श्रीः अध्यायः 012

द्रोणचोदितेन दुर्योधनेन युधिष्ठिरस्य जीवग्राहं ग्रहणवरणम् ॥ 1 ॥ द्रोणेन अर्जुनासन्निधाने तद्ग्रहणे प्रतिज्ञाते दुर्योधनेन तदुद्घोषणम् ॥ 2 ॥ सञ्जय उवाच 001
'शुश्रूषस्व स्थिरो भूत्वां शंसतो मम भारत ।' 001a
हन्त ते कथयिष्यामि सर्वं प्रत्यक्षदर्शिवान् । 001c
यथा सत्यपरो द्रोणः सादितः पाण्डुसृञ्जयैः ॥ 001e
सेनापतित्वं सम्प्राप्य भारद्वाजो महारथः । 002a
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् ॥ 002c
यत्कौरवाणामृषभादापगेयादनन्तरम् । 003a
सैनापत्ये त्वया राजन्नद्य सत्कृतवानहम् ॥ 003c
सदृशं कर्मणस्तस्य फलं प्राप्नुहि भारत । 004a
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि ॥ 004c
सञ्जय उवाच 005
ततो दुर्योधनो राजा कर्णदुःशासनादिभिः । 005a
सम्मन्त्र्योवाच दुर्धर्षमाचार्यं जयतां वरम् ॥ 005c
ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् । 006a
गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय ॥ 006c
'इच्छेयं वै महात्मानं धर्मात्मानं युधिष्ठिरम् । 007a
भ्रातॄणां पश्यतामेव जीवग्राहेण मे द्विज ॥ 007c
गृहीत्वा रथिनां श्रेष्ठं मत्सकाशमिहानय । 008a
प्रीणाम्यनेन कार्येण ससुहृज्जनबान्धवः ॥ 008c
सञ्जय उवाच 009
ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः । 009a
सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् ॥ 009c
धन्यः कुन्तीसुतो राजन्यस्य ग्रहणमिच्छसि । 010a
न वधं तस्य दुर्धर्ष वरमद्य प्रयाचसे ॥ 010c
किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसे । 011a
नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् ॥ 011c
आहोस्विद्धर्मराजस्य द्वेष्टा कश्चिन्न विद्यते । 012a
यदीच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनः ॥ 012c
अथवा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् । 013a
राज्यांशं प्रति दत्त्वा च सौभ्रात्रं कर्तुमिच्छसि ॥ 013c
धन्यः कुन्तीसुतो राजा सुजातं चास्य धीमतः । 014a
अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् ॥ 014c
सञ्जय उवाच 015
द्रोणेन चैवमुक्तस्य तव पुत्रस्य भारत । 015a
सहसा निःसृतो भावो योस्य नित्यं हृदि स्थितः ॥ 015c
नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि । 016a
तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् ॥ 016c
वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम । 017a
हते युधिष्ठिरे पार्था हन्युःसर्वान्हि नो ध्रुवम् ॥ 017c
नैव शक्या रणे सर्वे निहन्तुममरैरपि । 018a
'यदि सर्वे हनिष्यन्ते पाण्डवाः ससुता मृधे ॥ 018c
ततः कृत्स्नं वशे कृत्वा निःशेषं नृपमण्डलम् । 019a
ससागरवनां स्फीतां विजित्य वसुधामिमाम् ॥ 019c
विष्णुर्दास्यति कृष्णायै कुन्त्यै वा पुरुषोत्तमः' । 020a
यद्येष चैषां शेषःस्यात्स एवास्मान्न शेषयेत् ॥ 020c
सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते । 021a
'तस्मिञ्जीवति चायाते ह्युपायैर्बहुभिः कृतैः ।' 021c
पुनर्यास्यन्त्यरण्याय पाण्डवास्तमनुव्रताः ॥ 021e
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति । 022a
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् ॥ 022c
सञ्जय उवाच 023
तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् । 023a
तं वरं सान्तरं तस्मै ददौ सञ्चिन्त्य बुद्धिमान् ॥ 023c
द्रोण उवाच 024
न चेद्युधिष्ठिरं वीरः पालयेदर्जुनो युधि । 024a
मन्यस्व पाण्डवश्रेष्ठमानीतं वशमात्मनः ॥ 024c
न हि शक्यो रणे पार्थः सेन्द्रैर्देवासुरैरपि । 025a
प्रत्युद्यातुमतस्तात न तस्माद्धर्षयाम्यहम् ॥ 025c
असंशयं स मे शिष्यो मत्पूर्वश्चास्त्रकर्मणि । 026a
तरुणः सुकृती युक्त एकायनगतश्च सः ॥ 026c
अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् । 027a
अमर्षितश्च ते राजंस्ततो नामर्षयाम्यहम् ॥ 027c
स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते । 028a
अपनीते ततः पार्थे धर्मराजो जितस्त्वया ॥ 028c
ग्रहणे हि जयस्तस्य न वधे पुरुषर्षभ । 029a
'ग्रहणं हि वधात्तस्य धर्मराजस्य मन्यसे ।' 029c
अनेनैवाभ्युपायेन ग्रहणं समुपैष्यसि ॥ 029e
अहं गृहीत्वा राजानं सत्यधर्मपरायणम् । 030a
आनयिष्यामि ते राजन्वशमद्य न संशयः ॥ 030c
यदि स्थास्यति सङ्ग्रामे मुहूर्तमपि मेऽग्रतः । 031a
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये ॥ 031c
फल्गुनस्य समीपे तु न हि शक्यो युधिष्ठिरः । 032a
ग्रहीतुं समरे राजन्सेन्द्रैरपि सुरासुरैः ॥ 032c
सञ्जय उवाच 033
'एवमुक्ते तदा तस्मिन्युद्धे देवासुरोपमे।' 033a
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे । 033c
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः ॥ 033e
ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् । 034a
'स्कन्धावारेषु सर्वेषु यथास्थानेषु मारिष।' 034c
सैन्यस्थानेषु सर्वेषु सुघोषितमरिन्दम ॥ 034e
पाण्डवेयेषु सापेक्षं द्रोणं जानाति ते सुतः । 035a
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः ॥ ॥ 035c

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि द्वादशोऽध्यायः ॥ 12 ॥

5-12-11 एतां वधरूपां क्रियां मत्तो नाशंससि न सम्भावयसि ॥ 5-12-12 तदिच्छसि त्वम् इति क.ख.पाठः ॥ 5-12-14 सुजातं शोभनं जन्म 5-12-22 व्यक्तं नियतम् ॥ 5-12-26 मत्पूर्वः अहं पूर्वो गुरुर्यस्य । एकायनगतः जयमरणान्यतरनिश्चयवान् ॥ 5-12-35 बहुलीकृतः प्रतिज्ञां न त्यजेदिति बहुषु प्रकाशितः ॥ 5-12-12 द्वादशोऽध्यायः ॥