श्रीः

अध्यायः 007 दुर्योधनेन द्रोणस्य सैनापत्येऽभिषेचनम् ॥ 1 ॥ द्रोणयुद्धवर्णनम् ॥ 2 ॥ द्रोण उवाच 001
वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् । 001a
त्रैय्यम्बकमथेष्वस्त्रं शस्त्राणि विविधानि च ॥ 001c
ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः । 002a
चिकीर्षुस्तानहं सर्वान्योधयिष्यामि पाण्डवान् ॥ 002c
पार्षतं तु रणे राजन्न हनिष्ये कथञ्चन । 003a
स हि सृष्टो वधार्थाय ममैव पुरुषर्षभः ॥ 003c
योधयिष्यामि सैन्यानि नाशयन्सर्वसोमकान् । 004a
न च मां पाण्डवा युद्धे योधयिष्यन्ति हर्षिताः ॥ 004c
सञ्जय उवाच 005
स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः । 005a
द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा ॥ 005c
अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः । 006a
'स्वस्तिवादरवैश्चान्यैः श्लक्ष्णैश्चान्यैर्मनोरमैः ।' 006c
सैनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः ॥ 006e
ततो वादित्रघोषेण शङ्खानां च महास्वनैः । 007a
प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा ॥ 007c
ततः पुण्याहघोषेण साशीर्वादस्वनेन च । 008a
संस्तवैर्गीतशब्दैश्च सूतमागधवन्दिनाम् ॥ 008c
जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा । 009a
सत्कृत्य विधिना द्रोणं मेनिरे पाण्डवाञ्जितान् ॥ 009c
सञ्जय उवाच 010
सैनापत्यं तु सम्प्राप्य भारद्वाजो महारथः । 010a
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह ॥ 010c
सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः । 011a
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः ॥ 011c
प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः । 012a
ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः ॥ 012c
कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः । 013a
दुःशासनमुखा यत्ताः सव्यं पक्षमपालयन् ॥ 013c
तेषां प्रपक्षाः काम्भोजाः सुदक्षिणपुरस्सराः । 014a
ययुरश्वैर्महावेगैः शकाश्च यवनैः सह ॥ 014c
मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यमालवाः । 015a
शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह ॥ 015c
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः । 016a
तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः ॥ 016c
हर्षयन्तः स्वसैन्यानि ययुस्तव सुतैः सह । 017a
प्रवरः सर्वयोधानां बलेषु बलमादधत्॥ 017c
ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् । 018a
तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन् ॥ 018c
हस्तिकक्ष्यो महाकेतुर्बभौ सूर्यसमद्युतिः । 019a
न भीष्मव्यसनं कश्चिदृष्ट्वा कर्णममन्यत ॥ 019c
विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह । 020a
हृष्टाश्च बहवो योधास्तत्राजल्पन्त वेगतः ॥ 020c
न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः । 021a
कर्णो हि समरे शक्तो जेतुं देवान्सवासवान् ॥ 021c
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् । 022a
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना ॥ 022c
तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यति संयुगे । 023a
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशाम्पते ॥ 023c
राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः । 024a
अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत् ॥ 024c
परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् । 025a
प्रीयमाणेन विहितो धर्मराजेन भारत ॥ 025c
व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ । 026a
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनञ्जयौ ॥ 026c
ककुदं सर्वसैन्यानां धाम सर्वधनुष्मताम् । 027a
आदित्यपथगः केतुः पार्थस्यामिततेजसः ॥ 027c
दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः । 028a
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुन्धराम् ॥ 028c
दीप्यन्दृश्येत हि तथा केतुः सर्वत्र धीमतः । 029a
योधानामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् ॥ 029c
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् । 030a
चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः ॥ 030c
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् । 031a
एवं तौ सुमहात्मानौ बलसेनाग्रगावुभौ ॥ 031c
तावकानां मुखे कर्णः परेषां च धनञ्जयः । 032a
ततो जयाभिसंरब्धौ परस्परवधैषिणौ ॥ 032c
अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ । 033a
ततः प्रयाते सहसा भारद्वाजे महारथे ॥ 033c
सिंहनादेन घोरेण वसुधा समकम्पत । 034a
ततस्तुमुलमाकाशमावृणोत्सदिवाकरम् ॥ 034c
वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम् । 035a
ववर्ष द्यौरनभ्राऽपि मांसास्थिरुधिराण्युत ॥ 035c
गृध्राः श्येना बकाः कङ्का वायसाश्च सहस्रशः । 036a
उपर्युपरि सेनां ते तदा पर्यपतन्नृप ॥ 036c
गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् । 037a
अकार्षुरपसव्यं च बहुशः पृतनां तव ॥ 037c
चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् । 038a
अपतद्दीप्यमाना च सनिर्घाता सकम्पना ॥ 038c
उल्का ज्वलन्ती सङ्ग्रामे पुच्छेनावृत्य सर्वशः । 039a
परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् ॥ 039c
भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ । 040a
एते चान्ये च बहवः प्रादुरासन्सुदारुणाः । 040c
उत्पाता युधि वीराणां जीवितक्षयकारिणः ॥ 04e
ततः प्रववृते युद्धं परस्परवधैषिणाम् । 041a
कुरुपाण्डवसैन्यानां शब्देनापूरयज्जगत् ॥ 041c
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह । 042a
अभ्यघ्नन्निशितैः शस्त्रैर्जयगृद्धाः प्रहारिणः ॥ 042c
स पाण्डवानां महतीं महेष्वासो महाद्युतिः । 043a
वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः ॥ 043c
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सहसृञ्जयैः । 044a
प्रत्यगृह्णंस्तदा राजञ्छरवर्षैः पृथक्पृथक् ॥ 044c
विक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः । 045a
व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः ॥ 045c
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे । 046a
अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् ॥ 046c
ते वध्यमाना द्रोणेन वासवेनेव दानवाः । 047a
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः ॥ 047c
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः । 048a
अभिनच्छरवर्षेण द्रोणानीकमनेकधा ॥ 048c
द्रोणस्य शरवर्षाणि शरवर्षेण पार्षतः । 049a
सन्निवार्य ततः सर्वान्कुरूनप्यवधीद्बली ॥ 049c
संयम्य तु ततो द्रोणः समवस्थाप्य चाहवे । 050a
स्वमनीकं महेष्वासः पार्षतं समुपाद्रवत् ॥ 050c
स बाणवर्षं सुमहदसृजत्पार्षतं प्रति । 051a
मघवान्समभिक्रुद्धः सहसा दानवानिव ॥ 051c
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः । 052a
पुनःपुनरभज्यन्त सिंहेनैवेतरे मृगाः ॥ 052c
तथा पर्यपतद्द्रोणः पाण्डवानां बले बली । 053a
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् ॥ 053c
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्लादनं वल्गिताश्वम् । 054a
स्फटिकविमलकेतुं त्रासनं शात्रवाणां रथवरमधिरूढः सञ्जहारारिसेनाम् ॥ ॥ 054c

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि सप्तमोऽध्यायः ॥7॥

5-1-9 सुभगानर्तितैः सौभाग्यवतीनृत्तैः ॥ 5-1-27 आदित्यपथगः आकाशगः ॥ 5-1-54 ह्लादनं योद्धुरानन्दजननम् ॥ 5-1-7 सप्तमोऽध्यायः ॥