श्रीः
अध्यायः 006
दुर्योधनेन द्रोणम् प्रति सैनापत्यस्वीकारप्रार्थना ॥ 1 ॥
सञ्जय उवाच 001
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा । 001a
सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् ॥ 001c
दुर्योधन उवाच 002
वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया । 002a
वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात् ॥ 002c
तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि । 003a
युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते ॥ 003c
स भवान्पातु नः सर्वान्देवानिव शतक्रतुः । 004a
भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम ॥ 004c
रुद्राणामिव कापालिर्वसूनामिव पावकः । 005a
कुबेर इव यक्षाणां मरुतामिव वासवः ॥ 005c
वसिष्ठ इव विप्राणां तेजसामिव भास्करः । 006a
पितॄणामिव धर्मेन्द्रो यादसामिव चाम्बुराट् ॥ 006c
नक्षत्राणामिव शशी दितिजानामिवोशनाः । 007a
'सर्वेषामिव लोकानां विश्वस्य च यथा क्षयः ॥' 007c
विश्वोत्पत्तिस्थितिलये श्रेष्ठो नारायणः प्रभुः । 008a
एवं सेनाप्रणेतॄणां मम सेनापतिर्भव ॥ 008c
अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ । 009a
ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव ॥ 009c
प्रयातु नो भवानग्रे देवानामिव पावकिः । 010a
अनुयास्यामहे त्वाऽऽजौ सौरभेया इवर्षभम् ॥ 010c
उग्रधन्वा महेष्वासो दिव्यं विष्फारयन्धनुः । 011a
दृष्ट्वा भवन्तं सङ्ग्रामे नार्जुनः प्रहरिष्यति ॥ 011c
ध्रुवं युधिष्ठिरं सङ्ख्ये सानुबन्धं सबान्धवम् । 012a
जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि ॥ 012c
सञ्जय उवाच 013
एवमुक्ते ततो द्रोणं जयेत्यूचुर्नराधिपाः । 013a
सिंहनादेन महता हर्षयन्तस्तवात्मजम् ॥ 013c
सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम् । 014a
दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः । 014c
दुर्योधनं ततो राजन्द्रोणो वचनमब्रवीत् ॥ ॥ 014e
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि षष्ठोऽध्यायः ॥ 6 ॥
5-1-4 भवान्नेत्रं नेता येषां ते ॥ 5-1-6 धर्मेन्द्रो यमः । अम्बुराट् वरुणः ॥ 5-1-10 पावकिः स्कन्दः ॥ 5-1-6 षष्टोऽध्यायः ॥