श्रीः अध्यायः 014

द्रोणयुद्धं द्वैरथयुद्धमभिमन्युपराक्रमश्च ॥ 1 ॥ सञ्जय उवाच 001
ततः स पाण्डवानीके जनयन्सुमहद्भयम् । 001a
व्यचरत्पृतनां द्रोणो दहन्कक्षमिवानलः ॥ 001c
निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् । 002a
दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः ॥ 002c
सततं कृष्यतः सङ्ख्ये धनुषोऽस्याशुकारिणः । 003a
ज्याघोषः शुश्रुवेऽत्यर्थं विस्फूर्जितमिवाशनेः ॥ 003c
रथिनः सादिनश्चैव नागानश्वान्पदातिनः । 004a
रौद्रा हस्तवता मुक्ताः सम्मृद्नन्ति स्म सायकाः ॥ 004c
नानद्यमानः पर्जन्यः प्रवृद्धः शुचिसङ्क्षये । 005a
अश्मवर्षमिवावर्षत्परेषामावहद्भयम् ॥ 005c
विचरन्स दिशः सर्वाः सेनां सङ्क्षोभयन्प्रभुः । 006a
वर्धयामास सन्त्रासं शात्रवाणाममानुषम् ॥ 006c
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् । 007a
भ्राजमानं रथे तस्मिन्दृश्यते स्म महाभयम् ॥ 007c
स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सदा पुनः । 008a
युगान्तकालवद्घोरां रौद्रां प्रावर्तयन्नदीम् ॥ 008c
अमर्षवेगप्रभवां क्रव्यादगणसङ्कुलाम् । 009a
बलौघैः सर्वतः पूर्णां ध्वजवृक्षापहारिणीम् ॥ 009c
शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् । 010a
कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् ॥ 010c
मेदोमज्जास्थिसिकतामुष्मीषचयफेनिलाम् । 011a
सङ्ग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् ॥ 011c
नरनागाश्वकलिलां शरवेगौघवाहिनीम् । 012a
शरीरदारुसङ्घाटां रथकच्छपसङ्कुलाम् ॥ 012c
उत्तमाङ्गैः पङ्कजिनीं निस्त्रिंशझषसङ्कुलाम् । 013a
रथनागह्रदोपेतां नानाभारणभूषिताम् ॥ 013c
महारथशतावर्तां भूमिरेणूर्मिमालिनीम् । 014a
महावीर्यवतां सङ्ख्ये सुतरां भीरुदुस्तराम् ॥ 014c
शरीरशतसम्बाधां गृध्रकङ्कनिषेविताम् । 015a
महारथसहस्राणि नयन्तीं यमसादनम् ॥ 015c
शूलव्यालसमाकीर्णां प्राणिवाजिनिषेविताम् । 016a
छिन्नक्षत्रमहाहंसां मुकुटाण्डजसेविताम् ॥ 016c
चक्रकूर्माङ्गदानक्रां शरक्षुद्रझषाकुलाम् । 017a
बकगृध्रसृगालानां घोरसङ्घैर्निषेविताम् ॥ 017c
निहतान्प्राणिनः सङ्ख्ये द्रोणेन बलिना रणे । 018a
वहन्तीं पितृलोकाय शतशो राजसत्तम ॥ 018c
शरीरशतसम्बाधां केशशैवलशाद्वलाम् । 019a
नदीं प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम् ॥ 019c
तर्जयन्तमनीकानि तानि तानि महारथम् । 020a
सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः ॥ 020c
तानभिद्रवतः शूरांस्तावका दृढविक्रमाः । 021a
सर्वतः प्रत्यगृह्णन्त तदभूद्रोमहर्षणम् ॥ 021c
शतमायस्तु शकुनिः सहदेवं समाद्रवत् । 022a
सनियन्तृध्वजरथं विव्याध निशितैः शरैः ॥ 022c
तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि । 023a
नातिक्रुद्धः शरैश्छित्त्वा षष्ठ्या विव्याध सौबलम् । 023c
'भित्त्वा च शरवर्षेण शकुनिं प्रत्यवारयत् ॥' 023e
गदां गृहीत्वा शकुनिः प्रचस्कन्द रथोत्तमात् । 024a
स तस्य गदया राजन्रथात्सूतमपातयत् ॥ 024c
ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ । 025a
चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ ॥ 025c
द्रोणः पाञ्चालदायादं विव्याध निशितैः शरैः । 026a
तयोस्तत्र महाराज बाणवर्षैः प्रकाशितम् । 026c
खद्योतैरिव चाकाशं प्रदोषे पुरुषर्षभ ॥ 026e
विविंशतिं भीमसेनो विंशत्या निशितैः शरैः । 027a
विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत् ॥ 027c
विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् । 028a
भीमं चक्रे महाराज ततः सैन्यान्यपूजयन् ॥ 028c
स तन्न ममृषे वीरः शत्रोर्विक्रममाहवे । 029a
ततोऽस्य गदया दान्तान्हयात्सर्वानपातयत् ॥ 029c
हताश्वात्स रथाद्राजन्गृह्य चर्म महाबलः । 030a
अभ्ययाद्भीमसेनं तु मत्तो मत्तमिव द्विपम् ॥ 030c
शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः । 031a
विव्याध प्रहसन्बाणैर्लालयन्कोपयन्निव ॥ 031c
तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः । 032a
निपात्य नकुलः सङ्ख्ये शङ्खं दध्मौ प्रतापवान् ॥ 032c
धृष्टकेतुः कृपेणास्ताञ्छित्त्वा बहुविधाञ्छरान् । 033a
कृपं विव्याध सप्तत्या ध्वजं चास्य त्रिभिः शरैः ॥ 033c
तं कृपः शरवर्षेण महता समवारयत् । 034a
विव्याध च रणे विप्रो धृष्टकेतुममर्षणम् ॥ 034c
सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे । 035a
विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव ॥ 035c
तं भोजः सप्तसप्तत्या विद्ध्वाऽऽशु निशितैः शरैः । 036a
नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम् ॥ 036c
सेनापतिः सुशर्माणं भृशं मर्मस्वताडयत् । 037a
स चापि तं तोमरेण जत्रुदेशेऽभ्यताडयत् ॥ 037c
वैकर्तनं तु समरे विराटः प्रत्यवारयत् । 038a
सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत् ॥ 038c
तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् । 039a
यत्सैन्यं वारयामास शरैः सन्नतपर्वभिः ॥ 039c
द्रुपदस्तु स्वयं राजा भगदत्तेन सङ्गतः । 040a
तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ॥ 040c
भगदत्तस्तु राजानं द्रुपदं नतपर्वभिः । 041a
सनियन्तृध्वजरथं विव्याध पुरुषर्षभः ॥ 041c
द्रुपदस्तु ततः क्रुद्धो भगदत्तं महारथम् । 042a
आजघानोरसि क्षिप्रं शरेणानतपर्वणा ॥ 042c
युद्धं योधवरौ लोके सौमदत्तिशिखण्डिनौ । 043a
भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ ॥ 043c
भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम् । 044a
महता सायकौघेन च्छादयामास वीर्यवान् ॥ 044c
शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशाम्पते । 045a
नवत्या सायकानां तु कम्पयामास भारत ॥ 045c
राक्षसौ रौद्रकर्माणौ हेडिम्बालम्बुसावुभौ । 046a
चक्रातेऽत्युद्भुतं युद्धं परस्परजयैषिणौ ॥ 046c
मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् । 047a
अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ ॥ 047c
चेकितानोऽनुविन्देन युयुधे चातिभैरवम् । 048a
यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥ 048c
लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् । 049a
यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे ॥ 049c
ततः प्रचलिताश्वेन विधिवत्कल्पितेन च । 050a
रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन् ॥ 050c
ततोऽभ्ययात्स त्वरितो युद्धाकाङ्क्षी महाबलः । 051a
तेन चक्रे महद्युद्धमभिमन्युररिन्दमः ॥ 051c
पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् । 052a
तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत् ॥ 052c
सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः । 053a
पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः ॥ 053c
ततः प्रहर्षयन्सेनां सिंहवद्विनदन्मुहुः । 054a
समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् ॥ 054c
तं तु सन्धितमाज्ञाय सायकं घोरदर्शनम् । 055a
द्वाभ्यां शराभ्यां हार्दिक्यश्चिच्छेद सशरं धनुः ॥ 055c
तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा । 056a
उद्बबर्ह सितं खड्गमाददनः शरावरम् ॥ 056c
स तेनानेकतारेण चर्मणा कृतहस्तवत् । 057a
भ्रान्तासिना चरन्मार्गान्दर्शयन्वीर्यमात्मनः ॥ 057c
भ्रामितं पुनरुद्भ्रान्तमाधूतं पुनरुत्थितम् । 058a
चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत ॥ 058c
स पौरवरथस्येषामाप्लुत्य सहसा नदन् । 059a
पौरवं रथमास्थाय केशपक्षे परामृशत् ॥ 059c
जघानास्य पदा सूतमसिना पातयद्ध्वजम् । 060a
विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् ॥ 060c
तमागलितकेशान्तं ददृशुः सर्वपार्थिवाः । 061a
उक्षाणमिव सिंहेन पात्यमानमचेतसम् ॥ 061c
तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत् । 062a
पौरवं पातितं दृष्ट्वा नामृष्यत जयद्रथः ॥ 062c
स बर्हिबर्हावततं किङ्किणीशतजालवत् । 063a
चर्म चादाय खड्गं च नदन्पर्यपतद्रथात् ॥ 063c
ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् । 064a
उत्पपात रथात्तूर्णं श्येनवन्निपपात च ॥ 064c
प्रासपट्टिशनिस्त्रिंशाञ्छत्रुभिः सम्प्रचोदितान् । 065a
चिच्छेद चासिना कार्ष्णिश्चर्मणा संरुरोध च ॥ 065c
स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः । 066a
तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली ॥ 066c
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् । 067a
ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् ॥ 067c
तौ परस्परमासाद्य खड्गदन्तनखायुधौ । 068a
हृष्टवत्सम्प्रजह्राते व्याघ्रकेसरिणाविव ॥ 068c
सम्पातेष्वभिघातेषु निपातेष्वसिचर्मणोः । 069a
न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः ॥ 069c
अवक्षेपोऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम् । 070a
बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत ॥ 070c
बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् । 071a
ददृशाते महात्मानौ सपक्षाविव पर्वतौ ॥ 071c
ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः । 072a
शरावरणपक्षान्ते प्रजहार जयद्रथः ॥ 072c
रुक्मपत्रान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे । 073a
सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः ॥ 073c
भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् । 074a
अदृश्यत निमेषेण स्वरथं पुनरास्थितः ॥ 074c
तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् । 075a
सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥ 075c
ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः । 076a
ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् ॥ 076c
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा । 077a
तापयामास तत्सैन्यं भुवनं भास्करो यथा ॥ 077c
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् । 078a
चिक्षेप समरे घोरां दीप्तामग्निशिखामिव ॥ 078c
तामवप्लुत्य जग्राह विकोशं चाकरोदसिम् । 079a
वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् ॥ 079c
तस्य लाघवमाज्ञाय सत्वं चामिततेजसः । 080a
सहिताः सर्वराजानः सिंहनादमथानदन् ॥ 080c
ततस्तामेव शल्यस्य सौभद्रः परवीरहा । 081a
मुमोच भुजवीर्येण वैदूर्यविकृतां शिताम् ॥ 081c
सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा । 082a
जघान सूतं शल्यस्य रथाच्चैनमपातयत् ॥ 082c
ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः । 083a
सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ ॥ 083c
यमौ च द्रौपदेयाश्च साधुसाध्विति चुक्रुशुः । 084a
बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः ॥ 084c
प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् । 085a
तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम् ॥ 085c
अथैनं सहसा सर्वे समन्तान्निशितैः शरैः । 086a
अभ्याकिरन्महाराज जलदा इव पर्वतम् ॥ 086c
तेषां च प्रियमन्विच्छन्सूतस्य च पराभवम् । 087a
आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात् ॥ ॥ 087c

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशदिवसयुद्धे चतुर्दशोऽध्यायः ॥ 14 ॥

5-14-5 शुचिसङ्क्षये ग्रीष्मान्ते ॥ 5-14-16 प्राणिन एव वाजिनः पक्षिणः ॥ 5-14-87 पराभवं प्रेक्ष्येति शेषः ॥ 5-14-14 चतुर्दशोऽध्यायः ॥