श्रीः
अध्यायः 003
कर्णेन भीष्ममेत्य युद्धानुज्ञायाचनम् ॥ 1 ॥
सञ्जय उवाच 001
शरतल्पे महात्मानं शयानममितौजसम् । 001a
महाशतसमूहेन समुद्रमिव शोषितम् ॥ 001c
दृष्ट्वा पितामहं भीष्मं सर्वक्षत्रान्तकं गुरुम् । 002a
दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना । 002c
जयाशा तव पुत्राणां सम्भग्ना शर्म वर्म च ॥ 002e
अपाराणामिव द्वीपमगाधे गाधमिच्छताम् । 003a
स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् ॥ 003c
महान्तमिव मैनाकमहार्यं भुवि पातितम् । 004a
नभश्च्युतमिवादित्यं शक्रस्येवामृतं हृतम् ॥ 004c
शतक्रतुमिवाचिन्त्यं पुरा वृत्रेणा निर्जितम् । 005a
मोहनं सर्वसैन्यस्य युधि भीष्मं निपातितम् ॥ 005c
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् । 006a
धनञ्जयशरैर्व्याप्तं पितरं ते महाव्रतम् ॥ 006c
तं वीरशयने वीरं शयानं पुरुषर्षभम् । 007a
भीष्ममाधिरथिर्दृष्ट्वा भरतानां पितामहम् ॥ 007c
प्रस्कन्द्य स रथात्तूर्णं शोकमोहपरिप्लुतः । 008a
'पद्य्भामेव जगामार्तो बाष्पव्याकुललोचनः'। 008c
अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत ॥ 008e
कर्णोऽहमस्मि भद्रं ते वद मामभि भारत । 009a
पुण्यया क्षेमया वाचा चक्षुषा चावलोकय ॥ 009c
न नूनं सुकृतस्येह फलं कश्चित्समश्नुते । 010a
यत्र धर्मपरो वृद्धः शेते भुवि भवानिह ॥ 010c
कोशसञ्चयने मन्त्रे व्यूहे प्रहरणेषु च । 011a
नाहमन्यं प्रपश्यामि कुरूणां कुरुपुङ्गव ॥ 011c
बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् । 012a
योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि ॥ 012c
अद्यप्रभृति सङ्क्रुद्धा व्याघ्रा इव मृगक्षयम् । 013a
पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् ॥ 013c
अद्य गाण्डीवघोषेण वीर्यज्ञाः सव्यसाचिनः । 014a
कुरवः सन्त्रसिष्यन्ति वज्रघोषादिवासुराः ॥ 014c
अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः । 015a
त्रासयिष्यति बाणानां कुरूनन्यांश्च पार्थिवान् ॥ 015c
समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत् । 016a
धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः॥ 016c
येन येन प्रसरतो वाय्वग्नी सहितौ वने । 017a
तेन तेन प्रदहतो भूरिगुल्मतृणद्रुमान् ॥ 017c
यादृशोऽग्निः समुद्भूतस्तादृक्पार्थो न संशयः । 018a
यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः ॥ 018c
नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च । 019a
श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत ॥ 019c
कपिध्वजस्योत्पततो रथस्यामित्रकर्शिनः । 020a
शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः ॥ 020c
को ह्यर्जुनं योधयितुं त्वदन्यः पार्थिवोऽर्हति । 021a
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ॥ 021c
अमानुषैश्च सङ्ग्रामं त्र्यम्बकेण महात्मना । 022a
तस्माच्चैव वरं प्राप्तो दुष्प्रापश्चाकृतात्मभिः ॥ 022c
कोऽन्यः शक्तो रणे जेतुं पूर्वं यो न जितस्त्वया । 023a
जितो येन रणे रामो भवता वीर्यशालिना ॥ 023c
क्षत्रियान्तकरो घोरो देवदानवदर्पहा । 024a
'सोप्यद्याभिहतः शेते शरैः प्रोतः शिखण्डिना ॥' 024c
तमद्याहं पाण्डवं युद्धशौण्डममृष्यमाणो भवता चानुशिष्टः । 025a
आशीविषं दृष्टिहरं सुघोरं शूरं शक्ष्याम्यस्त्रबलान्निहन्तुम् ॥ ॥ 025c
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि तृतीयोऽध्यायः ॥ 3 ॥ 5-1-6 ककुदं श्रेष्ठम् 5-1-19 रसतः शब्दं कुर्वतः ॥ 5-1-22 अमानुषैर्निवातकवचादिभिः ॥ 5-1-3 तृतीयोऽध्यायः ॥