श्रीः अध्यायः 013

अर्जुनेन द्रोणप्रतिज्ञाभीतस्य युधिष्ठिरस्य समाश्वासनम् ॥ 1 ॥ युद्धारम्भो द्रोणपराक्रमश्च ॥ 2 ॥ सञ्जय उवाच 001
सान्तरे तु प्रतिज्ञाने राज्ञो द्रोणेन निग्रहे । 001a
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् । 001c
सिंहनादरवांश्चक्रुर्बाहुशब्दांश्च कृत्स्नशः ॥ 001e
तच्च सर्वं यथान्यायं धर्मराजेन भारत । 002a
आप्तैश्चारैः परिज्ञातं भारद्वाजचिकीर्षितम् ॥ 002c
ततः सर्वान्समानाय्य भ्रातॄनन्यांश्च सर्वशः । 003a
अब्रवीद्धर्मराजस्तु धनञ्जयमिदं वचः ॥ 003c
श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् । 004a
यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् ॥ 004c
सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रघातिना । 005a
तच्चान्तरममोघेषौ त्वयि तेन समाहितम् ॥ 005c
तत्त्वमद्य महाबाहो युध्यस्व मदनन्तरम् । 006a
यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् ॥ 006c
अर्जुन उवाच 007
यथा मे न वधः कार्य आचार्यस्य कथञ्चन । 007a
तथा तव परित्यागो न मे राजंश्चिकीर्षितः ॥ 007c
अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि । 008a
प्रतियाताऽहमाचार्यं त्वां न जह्यां कथञ्चन ॥ 008c
त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति । 009a
न स तं जीवलोकेऽस्मिन्कामं प्राप्ता कथञ्चन ॥ 009c
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकली भवेत् । 010a
न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् ॥ 010c
यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् । 011a
विष्णुर्वा सहितो देवैर्न त्वां प्राप्स्यत्यसौ मृधे ॥ 011c
मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि । 012a
द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि ॥ 012c
अन्यच्च ब्रूयां राजेन्द्र प्रतिज्ञां मम निश्चलाम् ॥ 013ac
न स्मराम्यनृतं तावन्न स्मरामि पराजयम् । 014a
न स्मरामि प्रतिश्रुत्य विस्मृत्य मनसाऽकृतम् ॥ 014c
सञ्जय उवाच 015
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह । 015a
प्रावाद्यन्त महाराज पाण्डवानां निवेशने ॥ 015c
सिंहनादश्च सञ्जज्ञे पाण्डवानां महात्मनाम् । 016a
धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः ॥ 016c
श्रुत्वा शङ्खस्य निर्घोषं पाण्डवस्य महौजसः । 017a
त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे ॥ 017c
ततो व्यूढान्यनीकानि तव तेषां च भारत । 018a
शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे ॥ 018c
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् । 019a
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि ॥ 019c
यतमानाः प्रयत्नेन द्रोणानीकविशातने । 020a
न शेकुः सृञ्जया युद्धे तद्धि द्रोणेन पालितम् ॥ 020c
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः । 021a
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटीना ॥ 021c
आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् । 022a
सम्प्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ॥ 022c
ततो रुक्मरथो राजन्नर्केणेव विराजता । 023a
वरूथिना विनिष्पत्य व्यचरत्पृतनामुखे ॥ 023c
तमुद्यन्तं रथेनैकमाशुकारिणमाहवे । 024a
अनेकमिव सन्त्रसान्मेनिरे पाण्डुसृञ्जयाः ॥ 024c
तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् । 025a
त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् ॥ 025c
मध्यन्दिनमनुप्राप्तो गभस्तिशतसंवृतः । 026a
यथा दृश्येत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत ॥ 026c
न चैनं पाण्डवेयानां कश्चिच्छक्नोति भारत । 027a
वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः ॥ 027c
मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् । 028a
धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः ॥ 028c
स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः । 029a
पार्षतो यत्र तत्रैनामभिनत्पाण्डुवाहिनीम् ॥ ॥ 029c

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशदिवसयुद्धे त्रयोदशोऽध्यायः ॥ 13 ॥

5-13-22 सम्प्रसुप्ते कृतपत्रसङ्कोचे ॥ 5-13-23 वरूथिना रथेन ॥ 5-13-13 त्रयोदशोऽध्यायः ॥