श्रीः अध्यायः 005 दुर्योधनपृष्टेन कर्णेन तम् प्रति द्रोणस्य सैनापत्यकरणविधानम् ॥ 1 ॥ सञ्जय उवाच 001
रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम् । 001a
हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् ॥ 001c
सनाथमिव मन्येऽहं भवता पालितं बलम् । 002a
अत्र किं नु समर्थं यद्धितं तत्सम्प्रधार्यताम् ॥ 002c
कर्ण उवाच 003
ब्रूहि नः पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृषु । 003a
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः ॥ 003c
ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर । 004a
नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम ॥ 004c
दुर्योधन उवाच 005
भीष्मः सेनाप्रणेताऽऽसीद्वयसा विक्रमेण च । 005a
श्रुतेन चोपसम्पन्नः सर्वैर्योधगणैस्तथा ॥ 005c
तेनातियशसा कर्ण घ्नता शत्रुगणान्मम । 006a
सुयुद्धेन दशाहानि पालिताः स्मो महात्मना ॥ 006c
तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् । 007a
कं तु सेनाप्रणेतारं मन्यसे तदनन्तरम् ॥ 007c
न विना नायकं सेना मुहूर्तमपि तिष्ठति । 008a
'आहवेषु विशेषेण भ्रष्टनेत्रेष्विवाञ्जनम् ।' 008c
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले ॥ 008e
यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा । 009a
द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम् ॥ 009c
अदेशिको यथा सार्थः सर्वः कृच्छ्रं समृच्छति । 010a
अनायका तथा सेना सर्वान्दोषान्समर्च्छति ॥ 010c
स भावन्वीक्ष्य सर्वेषु मामकेषु महात्मसु । 011a
पश्य सेनापतिं युक्तमनु शान्तनवादिह ॥ 011c
यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे । 012a
तं वयं सहिताः सर्वे करिष्यामो न संशयः ॥ 012c
कर्ण उवाच 013
सर्व एव महात्मान इमे पुरुषसत्तमाः । 013a
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा ॥ 013c
कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः । 014a
युक्ताः श्रुतज्ञा धीमन्त आहवेष्वनिवर्तिनः ॥ 014c
युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः । 015a
एक एव तु कर्तव्यो यस्मिन्वैशेषिका गुणाः ॥ 015c
अन्योन्यस्पर्धिनां ह्येषां यद्येकं त्वं करिष्यसि । 016a
शेषा विमनसो व्यक्तं न योत्स्यन्ति हितास्तव ॥ 016c
अयं च सर्वयोधानामाचार्यः स्थविरो गुरुः । 017a
युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः ॥ 017c
को हि तिष्ठति दुर्धर्षे द्रोणे शस्त्रभृतां वरे । 018a
सेनापतिःस्यादन्योस्माच्छुक्राङ्गिरसदर्शनात् ॥ 018c
न च सोऽप्यस्ति ते योधः सर्वराजसु भारत । 019a
द्रोणं यः समरे यान्तमनुयास्यति संयुगे ॥ 019c
एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि । 020a
एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुस्तव ॥ 020c
एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु । 021a
जिगीषन्तो सुरान्सङ्ख्ये कार्तिकेयमिवामराः ॥ ॥ 021c

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥ 5-1-3 अर्थपतिः प्रधानस्वामी ॥5-1-8 नेता कर्णधारः ॥ 5-1-10 अदेशिकोऽग्रेसररहितः । 5-1-14 संहननं शरीरम् ॥ 5-1-18 शुक्राङ्गिरसदर्शनाच्छुक्रबृहस्पतितुल्यात् । 5-1-5 पञ्चमोऽध्यायः ॥