श्रीः अध्यायः 004

भीष्मानुज्ञातस्य कर्णस्य युद्धायाऽऽगमनम् ॥ 1 ॥ सञ्जय उवाच 001
तस्य लालप्यमानस्य कुरुवृद्धः पितामहः । 001a
देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः ॥ 001c
भीष्म उवाच 002
समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः । 002a
सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा ॥ 002c
पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भवान् । 003a
बान्धवास्त्वाऽनुजीवन्तु स्वादुवृक्षमिवाण्डजाः ॥ 003c
मानहा भव शत्रूणां मित्राणां नन्दिवर्धनः । 004a
कौरवाणां भव गतिर्यथा विष्णुर्दिवौकसाम् ॥ 004c
स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा । 005a
कर्ण राजपुरं गत्वा काम्भोजा निर्जितास्त्वया ॥ 005c
गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः । 006a
अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया ॥ 006c
हिमवद्दुर्गनिलयाः किराता रणकर्कशाः । 007a
दुर्योधनस्य वशगास्त्वया कर्ण पुरा कृताः ॥ 007c
उत्कला मेकलाः पौण्ड्राः कलिङ्गान्ध्राश्च संयुगे । 008a
निषादाश्च त्रिगर्ताश्च बाह्लीकाश्च जितास्त्वया ॥ 008c
तत्रतत्र च सङ्ग्रामे दुर्योधनहितैषिणा । 009a
बहवश्च जिताः कर्ण त्वया वीरा महौजसा ॥ 009c
यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः । 010a
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव ॥ 010c
शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः । 011a
अनुशास्य कुरून्सर्वान्धत्स्व दुर्योधने जयम् ॥ 011c
भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा । 012a
तवापि धर्मतः सर्वे यथा तस्य वयं तथा ॥ 012c
यौनात्सम्बन्धकाल्लोके विशिष्टं सङ्गतं सताम् । 013a
सद्भिः सङ्गममिच्छन्ति तस्मात्प्राज्ञाः परैरपि ॥ 013c
स सत्यसङ्गरो भूत्वा ममेदमिति निश्चितः । 014a
कुरूणां पालय बलं यथा दुर्योधनस्तथा ॥ 014c
'यथा च कुरवो युद्धे योधयन्ति स्म पाण्डवान् । 015a
तथा कर्ण त्वया कार्यं दुर्योधनहितैषिणा॥' 015c
निशम्य वचनं तस्य चरणावभिवाद्य च । 016a
ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति ॥ 016c
सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् । 017a
व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत् ॥ 017c
हृषिताः कुरवः सर्वे दुर्योधनपुरोगमाः । 018a
उपागतं महाबाहुं सर्वानीकपुरःसरम् ॥ 018c
कर्णं दृष्ट्वा महात्मानं युद्धाय समुपस्थितम् । 019a
क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि । 019c
धनुःशब्दैश्च विविधैः कुरवः समपूजयन् ॥ 019e

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥