श्रीः
अध्यायः 009
द्रोणमरणश्राविणो धृतराष्ट्रस्य तद्गुणानुवर्णनपूर्वकं शोचनम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः । 001a
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि ॥ 001c
रथः पर्यपतद्वाऽस्य धनुर्वाऽशीर्यतास्यतः । 002a
प्रमत्तो वाऽभवद्द्रोणो यथा मृत्युमुपेयिवान् ॥ 002c
कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् । 003a
किरन्तमिषुसङ्घातान्रुक्मपुङ्खाननेकशः ॥ 003c
क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् । 004a
दूरेषुपातिनं दान्तमस्त्रयुद्धेषु पारगम् ॥ 004c
पाञ्चालपुत्रो न्यवधीद्दिव्यास्त्रधरमच्युतम् । 005a
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् ॥ 005c
व्यक्तं हि दैवं बलवत्पौरुषादिति मे मतिः । 006a
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना ॥ 006c
अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् । 007a
तमिष्वस्त्रधराचार्यं द्रोणं शंससि मे हतम् ॥ 007c
श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् । 008a
जातरूपपरिष्कारं नाद्य शोकमपानुदे ॥ 008c
न नूनं परदुःखेन म्रियते कोऽपि सञ्जय । 009a
यत्र द्रोणमहं श्रुत्वा हतं जीवामि मन्दधीः । 009c
दैवमेव परं मन्ये नन्वनर्थं हि पौरुषम् ॥ 009e
अश्मसारमयं नूर्न हृदयं सुदृढं मम । 010a
यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ॥ 010c
ब्राह्मे दैवे तथेष्वस्त्रे यमुपासन्गुणार्थिनः । 011a
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हृतः ॥ 011c
शोषणं सागरस्येव मेरोरिव विसर्पणम् । 012a
पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ॥ 012c
दुष्टानां प्रतिषेद्धासीद्धार्मिकाणां च रक्षिता । 013a
योऽहासीत्कृपणस्यार्थे प्राणानपि परन्तपः ॥ 013c
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे । 014a
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ॥ 014c
'गुणानां सर्वयोधानां स्थितिरासीन्महाद्युतिः । 015a
यं मृत्युर्वशगस्तिष्ठेत्स कथं मृत्युना हतः ॥' 015c
ते च शोणा बृहन्तोऽश्वाश्छन्ना जालैर्हिरण्मयैः । 016a
रथे वातजवा युक्ताः सर्वशस्त्रातिगा रणे ॥ 016c
बलिनो ह्रेषिणो दान्ताः सैन्धवाः साधुवाहिनः । 017a
दृढाः सङ्ग्राममध्येषु कच्चिदासन्न विह्वलाः ॥ 017c
करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिःस्वनैः । 018a
ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ॥ 018c
आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः । 019a
हयाः पराजिताः शीघ्रा भारद्वाजरथोद्वहाः ॥ 019c
ते स्म रुक्मरथे युक्ता नरवीरसमास्थिताः । 020a
कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ॥ 020c
जातरूपपरिष्कारामास्थाय रथमुत्तमम् । 021a
भारद्वाजः किमकरोद्युधि सत्यपराक्रमः ॥ 021c
विद्यां यस्योपजीवन्ति सर्वलोकधनुर्धराः । 022a
स सत्यसन्धो बलवान्द्रोणः किमकरोद्युधि ॥ 022c
दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् । 023a
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ॥ 023c
ननु रुक्मरथं दृष्ट्वा प्राद्रवन्ति स्म पाण्डवाः । 024a
दिव्यमस्त्रं विकुर्वाणं रणे तस्मिन्महाबलम् ॥ 024c
उताहो सर्वसैन्येन धर्मराजः सहानुजः । 025a
पाञ्चालप्रग्रहो द्रोणं सर्वतः समवारयत् ॥ 025c
नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः । 026a
ततो द्रोणं समहरत्पार्षतः पापकर्मकृत् ॥ 026c
नह्यहं परिपश्यामि वधे कञ्चन शुष्मिणः । 027a
धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना ॥ 027c
'उताहो सर्वसैन्येन धर्मराजः सहानुजः । 028a
उत्सृज्य सर्वसैन्यानि द्रोणं तमभिदुद्रुवे ॥' 028c
तैर्वृतः सर्वतः क्षुद्रैः पाञ्चालापशदैस्ततः । 029a
केकयैश्चेदिकारूशैर्मत्स्यैरन्यैश्च भूमिपैः ॥ 029c
व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा । 030a
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ॥ 030c
योऽधीत्य चतुरो वेदान्साङ्गानाख्यानपञ्चमान् । 031a
ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः ॥ 031c
क्षत्रं च ब्रह्म चैवेह योऽभ्यतिष्ठत्परन्तपः । 032a
'दृप्तानां प्रतिषेद्धा च चक्षुरासीदचक्षुषाम् ॥ 032c
अमर्षी चावलिप्तेषु धार्मिकेषु च धार्मिकः ।' 033a
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ॥ 033c
अमर्षिणा मर्षितवान्क्लिश्यमानान्सदा मया । 034a
अनर्हमाणान्कौन्तेयान्कर्मणस्तस्य तत्फलम् ॥ 034c
यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः । 035a
स सत्यसन्धः सुकृती श्रीकामैर्निहतः कथम् ॥ 035c
दिवि शक्र इव श्रेष्ठो महासत्वो महाबलः । 036a
स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ॥ 036c
क्षिप्रहस्तश्च बलवान्दृढघन्वारिमर्दनः । 037a
न यस्य विजयाकाङ्क्षी विषयं प्राप्य जीवति ॥ 037c
यं द्वौ न जहतः शब्दौ जीवमानं कदाचन । 038a
ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुष्मताम् ॥ 038c
अदीनं पुरुषव्याघ्रं ह्रीमन्तमपराजितम् । 039a
तमिष्वासवराचार्यं द्रोणं जघ्नुः कथं रथाः ॥ 039c
'नाहं मन्ये हतं द्रोणं स हि लोकमयोत्स्यत । 040a
को हि शक्तो रणे जेतुमनाधृष्ययशोबलम् ॥ 040c
ब्रह्मकल्पो भवेद्ब्राह्मे क्षात्रे नारायणोपमः । 041a
ब्रह्मक्षत्रे च यस्यास्तां वशे स्थाणोरिवाखिले ॥ 041c
सर्वान्हि मामकान्वीरान्सहाश्वरथकुञ्जरान् । 042a
युधिष्ठिरस्य तपसा हतान्मन्यामहे कुरून् ॥' 042c
कथं सञ्जय दुर्धर्षमनाधृष्ययशोबलम् । 043a
पश्यतां पुरुषेन्द्राणां समरे पार्षतोऽवधीत् ॥ 043c
के पुरस्तादयुध्यन्त रक्षन्तो द्रोणमन्तिकात् । 044a
के नु पश्चादवर्तन्त गच्छतो दुर्गमां गतिम् ॥ 044c
केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः । 045a
पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे ॥ 045c
के च तस्मिंस्तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् । 046a
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ॥ 046c
कच्चिन्नैनं भयान्मन्दाः क्षत्रिया व्यजहन्रणे । 047a
रक्षितारस्ततः शून्ये कच्चित्तैर्न हतः परैः ॥ 047c
न स पृष्ठमरेस्त्रासाद्रणे शौर्यात्प्रदर्शयेत् । 048a
परामप्यापदं प्राप्य स कथं निहतः परैः ॥ 048c
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय । 049a
पराक्रमेद्यथा शक्त्या तच्च तस्मिन्प्रतिष्ठितम् । 049c
'यो यथाशक्ति युद्ध्येत द्विषद्भिःस्वांश्च पालयन् ॥ 049a
कच्चिन्नैनं भयात्क्षुद्राः पार्थेभ्यः प्रददू रणे । 050c
गोप्तृभिस्तैः समुत्सृष्टः कच्चिन्नैष परैर्हतः ॥ 050a
धृष्टद्युम्नं प्रपश्यामि निघ्नन्तमिव ब्राह्मणम् । 051c
वार्यमाणं रणे तात द्रौणिनाऽमिततेजसा ॥' 051a
मुह्यते मे मनस्तात कथा तावन्निवार्यताम् । 052c
भूयस्तु लब्धसञ्ज्ञस्त्वां परिपृच्छामि सञ्जय ॥ ॥ 052a
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि नवमोऽध्यायः ॥ 9 ॥
5-1-2 अस्यतः शरानिति शेषः ॥ 5-1-17 बलिनस्तेजस्विनः ॥ 5-1-23 महामात्रं प्रधानम् ॥ 5-1-25 पाञ्चालप्रग्रहः पाञ्चालः प्रग्रहो बन्धरज्जुर्यस्य 5-1-27 शुष्मिणस्तेजस्विनः ॥ 5-1-29 अपशदोऽधमः ॥ 5-1-31 आख्यानं पुराणभारतादि ॥ 5-1-9 नवमोऽध्यायः ॥