श्रीः अध्यायः 011

धृतराष्ट्रेण प्रसङ्गाद्भक्त्युद्रेकेण श्रीकृष्णचरित्रानुकीर्तनम् ॥ 1 ॥ धृतराष्ट्रेण बहुधा विचिन्त्य सञ्जयम् प्रति युद्धकथनचोदना ॥ 2 ॥ धृतराष्ट्र उवाच 001
शृणु दिव्यानि कर्माणि वासुदेवस्य सञ्जय । 001a
कृतवान्यानि गोविन्दो यथा नान्यःपुमान्क्वचित् ॥ 001c
संवर्धता गोपकुले बालेनैव महात्मना । 002a
विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु सञ्जय ॥ 002c
पूतनां शकटं हत्वा केशिनं चैव वाजिनम् । 003a
ऋषभं धेनुकं चैव अरिष्टं च महाबलम् ॥ 003c
दावान्मुक्त्वा महाबाहुर्धृत्वा गोवर्धनं गिरिम् । 004a
चाणूरं मुष्टिकं चैव रङ्गमध्ये निहत्य च ॥ 004c
प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् । 005a
मुरुं चान्तकसङ्काशमवधीत्पुष्करेक्षणः ॥ 005c
तथा कंसो महातेजा जरासन्धेन पालितः । 006a
विक्रमेणैव कृष्णेन सगणः पातितो रणे ॥ 006c
सुनामा रणविक्रान्तः समग्राक्षौहिणीपतिः । 007a
भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् ॥ 007c
बलदेवद्वितीयेन कृष्णेनामित्रघातिना । 008a
तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् ॥ 008c
दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः । 009a
आराधितः सदारेण स चास्मै प्रददौ वरान् ॥ 009c
तथा गान्धारराजस्य सुतां वीरः स्वयंवरे । 010a
निर्जित्य पृथिवीपालानावहत्पुष्करेक्षणः ॥ 010c
अमृष्यमाणा राजानो यस्य जात्या हया इव । 011a
रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः ॥ 011c
जरासन्धं महाबाहुमुपायेन जनार्दनः । 012a
परेण घातयामास समग्राक्षौहिणीपतिम् ॥ 012c
चेदिराजं च विक्रान्तं राजसेनापतिं बली । 013a
अर्घे विवदमानं च जघान पशुवत्तदा ॥ 013c
सौभं दैत्यपुरं खस्थं शाल्वगुप्तं दुरासदम् । 014a
समुद्रकुक्षौ विक्रम्य पातयामास माधवः ॥ 014c
अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् । 015a
वात्स्यगार्ग्यकरूषांश्च पौण्ड्रांश्चाप्यजयद्रणे ॥ 015c
आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान् । 016a
काश्मीरकानौरसिकान्पिशाचांश्च समुद्गलान् ॥ 016c
काम्भोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च सञ्जय । 017a
त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् ॥ 017c
नानादिग्भ्यश्च सम्प्राप्तान्खशांश्चैव शकांस्तथा । 018a
जितवान्पुण्डरीकाक्षो यवनं च सहानुगम् ॥ 018c
प्रविश्य मकरावासं यादोगणनिषेवितम् । 019a
जिगाय वरुणं सङ्ख्ये सलिलान्तर्गतं पुरा ॥ 019c
युधि पञ्चजनं हत्वा दैत्यं पातालवासिनम् । 020a
पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् ॥ 020c
खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् । 021a
आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः ॥ 021c
वैनतेयं समारुह्य त्रासयित्वाऽमरावतीम् । 022a
महेन्द्रभवनाद्वीरः पारिजातमुपानयत् ॥ 022c
तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम् । 023a
राज्ञां चाप्यजितं कञ्चित्कृष्णेनेह न शुश्रुम ॥ 023c
यच्च तन्महदाश्चर्यं सभायां मम सञ्जय । 024a
कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति ॥ 024c
यच्च भक्त्या प्रसन्नोऽहमद्राक्षं कृष्णमीश्वरम् । 025a
तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमम् ॥ 025c
नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः । 026a
कर्मणां शक्यते गन्तुं हृषीकेशस्य सञ्जय ॥ 026c
तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः । 027a
अगावहोऽनिरुद्धश्च चारुदेष्णः ससारणः ॥ 027c
उल्मुको निशठश्चैव झिल्ली बभ्रुश्च वीर्यवान् । 028a
पृथुश्च विपृथुश्चैव शमीकोऽथारिमेजयः ॥ 028c
एतेऽन्ये बलवन्तश्च वृष्णिवीराः प्रहारिणः । 029a
कथञ्चित्पाण्डवानीकं श्रयेयुः समरे स्थिताः ॥ 029c
आहूता वृष्णिवीरेण केशवेन महात्मना । 030a
ततः संशयितं सर्वे भवेदिति मतिर्मम ॥ 030c
नागायुतबलो वीरः कैलासशिखरोपमः । 031a
वनमाली हली रामस्तत्र यत्र जनार्दनः ॥ 031c
यमाहुः सर्वपितरं वासुदेवं द्विजातयः । 032a
अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय ॥ 032c
स यदा तात सन्नह्येत्पाण्डवार्थाय सञ्जय । 033a
न तदा प्रतिसंयोद्धा भविता तत्र कश्चन ॥ 033c
यदि स्म कुरवः सर्वे जयेयुर्नाम पाण्डवान् । 034a
वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् ॥ 034c
ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे । 035a
कौरवांश्च महाबाहुःकुन्त्यै दद्यात्स मेदिनीम् ॥ 035c
यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः । 036a
रथस्य तस्य कः सङ्ख्ये प्रत्यनीको भवेद्रथः ॥ 036c
न केनचिदुपायेन कुरूणां दृश्यते जयः । 037a
तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत ॥ 037c
अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः । 038a
अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती ॥ 038c
सर्वेष्वपि च लोकेषु बीभत्सुरपराजितः । 039a
प्राधान्येनैव भूयिष्ठममेयाः केशवे गुणाः ॥ 039c
मोहाद्दुर्योधनः कृष्णं यो न वेत्तीह केशवम् । 040a
मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः ॥ 040c
न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् । 041a
पूर्वदेवौ महात्मानौ नरनारायणावुभौ ॥ 041c
एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि । 042a
मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ ॥ 042c
नाशयेतामिहेच्छन्तौ मानुषत्वाच्च नेच्छतः । 043a
युगस्येव विपर्यासो लोकानामिव मोहनम् ॥ 043c
भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः । 044a
न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च ॥ 044c
न क्रियाभिर्न चास्त्रेण मृत्योः कश्चिन्निर्वायते । 045a
लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ ॥ 045c
भीष्मद्रोणौ हतौ श्रुत्वा किन्नु जीवामि सञ्जय । 046a
यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे ॥ 046c
अद्य तामनुजानीमो भीष्मद्रोणवधेन ह । 047a
मत्कृते चाप्यनुप्राप्तः कुरूणामेष सङ्क्षयः ॥ 047c
पक्वानां हि वधे सूत वज्रायन्ते तृणान्युत । 048a
अनन्तमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः ॥ 048c
यस्य कोपान्महात्मानौ भीष्मद्रोणौ निपातितौ । 049a
प्राप्तः प्रकृतितो धर्मो न धर्मो मामकान्प्रति ॥ 049c
क्रूरः सर्वविनाशाय कालोऽसौ नातिवर्तते । 050a
अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः । 050c
अन्यथैव प्रपद्यन्ते दैवादिति मतिर्मम ॥ 050e
तस्मादपरिहार्येऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे । 051a
अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे ॥ ॥ 051c

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशोऽध्यायः ॥ 11 ॥

5-11-6 विक्रमेणैव अस्त्रं विना ॥ 5-11-12 परेण भीमेन ॥ 5-11-11 एकादशोऽध्यायः ॥