यायं यथागुल्मं च सर्वशः ॥ 001c
कृत्वाऽवहारं सैन्यानां द्रोणः परमदुर्मनाः । 002a
दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत् ॥ 002c
उक्तमेतन्मया पूर्वं न तिष्ठति धनञ्जये । 003a
शक्यो ग्रहीतुं सङ्ग्रामे देवैरपि युधिष्ठिरः ॥ 003c
इति तद्वः प्रयततां कृतं पार्थेन संयुगे । 004a
मा विशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ ॥ 004c
अपनीते तु योगेन केनचिच्छ्वेतवाहने । 005a
तत एष्यति ते राजन्वशमेष युधिष्ठिरः ॥ 005c
कश्चिदाहूय तं सङ्ख्ये देशमन्यं प्रकर्षतु । 006a
तमजित्वा न कौन्तेयो निवर्तेत कथञ्चन ॥ 006c
एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप । 007a
ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः ॥ 007c
अर्जुनेन परित्यक्तो न चेत्त्रासात्पलायते । 008a
मामुपायान्तमालोक्य गृहीतं विद्धि पाण्डवम् ॥ 008c
एवं तेऽहं महाराज धर्मपुत्रं युधिष्ठिरम् । 009a
समानेष्यामि सगणं वशमद्य न संशयः ॥ 009c
यदि तिष्ठति सङ्ग्रामे मुहूर्तमपि पाण्डवः । 010a
अथापयाति सङ्ग्रामाद्विजयात्तद्विशिष्यते ॥ 010c
सञ्जय उवाच 011
द्रोणस्य तद्वचः श्रुत्वा त्रिगर्ताधिपतिस्तदा । 011a
भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत् ॥ 011c
वयं विनिकृता राजन्सदा गाण्डीवधन्वना । 012a
अनागःस्वपि चागस्तत्कृतमस्मासु तेन वै ॥ 012c
ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान् । 013a
क्रोधाग्निना दह्यमाना ह्यशेमहि सदा निशि ॥ 013c
स नो दिष्ट्याऽस्त्रसम्पन्नश्चक्षुर्विषयमागतः । 014a
कर्तारः स्म अयं कर्म यच्चिकीर्षाम हृद्गतम् ॥ 014c
भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम् । 015a
वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः ॥ 015c
अद्यास्त्वनर्जुना भूमिरत्रिगर्ताऽथवा पुनः । 016a
सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति ॥ 016c
एवं सत्यरथश्चोक्त्वा सत्यवर्मा च भारत । 017a
सत्यव्रतश्च सत्येषुः सत्यकर्मा तथैव च ॥ 017c
सहिता भ्रातरः पञ्च रथानामयुतेन च । 018a
न्यवर्तन्त महाराज कृत्वा शपथमाहवे ॥ 018c
मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः । 019a
सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः ॥ 019c
मावेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि । 020a
रथानामयुतेनैव सोऽगमद्धातृभिः सह ॥ 020c
नानाजनपदेभ्यश्च रथानामयुतं पुनः । 021a
समुत्थितं विशिष्टानां शपथार्थमुपागमत् ॥ 021c
ततो ज्वलनमानर्च्य हुत्वा सर्वे पृथक्पृथक् । 022a
जगृहुः कुशचीराणि चित्राणि कवचानि च ॥ 022c
ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः । 023a
मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः ॥ 023c
यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः । 024a
योक्ष्यमाणास्तदाऽऽत्मानं यशसा विजयेन च ॥ 024c
ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः । 025a
प्राप्याल्ँलोकान्सुयुद्धेन क्षिप्रमेव यियासवः ॥ 025c
ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्वा पृथक्पृथक् । 026a
गाश्च वासांसि च पुनः समाभाष्य परस्परम् ॥ 026c
'द्विजमुख्यैः समुदितैः कृतस्वस्त्ययनाशिषः । 027a
मुदिताश्च प्रहृष्टाश्च जलं संस्पृश्य निर्मलम् ॥' 027c
प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणव्रतम् । 028a
तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः ॥ 028c
शृण्वतां सर्वभूतानामुच्चैर्वाचो बभाषिरे । 029a
सर्वे धनञ्जयवधे प्रतिज्ञां चापि चक्रिरे || 029c
ये वै लोकाश्चाव्रतिनां ये चैव ब्रह्मघातिनाम् । 030a
मद्यपस्य च ये लोका गुरुदाररतस्य च ॥ 030c
ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः । 031a
शरणागतं च त्यजतो याचमानं तथा घ्नतः ॥ 031c
अगारदाहिनां चैव ये च गां निघ्नतामपि । 032a
अपकारिणां च ये लोका ये च ब्रह्मद्विषामपि ॥ 032c
स्वभार्यामृतुकालेषु मोहाद्वै नाभिगच्छताम् । 033a
श्राद्धमैथुनिकानां च ये चाप्यात्मापहारिणाम् ॥ 033c
न्यासापहारिणां ये च श्रुतं नाशयतां च ये । 034a
क्लीबेन युध्यमानानां ये च नीचानुसारिणाम् ॥ 034c
नास्तिकानां च ये लोका येऽग्निमातृपितृत्यजाम् । 035a
तानाप्नुयामहे लोकान्ये च पापकृतामपि ॥ 035c
यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम् । 036a
तेन चाभ्यर्दितास्त्रासाद्भवेमहि पराङ्मुखाः ॥ 036c
यदि त्वसुकरं लोके कर्म कुर्याम संयुगे । 037a
इष्टाल्ँलोकान्प्राप्नुयामो वयमद्य न संशयः ॥ 037c
एवमुक्त्वा तदा राजंस्तेऽभ्यवर्तन्त संयुगे । 038a
आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति ॥ 038c
आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्जयः । 039a
धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् ॥ 039c
आहूतो न निवर्तेयमिति मे व्रतमाहितम् । 040a
संशप्तकाश्च मां राजन्नाह्वयन्ति महामृधे ॥ 040c
एष च भ्रातृभिः सार्धं सुशर्माऽऽह्वयते रणे । 041a
वधाय सगणस्यास्य मामनुज्ञातुमर्हसि ॥ 041c
नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ । 042a
सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि ॥ 042c
युधिष्ठिर उवाच 043
श्रुतं ते तत्त्वतस्तात यद्द्रोणस्य चिकीर्षितम् । 043a
यथा तदनृतं तस्य भवेतत्त्वं समाचर ॥ 043c
द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः । 044a
प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ ॥ 044c
अर्जुन उवाच 045
अयं वै सत्यजिद्राजन्नद्य त्वां रक्षिता युधि । 045a
ध्रियमाणे च पाञ्चाल्ये नाचार्यः काममाप्स्यति ॥ 045c
हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो । 046a
सर्वैरपि समेतैर्वा न स्थातव्यं कथञ्चन ॥ 046c
सञ्जय उवाच 047
अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः । 047a
प्रेम्णा दृष्टश्च बहुधा ह्याशिषश्चास्य योजिताः ॥ 047c
विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली । 048a
क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव ॥ 048c
ततो दौर्योधनं सैन्यं मुदा परमया युतम् । 049a
ऋतेऽर्जुनं भृशं क्रुद्धं धर्मराजस्य निग्रहे ॥ 049c
ततोऽन्योन्येन ते सैन्ये समाजग्मतुरोजसा । 050a
गङ्गासरय्वौ वेगेन प्रावृषीवोल्बणोदके ॥ ॥ 050c
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥
5-17-5 योगेन उपायेन ॥ 5-17-24 लोक्याः पुण्यलोकार्हाः ॥ 5-17-25 ब्रह्मचर्यं वेदव्रताचरणम् । श्रुतिर्वेदाध्ययनं ते एव मुखं प्रधानं येषु तैः । कर्मभिरिति शेषः ॥ 5-17-33 आत्मापहारिणां स्वजातिगोपकानाम् ॥ 5-17-34 श्रुतं प्रतिज्ञातम् ॥ 5-17-39 अपदान्तरमव्यवहितम् ॥ 5-17-17 सप्तदशोऽध्यायः ॥