श्रीः अध्यायः 15 भीमेन गदायुद्धे शल्यपराजयः 001 धृतराष्ट्र उवाच बहूनि सुविचित्राणि द्वन्द्वयुद्धानि सञ्जय | 001a
त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुताम् ॥ 001c
'न हि देवासुरं युद्धमीदृग्भूतं भवेदिति | 002a
चिन्तयामि च युद्धानि श्रुत्वा घोराणि सञ्जय || 002c
आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः | 003a
कुरूणां पाण्डवानां च युद्धं देवासुरोपमम् || 003c
न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम् | 004a
तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे || 004c
सञ्जय उवाच 005
सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम् | 005a
समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात् || 005c
तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् | 006a
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् || 006c
सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम् | 007a
एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः || 007c
वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान् | 008a
शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः || 008c
तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम् | 009a
ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम् || 009c
'तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् | 010a
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् || 010c
ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः | 011a
सिंहनादाश्च सञ्जज्ञुर्भेरीणां च महास्वनाः || 011c
पश्यतां शतशो ह्यासीदन्योन्यमभिधावताम् | 012a
पाण्डवानां कुरूणां च साधुसाध्विति निस्वनः || 012c
न हि मद्राधिपादन्यः सर्वराजसु भारत | 013a
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे || 013c
तथा मद्राधिपस्यापि गदावेगं महात्मनः| 014a
सोढुमुत्सहते लोके कोऽन्यो युधि वृकोदरात् || 014c
पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षिणी | 015a
प्रजज्वाल तथाविद्धा भीमेन महती गदा || 015c
'साग्निदीप्ता महारौद्रा गदा सा शुशुभे तदा ||' 016ac
तथैव चरतो मार्गान्मण्डलानि च सर्वशः | 017a
महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा || 017c
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः | 018a
आवर्तितगदाशृङ्गावुभौ शल्यवृकोदरौ || 018c
क्रोधताम्रेक्षणौ वीरौ शत्रुसङ्धविमर्दनौ | 019a
महामात्रौ महोत्साहौ गदायुद्धविशारदौ || 019c
मण्डलावर्तमार्गेषु गदाविहरणेषु च | 020a
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः || 020c
ताडिता भीमसेनेन शल्यस्य महती गदा | 021a
साग्निज्वाला महारौद्रा तदा चूर्णमशीर्यत || 021c
तथैव भीमसेनस्य द्विषताऽभिहता गदा | 022a
वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ || 022c
गदा क्षिप्ता तु समरे मद्रराजेन भारत | 023a
व्योम दीपयमाना सा ससृजे पावकं मुहुः || 023c
तथैव भीमसेनेन द्विषते प्रेषिता गदा | 024a
तापयामास तत्सैन्यं महोल्का पतती यथा || 024c
ते गदे गदिनां श्रेष्ठे समासाद्य परस्परम् | 025a
श्वसन्त्यौ नागकन्ये व ससृजाते विभावसुम् || 025c
नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ | 026a
तौ विचेरतुरासाद्य गदाग्र्याभ्यां परस्परम् || 026c
ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ | 027a
ददृशाते महात्मानौ किंशुकाविव पुष्पितौ || 027c
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः | 028a
गदाभिघातसंह्रादः शक्राशनिरिवोपमः || 028c
गदया मद्रराजेन सव्यदक्षिणमाहतः | 029a
नाकम्पत तदा भीमो भिद्यमान इवाचलः || 029c
तथा भीमगदावेगैस्ताड्यमानो महाबलः | 030a
धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः || 030c
आपेततुर्महावेगौ समुच्छ्रितगदावुभौ | 031a
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः || 031c
अथाप्लुत्य पदान्यष्टौ सन्निपत्य गजाविव | 032a
सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः || 032c
तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ | 033a
युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव | 033c
ततो विह्वलमानं तं निःश्वसन्तं पुनःपुनः | 034a
शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः || 034c
दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम् | 035a
विचेष्टन्तं यथा नागं मूर्च्छयाभिपरिप्लुतम् || 035c
ततः स्वरथमारोप्य मद्राणामधिपं रणे | 036a
अपोवाह रणात्तूर्णं कृतवर्मा महारथः || 036c
क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः | 037a
भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत || 037c
ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् | 038a
सनागपत्त्यश्वरथाः समकम्पन्त मारिष || 038c
ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः | 039a
भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव || 039c
निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः | 040a
व्यरोचन्त रणे राजन्दीप्यमाना इवाग्नयः || 040c
'अथ मड्डुकभेरिमहामुरजाः पणवानकदुन्दुभिनिर्झरिभिः | 041a
विनदन्ति भृशं सहशङ्खरवैर्विविधैश्च नरोत्तम सिंहरवैः || 041c

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशदिवसयुद्धे पञ्चदशोऽध्यायः ॥ 15 ॥ 7-01-25 व इवार्थे || 7-01-37 क्षीबवन्मत्तवत् ||