श्रीः

अध्यायः 010 द्रोणमरणश्रवणेन मूर्छितस्य धृतराष्ट्रस्य परिचारिकाभिर्जलसेचनादिना समुद्बोधनम् ॥ 1 ॥ धृतराष्ट्रेण सञ्जयम् प्रति युद्धकथनचोदना ॥ 2 ॥ वैशम्पायन उवाच 001
एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् । 001a
जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ ॥ 001c
तं विसञ्ज्ञं निपतितं सिषिचुः परिचारिकाः । 002a
जलेनात्यर्थशीतेन जीवन्त्यः पुण्यगन्धिना ॥ 002c
पतितं चैनमालोक्य समस्ता भरतस्त्रियः । 003a
परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः ॥ 003c
उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् । 004a
आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराननाः ॥ 004c
आसनं प्राप्य राजा तु मूर्च्छयाऽभिपरिप्लुतः । 005a
निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः ॥ 005c
स लब्ध्वा शनकैः सञ्ज्ञां वेपमानो महीपतिः । 006a
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥ 006c
धृतराष्ट्र उवाच 007
यः स उद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः । 007a
अजातशत्रुमायान्तं कस्तं द्रोणादवारयत् ॥ 007c
प्रभिन्नमिव मातङ्गं यथा क्रुद्धं तरस्विनम् । 008a
प्रसन्नवदनं दृष्ट्वा प्रतिद्विरदगामिनम् ॥ 008c
वासितासङ्गमे यद्वदजय्यं प्रतियूथपैः । 009a
निजघान रणे वीरान्वीरः पुरुषसत्तमः ॥ 009c
यो ह्येको हि महावीर्यो निर्दहेद्घोरचक्षुषा । 010a
कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसङ्गरः ॥ 010c
चक्षुर्हणं जये सक्तमिष्वासधरमच्युतम् । 011a
दान्तं बहुमतं लोके के शूराः पर्यवारयन् ॥ 011c
के दुष्प्रधर्षं राजानमिष्वासधरमच्युतम् । 012a
समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः ॥ 012c
तरसैवाभिपद्याथ यो वै द्रोणमुपाद्रवत् । 013a
यः करोति महत्कर्म शत्रूणां वै महाबलः ॥ 013c
महाकायो महोत्साहो नागायुतसमो बले । 014a
तं भीमसेनमायान्तं के शूराः पर्यवारयन् ॥ 014c
यदायाज्जलदप्रख्यो रथः परमवीर्यवान् । 015a
पर्जन्य इव बीभत्सुस्तुमुलामशनीं सृजन् ॥ 015c
विसृजञ्छरजालानि वर्षाणि मघवानिव । 016a
अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च ॥ 016c
चापविद्युत्प्रभो घोरो रथगुल्मबलाहकः । 017a
सनेमिघोषस्तनितः शरशब्दातिबन्धुरः ॥ 017c
रोषनिर्जितजीमूतो मनोभिप्रायशीघ्रगः । 018a
मर्मातिगो बाणधरस्तुमुलः शोणितोदकैः ॥ 018c
सम्प्लावयन्दिशः सर्वा मानवैरास्तरन्महीम् । 019a
भीमनिःस्वनितो रौद्रो दुर्योधनपुरोगमान् ॥ 019c
युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः । 020a
गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा ॥ 020c
इषुसम्बाधमाकाशं कुर्वन्कपिवरध्वजः । 021a
यदायात्कथमासीत्तु तदा पार्थं समीक्षताम् ॥ 021c
कच्चिद्गाण्डीवशब्देन न प्रणश्यति वै बलम् । 022a
यद्वः सभैरवं कुर्वन्नर्जुनो भृशमन्वयात् ॥ 022c
कच्चिन्नापानुदत्प्रामानिषुभिर्वो धनञ्जयः । 023a
वातो वेगादिवाविध्यन्मेघाञ्शरगणैर्नृपान् ॥ 023c
को हि गाण्डीवधन्वानं रणे सोढुं नरोऽर्हति । 024a
यमुपश्रुत्य सेनाग्रे जनः सर्वो विदीर्यते ॥ 024c
यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् । 025a
के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात् ॥ 025c
के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् । 026a
अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम् ॥ 026c
न च वेगं सिताश्वस्य विसहिष्यन्ति मामकाः । 027a
गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिःस्वनम् ॥ 027c
विष्वक्सेनो यस्य यन्ता यस्य योद्धा धनञ्चयः । 028a
अशक्यः स रथो जेतुं मन्ये देवासुरैरपि ॥ 028c
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः । 029a
मेधावी निपुणो धीमान्युधि सत्यपराक्रमः ॥ 029c
आरावं विपुलं कुर्वन्व्यथयन्सर्वसैनिकान् । 030a
यदायान्नकुलो द्रोणं के शूराः पर्यवारयन् ॥ 030c
आशीविष इव क्रुद्धः सहदेवो यदाऽभ्ययात् । 031a
कदनं करिष्यञ्शत्रूणां तेजसा दुर्जयो युधि ॥ 031c
आर्यव्रतममोघेषुं ह्रीमन्तमपराजितम् । 032a
सहदेवं तमायान्तं के शूराः पर्यवारयन् ॥ 032c
यस्तु सौवीरराजस्य प्रमथ्य महतीं चमूम् । 033a
आदत्त महिषीं भोजां काम्यां सर्वाङ्गशोभनाम् ॥ 033c
सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् । 034a
सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे ॥ 034c
बलिनं सत्यकर्माणमदीनमपराजितम् । 035a
वासुदेवसमं युद्धे वासुदेवादनन्तरम् ॥ 035c
धनञ्जयोपदेशेन श्रेष्ठमिष्वस्त्रकर्मणि । 036a
पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत् ॥ 036c
वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् । 037a
रामेण सममस्त्रेषु यशसा विक्रमेण च ॥ 037c
सत्यं धृतिर्मतिः शौर्यं ब्राह्मं चास्त्रमनुत्तमम् । 038a
सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे ॥ 038c
तमेवङ्गुणसम्पन्नं दुर्वारमपि दैवतैः । 039a
समासाद्य महेष्वासं के शूराः पर्यवारयन् ॥ 039c
पाञ्चालेषूत्तमं वीरमुत्तमाभिजनप्रियम् । 040a
नित्यमुत्तमकर्माणमुत्तमौजसमाहवे ॥ 040c
युक्तं धनञ्जयहिते ममानर्थार्थमुत्थितम् । 041a
यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् ॥ 041c
महारथं समाख्यातं द्रोणायोद्यतमाहवे । 042a
त्यजन्तं तुमुले प्राणान्के शूराः समवारयन् ॥ 042c
एकोपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः । 043a
धृष्टकेतुं समायान्तं द्रोणं कस्तं न्यवारयत् ॥ 043c
योऽवधीत्केतुमान्वीरो राजपुत्रं दुरासदम् । 044a
अपरान्तगिरिद्वारे द्रोणात्कस्तं न्यवारयत् ॥ 044c
स्त्रीपुंसयोर्नरव्याघ्रो यः स वेद गुणागुणान् । 045a
शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि ॥ 045c
देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः । 046a
द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् ॥ 046c
यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनञ्जयात् । 047a
यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च सर्वदा ॥ 047c
वासुदेवसमं वीर्ये धनञ्जयसमं बले । 048a
तेजसाऽऽदित्यसदृशं बृहस्पतिसमं मतौ ॥ 048c
अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम् । 049a
द्रोणायाभिमुखं यान्तं के शूराः समवारयन् ॥ 049c
तरुणस्तरुणप्रज्ञः सौभद्रः परवीरहा । 050a
यदाभ्यधावद्वै द्रोणं तदाऽऽसीद्वो मनः कथम् ॥ 050c
द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः । 051a
यद्द्रोणमाद्रवन्सङ्ख्ये के शूरास्तान्न्यवारयन् ॥ 051c
एते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः । 052a
अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम् ॥ 052c
क्षत्रञ्जयः क्षत्रदेवः क्षत्रवर्मा च मानदः । 053a
धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् ॥ 053c
शताद्विशिष्टं यं युद्धे सममन्यन्त वृष्णयः । 054a
चेकितानं महेष्वासं कस्तं द्रोणादवारयत् ॥ 054c
वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि । 055a
अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् ॥ 055c
भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः । 056a
इन्द्रगोपकसङ्काशा रक्तवर्मायुधध्वजाः ॥ 056c
मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः । 057a
तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् ॥ 057c
यं योधयन्तो राजानो नाजयन्वारणावते । 058a
षण्मासानपि संरब्धा जिघांसन्तो युधां पतिम् ॥ 058c
धनुष्मतां वरं शूरं सत्यसन्धं महाबलम् । 059a
द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत् ॥ 059c
यः पुत्रं काशिराजस्य वाराणस्यां महारथम् । 060a
समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात् ॥ 060c
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् । 061a
युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च ॥ 061c
निर्दहन्तं रणे योधान्दारयन्तं च सर्वतः । 062a
द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन् ॥ 062c
उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम् । 063a
शैखण्डिनं शस्त्रगुप्तं के च द्रोणादवारयन् ॥ 063c
य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् । 064a
महता रथघोषेण मुख्यारिघ्नो महारथः ॥ 064c
दशाश्वमेधानाजह्रे स्वन्नपानाप्तदक्षिणान् । 065a
निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः ॥ 065c
विसृष्टा दक्षिणा यस्य गङ्गाजलमवारयत् । 066a
गङ्गास्रोतसि यावत्यः सिकता अप्यशेषतः । 066c
तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे ॥ 066e
न पूर्वे नापरे चक्रुरिदं केचन मानवाः । 067a
इतीदं चुक्रुशुर्देवाः कृते कर्मणि दुष्करे ॥ 067c
पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु । 068a
जातं चापि जनिष्यन्तं द्वितीयं चापि साम्प्रतम् ॥ 068c
अन्यमौशीनराच्छैब्याद्धुरो वोढारमित्युत । 069a
गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः ॥ 069c
तस्य नप्तारमायान्तं शैब्यं कः समवारयत् । 070a
द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम् ॥ 070c
विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः । 071a
प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् ॥ 071c
सद्यो वृकोदराज्जातो महाबलपराक्रमः । 072a
मायावी राक्षसो वीरो यस्मान्मम महद्भयम् ॥ 072c
पार्थानां जयकामं तं पुत्राणां मम कण्टकम् । 073a
घटोत्कचं महात्मानं कस्तं द्रोणादवारयत् ॥ 073c
एते चान्ये च बहवो येषामर्थाय सञ्जय । 074a
त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि ॥ 074c
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः। 075a
हितार्थी चापि पार्थानां कथं तेषां पराजयः ॥ 075c
लोकानां गुरुरत्यर्थं लोकनाथः सनातनः । 076a
नारायणो रणे नाथो दिव्यो दिव्यात्मकः प्रभुः ॥ 076c
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः । 077a
तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः ॥ ॥ 077c

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि दशमोऽध्यायः ॥ 10 ॥

5-10-8 सः प्रसिद्धः । तमजातशत्रुम् आयान्तं दृष्ट्वा द्रोणात्कः अवारयदित्यन्वयः ॥ 5-10-15 यदा अयात् यदा च दुर्योधनपुरोगमान्गार्ध्रपत्रैरभ्यषिञ्चत्तदा वो मनः कीदृशमभूदिति षष्ठेनान्वयः ॥ 5-10-34 युयुधाने सात्यकौ ॥ 5-10-38 सात्वते सात्यकौ ॥ 5-10-68 स्थास्नुचारिषु स्थावरजङ्गमात्मकेषु । स्नमित्यस्य व्यवहितेन पश्याम इत्यनेन सम्बन्धः ॥ 5-10-10 दशमोऽध्यायः ॥ 10 ॥